Mahabharata

Ashvamedhika Parva, Adhyaya 3

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 3, Verse 1

युधिष्ठिर तव प्रज्ञा न सम्यगिति मे मतिः

न हि कश्चित्स्वयं मर्त्यः स्ववशः कुरुते क्रियाः

Mahabharata

Ashvamedhika Parva, Adhyaya 3, Verse 2

ईश्वरेण नियुक्तोऽयं साध्वसाधु च मानवः

करोति पुरुषः कर्म तत्र का परिदेवना

Mahabharata

Ashvamedhika Parva, Adhyaya 3, Verse 3

आत्मानं मन्यसे चाथ पापकर्माणमन्ततः

शृणु तत्र यथा पापमपकृष्येत भारत

Mahabharata

Ashvamedhika Parva, Adhyaya 3, Verse 4

तपोभिः क्रतुभिश्चैव दानेन च युधिष्ठिर

तरन्ति नित्यं पुरुषा ये स्म पापानि कुर्वते

Mahabharata

Ashvamedhika Parva, Adhyaya 3, Verse 5

यज्ञेन तपसा चैव दानेन च नराधिप

पूयन्ते राजशार्दूल नरा दुष्कृतकर्मिणः

Mahabharata

Ashvamedhika Parva, Adhyaya 3, Verse 6

असुराश्च सुराश्चैव पुण्यहेतोर्मखक्रियाम्

प्रयतन्ते महात्मानस्तस्माद्यज्ञाः परायणम्

Mahabharata

Ashvamedhika Parva, Adhyaya 3, Verse 7

यज्ञैरेव महात्मानो बभूवुरधिकाः सुराः

ततो देवाः क्रियावन्तो दानवानभ्यधर्षयन्

Mahabharata

Ashvamedhika Parva, Adhyaya 3, Verse 8

राजसूयाश्वमेधौ च सर्वमेधं च भारत

नरमेधं च नृपते त्वमाहर युधिष्ठिर

Mahabharata

Ashvamedhika Parva, Adhyaya 3, Verse 9

यजस्व वाजिमेधेन विधिवद्दक्षिणावता

बहुकामान्नवित्तेन रामो दाशरथिर्यथा

Mahabharata

Ashvamedhika Parva, Adhyaya 3, Verse 10

यथा च भरतो राजा दौःषन्तिः पृथिवीपतिः

शाकुन्तलो महावीर्यस्तव पूर्वपितामहः

Mahabharata

Ashvamedhika Parva, Adhyaya 3, Verse 11

असंशयं वाजिमेधः पावयेत्पृथिवीमपि

अभिप्रायस्तु मे कश्चित्तं त्वं श्रोतुमिहार्हसि

Mahabharata

Ashvamedhika Parva, Adhyaya 3, Verse 12

इमं ज्ञातिवधं कृत्वा सुमहान्तं द्विजोत्तम

दानमल्पं न शक्यामि दातुं वित्तं च नास्ति मे

Mahabharata

Ashvamedhika Parva, Adhyaya 3, Verse 13

न च बालानिमान्दीनानुत्सहे वसु याचितुम्

तथैवार्द्रव्रणान्कृच्छ्रे वर्तमानान्नृपात्मजान्

Mahabharata

Ashvamedhika Parva, Adhyaya 3, Verse 14

स्वयं विनाश्य पृथिवीं यज्ञार्थे द्विजसत्तम

करमाहारयिष्यामि कथं शोकपरायणान्

Mahabharata

Ashvamedhika Parva, Adhyaya 3, Verse 15

दुर्योधनापराधेन वसुधा वसुधाधिपाः

प्रनष्टा योजयित्वास्मानकीर्त्या मुनिसत्तम

Mahabharata

Ashvamedhika Parva, Adhyaya 3, Verse 16

दुर्योधनेन पृथिवी क्षयिता वित्तकारणात्

कोशश्चापि विशीर्णोऽसौ धार्तराष्ट्रस्य दुर्मतेः

Mahabharata

Ashvamedhika Parva, Adhyaya 3, Verse 17

पृथिवी दक्षिणा चात्र विधिः प्रथमकल्पिकः

विद्वद्भिः परिदृष्टोऽयं शिष्टो विधिविपर्ययः

Mahabharata

Ashvamedhika Parva, Adhyaya 3, Verse 18

न च प्रतिनिधिं कर्तुं चिकीर्षामि तपोधन

अत्र मे भगवन्सम्यक्साचिव्यं कर्तुमर्हसि

Mahabharata

Ashvamedhika Parva, Adhyaya 3, Verse 19

एवमुक्तस्तु पार्थेन कृष्णद्वैपायनस्तदा

मुहूर्तमनुसंचिन्त्य धर्मराजानमब्रवीत्

Mahabharata

Ashvamedhika Parva, Adhyaya 3, Verse 20

विद्यते द्रविणं पार्थ गिरौ हिमवति स्थितम्

उत्सृष्टं ब्राह्मणैर्यज्ञे मरुत्तस्य महीपतेः

तदानयस्व कौन्तेय पर्याप्तं तद्भविष्यति

Mahabharata

Ashvamedhika Parva, Adhyaya 3, Verse 21

कथं यज्ञे मरुत्तस्य द्रविणं तत्समाचितम्

कस्मिंश्च काले स नृपो बभूव वदतां वर

Mahabharata

Ashvamedhika Parva, Adhyaya 3, Verse 22

यदि शुश्रूषसे पार्थ शृणु कारंधमं नृपम्

यस्मिन्काले महावीर्यः स राजासीन्महाधनः