Mahabharata

Ashvamedhika Parva, Adhyaya 1

Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 1, Verse 1

कृतोदकं तु राजानं धृतराष्ट्रं युधिष्ठिरः

पुरस्कृत्य महाबाहुरुत्तताराकुलेन्द्रियः

Mahabharata

Ashvamedhika Parva, Adhyaya 1, Verse 2

उत्तीर्य च महीपालो बाष्पव्याकुललोचनः

पपात तीरे गङ्गाया व्याधविद्ध इव द्विपः

Mahabharata

Ashvamedhika Parva, Adhyaya 1, Verse 3

तं सीदमानं जग्राह भीमः कृष्णेन चोदितः

मैवमित्यब्रवीच्चैनं कृष्णः परबलार्दनः

Mahabharata

Ashvamedhika Parva, Adhyaya 1, Verse 4

तमार्तं पतितं भूमौ निश्वसन्तं पुनः पुनः

ददृशुः पाण्डवा राजन्धर्मात्मानं युधिष्ठिरम्

Mahabharata

Ashvamedhika Parva, Adhyaya 1, Verse 5

तं दृष्ट्वा दीनमनसं गतसत्त्वं जनेश्वरम्

भूयः शोकसमाविष्टाः पाण्डवाः समुपाविशन्

Mahabharata

Ashvamedhika Parva, Adhyaya 1, Verse 6

राजा च धृतराष्ट्रस्तमुपासीनो महाभुजः

वाक्यमाह महाप्राज्ञो महाशोकप्रपीडितम्

Mahabharata

Ashvamedhika Parva, Adhyaya 1, Verse 7

उत्तिष्ठ कुरुशार्दूल कुरु कार्यमनन्तरम्

क्षत्रधर्मेण कौरव्य जितेयमवनिस्त्वया

Mahabharata

Ashvamedhika Parva, Adhyaya 1, Verse 8

तां भुङ्क्ष्व भ्रातृभिः सार्धं सुहृद्भिश्च जनेश्वर

न शोचितव्यं पश्यामि त्वया धर्मभृतां वर

Mahabharata

Ashvamedhika Parva, Adhyaya 1, Verse 9

शोचितव्यं मया चैव गान्धार्या च विशां पते

पुत्रैर्विहीनो राज्येन स्वप्नलब्धधनो यथा

Mahabharata

Ashvamedhika Parva, Adhyaya 1, Verse 10

अश्रुत्वा हितकामस्य विदुरस्य महात्मनः

वाक्यानि सुमहार्थानि परितप्यामि दुर्मतिः

Mahabharata

Ashvamedhika Parva, Adhyaya 1, Verse 11

उक्तवानेष मां पूर्वं धर्मात्मा दिव्यदर्शनः

दुर्योधनापराधेन कुलं ते विनशिष्यति

Mahabharata

Ashvamedhika Parva, Adhyaya 1, Verse 12

स्वस्ति चेदिच्छसे राजन्कुलस्यात्मन एव च

वध्यतामेष दुष्टात्मा मन्दो राजा सुयोधनः

Mahabharata

Ashvamedhika Parva, Adhyaya 1, Verse 13

कर्णश्च शकुनिश्चैव मैनं पश्यतु कर्हिचित्

द्यूतसंपातमप्येषामप्रमत्तो निवारय

Mahabharata

Ashvamedhika Parva, Adhyaya 1, Verse 14

अभिषेचय राजानं धर्मात्मानं युधिष्ठिरम्

स पालयिष्यति वशी धर्मेण पृथिवीमिमाम्

Mahabharata

Ashvamedhika Parva, Adhyaya 1, Verse 15

अथ नेच्छसि राजानं कुन्तीपुत्रं युधिष्ठिरम्

मेढीभूतः स्वयं राज्यं प्रतिगृह्णीष्व पार्थिव

Mahabharata

Ashvamedhika Parva, Adhyaya 1, Verse 16

समं सर्वेषु भूतेषु वर्तमानं नराधिप

अनुजीवन्तु सर्वे त्वां ज्ञातयो ज्ञातिवर्धन

Mahabharata

Ashvamedhika Parva, Adhyaya 1, Verse 17

एवं ब्रुवति कौन्तेय विदुरे दीर्घदर्शिनि

दुर्योधनमहं पापमन्ववर्तं वृथामतिः

Mahabharata

Ashvamedhika Parva, Adhyaya 1, Verse 18

अश्रुत्वा ह्यस्य वीरस्य वाक्यानि मधुराण्यहम्

फलं प्राप्य महद्दुःखं निमग्नः शोकसागरे

Mahabharata

Ashvamedhika Parva, Adhyaya 1, Verse 19

वृद्धौ हि ते स्वः पितरौ पश्यावां दुःखितौ नृप

न शोचितव्यं भवता पश्यामीह जनाधिप