Ashvamedhika Parva, Adhyaya 4, Verse 1
शुश्रूषे तस्य धर्मज्ञ राजर्षेः परिकीर्तनम्
द्वैपायन मरुत्तस्य कथां प्रब्रूहि मेऽनघ
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
शुश्रूषे तस्य धर्मज्ञ राजर्षेः परिकीर्तनम्
द्वैपायन मरुत्तस्य कथां प्रब्रूहि मेऽनघ
आसीत्कृतयुगे पूर्वं मनुर्दण्डधरः प्रभुः
तस्य पुत्रो महेष्वासः प्रजातिरिति विश्रुतः
प्रजातेरभवत्पुत्रः क्षुप इत्यभिविश्रुतः
क्षुपस्य पुत्रस्त्विक्ष्वाकुर्महीपालोऽभवत्प्रभुः
तस्य पुत्रशतं राजन्नासीत्परमधार्मिकम्
तांस्तु सर्वान्महीपालानिक्ष्वाकुरकरोत्प्रभुः
तेषां ज्येष्ठस्तु विंशोऽभूत्प्रतिमानं धनुष्मताम्
विंशस्य पुत्रः कल्याणो विविंशो नाम भारत
विविंशस्य सुता राजन्बभूवुर्दश पञ्च च
सर्वे धनुषि विक्रान्ता ब्रह्मण्याः सत्यवादिनः
दानधर्मरताः सन्तः सततं प्रियवादिनः
तेषां ज्येष्ठः खनीनेत्रः स तान्सर्वानपीडयत्
खनीनेत्रस्तु विक्रान्तो जित्वा राज्यमकण्टकम्
नाशक्नोद्रक्षितुं राज्यं नान्वरज्यन्त तं प्रजाः
तमपास्य च तद्राष्ट्रं तस्य पुत्रं सुवर्चसम्
अभ्यषिञ्चत राजेन्द्र मुदितं चाभवत्तदा
स पितुर्विक्रियां दृष्ट्वा राज्यान्निरसनं तथा
नियतो वर्तयामास प्रजाहितचिकीर्षया
ब्रह्मण्यः सत्यवादी च शुचिः शमदमान्वितः
प्रजास्तं चान्वरज्यन्त धर्मनित्यं मनस्विनम्
तस्य धर्मप्रवृत्तस्य व्यशीर्यत्कोशवाहनम्
तं क्षीणकोशं सामन्ताः समन्तात्पर्यपीडयन्
स पीड्यमानो बहुभिः क्षीणकोशस्त्ववाहनः
आर्तिमार्छत्परां राजा सह भृत्यैः पुरेण च
न चैनं परिहर्तुं तेऽशक्नुवन्परिसंक्षये
सम्यग्वृत्तो हि राजा स धर्मनित्यो युधिष्ठिर
यदा तु परमामार्तिं गतोऽसौ सपुरो नृपः
ततः प्रदध्मौ स करं प्रादुरासीत्ततो बलम्
ततस्तानजयत्सर्वान्प्रातिसीमान्नराधिपान्
एतस्मात्कारणाद्राजन्विश्रुतः स करंधमः
तस्य कारंधमः पुत्रस्त्रेतायुगमुखेऽभवत्
इन्द्रादनवरः श्रीमान्देवैरपि सुदुर्जयः
तस्य सर्वे महीपाला वर्तन्ते स्म वशे तदा
स हि सम्राडभूत्तेषां वृत्तेन च बलेन च
अविक्षिन्नाम धर्मात्मा शौर्येणेन्द्रसमोऽभवत्
यज्ञशीलः कर्मरतिर्धृतिमान्संयतेन्द्रियः
तेजसादित्यसदृशः क्षमया पृथिवीसमः
बृहस्पतिसमो बुद्ध्या हिमवानिव सुस्थिरः
कर्मणा मनसा वाचा दमेन प्रशमेन च
मनांस्याराधयामास प्रजानां स महीपतिः
य ईजे हयमेधानां शतेन विधिवत्प्रभुः
याजयामास यं विद्वान्स्वयमेवाङ्गिराः प्रभुः
तस्य पुत्रोऽतिचक्राम पितरं गुणवत्तया
मरुत्तो नाम धर्मज्ञश्चक्रवर्ती महायशाः
नागायुतसमप्राणः साक्षाद्विष्णुरिवापरः
स यक्ष्यमाणो धर्मात्मा शातकुम्भमयान्युत
कारयामास शुभ्राणि भाजनानि सहस्रशः
मेरुं पर्वतमासाद्य हिमवत्पार्श्व उत्तरे
काञ्चनः सुमहान्पादस्तत्र कर्म चकार सः
ततः कुण्डानि पात्रीश्च पिठराण्यासनानि च
चक्रुः सुवर्णकर्तारो येषां संख्या न विद्यते
तस्यैव च समीपे स यज्ञवाटो बभूव ह
ईजे तत्र स धर्मात्मा विधिवत्पृथिवीपतिः
मरुत्तः सहितैः सर्वैः प्रजापालैर्नराधिपः