Ashvamedhika Parva, Adhyaya 3, Verse 1
युधिष्ठिर तव प्रज्ञा न सम्यगिति मे मतिः
न हि कश्चित्स्वयं मर्त्यः स्ववशः कुरुते क्रियाः
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
युधिष्ठिर तव प्रज्ञा न सम्यगिति मे मतिः
न हि कश्चित्स्वयं मर्त्यः स्ववशः कुरुते क्रियाः
ईश्वरेण नियुक्तोऽयं साध्वसाधु च मानवः
करोति पुरुषः कर्म तत्र का परिदेवना
आत्मानं मन्यसे चाथ पापकर्माणमन्ततः
शृणु तत्र यथा पापमपकृष्येत भारत
तपोभिः क्रतुभिश्चैव दानेन च युधिष्ठिर
तरन्ति नित्यं पुरुषा ये स्म पापानि कुर्वते
यज्ञेन तपसा चैव दानेन च नराधिप
पूयन्ते राजशार्दूल नरा दुष्कृतकर्मिणः
असुराश्च सुराश्चैव पुण्यहेतोर्मखक्रियाम्
प्रयतन्ते महात्मानस्तस्माद्यज्ञाः परायणम्
यज्ञैरेव महात्मानो बभूवुरधिकाः सुराः
ततो देवाः क्रियावन्तो दानवानभ्यधर्षयन्
राजसूयाश्वमेधौ च सर्वमेधं च भारत
नरमेधं च नृपते त्वमाहर युधिष्ठिर
यजस्व वाजिमेधेन विधिवद्दक्षिणावता
बहुकामान्नवित्तेन रामो दाशरथिर्यथा
यथा च भरतो राजा दौःषन्तिः पृथिवीपतिः
शाकुन्तलो महावीर्यस्तव पूर्वपितामहः
असंशयं वाजिमेधः पावयेत्पृथिवीमपि
अभिप्रायस्तु मे कश्चित्तं त्वं श्रोतुमिहार्हसि
इमं ज्ञातिवधं कृत्वा सुमहान्तं द्विजोत्तम
दानमल्पं न शक्यामि दातुं वित्तं च नास्ति मे
न च बालानिमान्दीनानुत्सहे वसु याचितुम्
तथैवार्द्रव्रणान्कृच्छ्रे वर्तमानान्नृपात्मजान्
स्वयं विनाश्य पृथिवीं यज्ञार्थे द्विजसत्तम
करमाहारयिष्यामि कथं शोकपरायणान्
दुर्योधनापराधेन वसुधा वसुधाधिपाः
प्रनष्टा योजयित्वास्मानकीर्त्या मुनिसत्तम
दुर्योधनेन पृथिवी क्षयिता वित्तकारणात्
कोशश्चापि विशीर्णोऽसौ धार्तराष्ट्रस्य दुर्मतेः
पृथिवी दक्षिणा चात्र विधिः प्रथमकल्पिकः
विद्वद्भिः परिदृष्टोऽयं शिष्टो विधिविपर्ययः
न च प्रतिनिधिं कर्तुं चिकीर्षामि तपोधन
अत्र मे भगवन्सम्यक्साचिव्यं कर्तुमर्हसि
एवमुक्तस्तु पार्थेन कृष्णद्वैपायनस्तदा
मुहूर्तमनुसंचिन्त्य धर्मराजानमब्रवीत्
विद्यते द्रविणं पार्थ गिरौ हिमवति स्थितम्
उत्सृष्टं ब्राह्मणैर्यज्ञे मरुत्तस्य महीपतेः
तदानयस्व कौन्तेय पर्याप्तं तद्भविष्यति
कथं यज्ञे मरुत्तस्य द्रविणं तत्समाचितम्
कस्मिंश्च काले स नृपो बभूव वदतां वर
यदि शुश्रूषसे पार्थ शृणु कारंधमं नृपम्
यस्मिन्काले महावीर्यः स राजासीन्महाधनः