Ashvamedhika Parva, Adhyaya 2, Verse 1
एवमुक्तस्तु राज्ञा स धृतराष्ट्रेण धीमता
तूष्णीं बभूव मेधावी तमुवाचाथ केशवः
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमुक्तस्तु राज्ञा स धृतराष्ट्रेण धीमता
तूष्णीं बभूव मेधावी तमुवाचाथ केशवः
अतीव मनसा शोकः क्रियमाणो जनाधिप
संतापयति वैतस्य पूर्वप्रेतान्पितामहान्
यजस्व विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः
देवांस्तर्पय सोमेन स्वधया च पितॄनपि
त्वद्विधस्य महाबुद्धे नैतदद्योपपद्यते
विदितं वेदितव्यं ते कर्तव्यमपि ते कृतम्
श्रुताश्च राजधर्मास्ते भीष्माद्भागीरथीसुतात्
कृष्णद्वैपायनाच्चैव नारदाद्विदुरात्तथा
नेमामर्हसि मूढानां वृत्तिं त्वमनुवर्तितुम्
पितृपैतामहीं वृत्तिमास्थाय धुरमुद्वह
युक्तं हि यशसा क्षत्रं स्वर्गं प्राप्तुमसंशयम्
न हि कश्चन शूराणां निहतोऽत्र पराङ्मुखः
त्यज शोकं महाराज भवितव्यं हि तत्तथा
न शक्यास्ते पुनर्द्रष्टुं त्वया ह्यस्मिन्रणे हताः
एतावदुक्त्वा गोविन्दो धर्मराजं युधिष्ठिरम्
विरराम महातेजास्तमुवाच युधिष्ठिरः
गोविन्द मयि या प्रीतिस्तव सा विदिता मम
सौहृदेन तथा प्रेम्णा सदा मामनुकम्पसे
प्रियं तु मे स्यात्सुमहत्कृतं चक्रगदाधर
श्रीमन्प्रीतेन मनसा सर्वं यादवनन्दन
यदि मामनुजानीयाद्भवान्गन्तुं तपोवनम्
न हि शान्तिं प्रपश्यामि घातयित्वा पितामहम्
कर्णं च पुरुषव्याघ्रं संग्रामेष्वपलायिनम्
कर्मणा येन मुच्येयमस्मात्क्रूरादरिंदम
कर्मणस्तद्विधत्स्वेह येन शुध्यति मे मनः
तमेवंवादिनं व्यासस्ततः प्रोवाच धर्मवित्
सान्त्वयन्सुमहातेजाः शुभं वचनमर्थवत्
अकृता ते मतिस्तात पुनर्बाल्येन मुह्यसे
किमाकाशे वयं सर्वे प्रलपाम मुहुर्मुहुः
विदिताः क्षत्रधर्मास्ते येषां युद्धेन जीविका
यथा प्रवृत्तो नृपतिर्नाधिबन्धेन युज्यते
मोक्षधर्माश्च निखिला याथातथ्येन ते श्रुताः
असकृच्चैव संदेहाश्छिन्नास्ते कामजा मया
अश्रद्दधानो दुर्मेधा लुप्तस्मृतिरसि ध्रुवम्
मैवं भव न ते युक्तमिदमज्ञानमीदृशम्
प्रायश्चित्तानि सर्वाणि विदितानि च तेऽनघ
युद्धधर्माश्च ते सर्वे दानधर्माश्च ते श्रुताः
स कथं सर्वधर्मज्ञः सर्वागमविशारदः
परिमुह्यसि भूयस्त्वमज्ञानादिव भारत