Anushasana Parva, Adhyaya 152, Verse 1
तूष्णींभूते तदा भीष्मे पटे चित्रमिवार्पितम्
मुहूर्तमिव च ध्यात्वा व्यासः सत्यवतीसुतः
नृपं शयानं गाङ्गेयमिदमाह वचस्तदा
Containing 13 sacred Sanskrit shlokas with multi-author commentaries and translations.
तूष्णींभूते तदा भीष्मे पटे चित्रमिवार्पितम्
मुहूर्तमिव च ध्यात्वा व्यासः सत्यवतीसुतः
नृपं शयानं गाङ्गेयमिदमाह वचस्तदा
राजन्प्रकृतिमापन्नः कुरुराजो युधिष्ठिरः
सहितो भ्रातृभिः सर्वैः पार्थिवैश्चानुयायिभिः
उपास्ते त्वां नरव्याघ्र सह कृष्णेन धीमता
तमिमं पुरयानाय त्वमनुज्ञातुमर्हसि
एवमुक्तो भगवता व्यासेन पृथिवीपतिः
युधिष्ठिरं सहामात्यमनुजज्ञे नदीसुतः
उवाच चैनं मधुरं ततः शांतनवो नृपः
प्रविशस्व पुरं राजन्व्येतु ते मानसो ज्वरः
यजस्व विविधैर्यज्ञैर्बह्वन्नैः स्वाप्तदक्षिणैः
ययातिरिव राजेन्द्र श्रद्धादमपुरःसरः
क्षत्रधर्मरतः पार्थ पितॄन्देवांश्च तर्पय
श्रेयसा योक्ष्यसे चैव व्येतु ते मानसो ज्वरः
रञ्जयस्व प्रजाः सर्वाः प्रकृतीः परिसान्त्वय
सुहृदः फलसत्कारैरभ्यर्चय यथार्हतः
अनु त्वां तात जीवन्तु मित्राणि सुहृदस्तथा
चैत्यस्थाने स्थितं वृक्षं फलवन्तमिव द्विजाः
आगन्तव्यं च भवता समये मम पार्थिव
विनिवृत्ते दिनकरे प्रवृत्ते चोत्तरायणे
तथेत्युक्त्वा तु कौन्तेयः सोऽभिवाद्य पितामहम्
प्रययौ सपरीवारो नगरं नागसाह्वयम्
धृतराष्ट्रं पुरस्कृत्य गान्धारीं च पतिव्रताम्
सह तैरृषिभिः सर्वैर्भ्रातृभिः केशवेन च
पौरजानपदैश्चैव मन्त्रिवृद्धैश्च पार्थिवः
प्रविवेश कुरुश्रेष्ठ पुरं वारणसाह्वयम्