Mahabharata

Anushasana Parva, Adhyaya 151

Containing 51 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 151, Verse 1

किं श्रेयः पुरुषस्येह किं कुर्वन्सुखमेधते

विपाप्मा च भवेत्केन किं वा कल्मषनाशनम्

Mahabharata

Anushasana Parva, Adhyaya 151, Verse 2

अयं दैवतवंशो वै ऋषिवंशसमन्वितः

द्विसंध्यं पठितः पुत्र कल्मषापहरः परः

Mahabharata

Anushasana Parva, Adhyaya 151, Verse 3

देवासुरगुरुर्देवः सर्वभूतनमस्कृतः

अचिन्त्योऽथाप्यनिर्देश्यः सर्वप्राणो ह्ययोनिजः

Mahabharata

Anushasana Parva, Adhyaya 151, Verse 4

पितामहो जगन्नाथः सावित्री ब्रह्मणः सती

वेदभूरथ कर्ता च विष्णुर्नारायणः प्रभुः

Mahabharata

Anushasana Parva, Adhyaya 151, Verse 5

उमापतिर्विरूपाक्षः स्कन्दः सेनापतिस्तथा

विशाखो हुतभुग्वायुश्चन्द्रादित्यौ प्रभाकरौ

Mahabharata

Anushasana Parva, Adhyaya 151, Verse 6

शक्रः शचीपतिर्देवो यमो धूमोर्णया सह

वरुणः सह गौर्या च सह ऋद्ध्या धनेश्वरः

Mahabharata

Anushasana Parva, Adhyaya 151, Verse 7

सौम्या गौः सुरभिर्देवी विश्रवाश्च महानृषिः

षट्कालः सागरो गङ्गा स्रवन्त्योऽथ मरुद्गणाः

Mahabharata

Anushasana Parva, Adhyaya 151, Verse 8

वालखिल्यास्तपःसिद्धाः कृष्णद्वैपायनस्तथा

नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः

Mahabharata

Anushasana Parva, Adhyaya 151, Verse 9

तुम्बरुश्चित्रसेनश्च देवदूतश्च विश्रुतः

देवकन्या महाभागा दिव्याश्चाप्सरसां गणाः

Mahabharata

Anushasana Parva, Adhyaya 151, Verse 10

उर्वशी मेनका रम्भा मिश्रकेशी अलम्बुषा

विश्वाची च घृताची च पञ्चचूडा तिलोत्तमा

Mahabharata

Anushasana Parva, Adhyaya 151, Verse 11

आदित्या वसवो रुद्राः साश्विनः पितरोऽपि च

धर्मः सत्यं तपो दीक्षा व्यवसायः पितामहः

Mahabharata

Anushasana Parva, Adhyaya 151, Verse 12

शर्वर्यो दिवसाश्चैव मारीचः कश्यपस्तथा

शुक्रो बृहस्पतिर्भौमो बुधो राहुः शनैश्चरः

Mahabharata

Anushasana Parva, Adhyaya 151, Verse 13

नक्षत्राण्यृतवश्चैव मासाः संध्याः सवत्सराः

वैनतेयाः समुद्राश्च कद्रुजाः पन्नगास्तथा

Mahabharata

Anushasana Parva, Adhyaya 151, Verse 14

शतद्रूश्च विपाशा च चन्द्रभागा सरस्वती

सिन्धुश्च देविका चैव पुष्करं तीर्थमेव च

Mahabharata

Anushasana Parva, Adhyaya 151, Verse 15

गङ्गा महानदी चैव कपिला नर्मदा तथा

कम्पुना च विशल्या च करतोयाम्बुवाहिनी

Mahabharata

Anushasana Parva, Adhyaya 151, Verse 16

सरयूर्गण्डकी चैव लोहित्यश्च महानदः

ताम्रारुणा वेत्रवती पर्णाशा गौतमी तथा

Mahabharata

Anushasana Parva, Adhyaya 151, Verse 17

गोदावरी च वेण्णा च कृष्णवेणा तथाद्रिजा

दृषद्वती च कावेरी वंक्षुर्मन्दाकिनी तथा

Mahabharata

Anushasana Parva, Adhyaya 151, Verse 18

प्रयागं च प्रभासं च पुण्यं नैमिषमेव च

तच्च विश्वेश्वरस्थानं यत्र तद्विमलं सरः

Mahabharata

Anushasana Parva, Adhyaya 151, Verse 19

पुण्यतीर्थैश्च कलिलं कुरुक्षेत्रं प्रकीर्तितम्

सिन्धूत्तमं तपोदानं जम्बूमार्गमथापि च

Mahabharata

Anushasana Parva, Adhyaya 151, Verse 20

हिरण्वती वितस्ता च तथैवेक्षुमती नदी

वेदस्मृतिर्वैदसिनी मलवासाश्च नद्यपि

Mahabharata

Anushasana Parva, Adhyaya 151, Verse 21

भूमिभागास्तथा पुण्या गङ्गाद्वारमथापि च

ऋषिकुल्यास्तथा मेध्या नदी चित्रपथा तथा

Mahabharata

Anushasana Parva, Adhyaya 151, Verse 22

कौशिकी यमुना सीता तथा चर्मण्वती नदी

नदी भीमरथी चैव बाहुदा च महानदी

महेन्द्रवाणी त्रिदिवा नीलिका च सरस्वती

Mahabharata

Anushasana Parva, Adhyaya 151, Verse 23

नन्दा चापरनन्दा च तथा तीर्थं महाह्रदम्

गयाथ फल्गुतीर्थं च धर्मारण्यं सुरैर्वृतम्

Mahabharata

Anushasana Parva, Adhyaya 151, Verse 24

तथा देवनदी पुण्या सरश्च ब्रह्मनिर्मितम्

पुण्यं त्रिलोकविख्यातं सर्वपापहरं शिवम्

Mahabharata

Anushasana Parva, Adhyaya 151, Verse 25

हिमवान्पर्वतश्चैव दिव्यौषधिसमन्वितः

विन्ध्यो धातुविचित्राङ्गस्तीर्थवानौषधान्वितः

Mahabharata

Anushasana Parva, Adhyaya 151, Verse 26

मेरुर्महेन्द्रो मलयः श्वेतश्च रजताचितः

शृङ्गवान्मन्दरो नीलो निषधो दर्दुरस्तथा

Mahabharata

Anushasana Parva, Adhyaya 151, Verse 27

चित्रकूटोऽञ्जनाभश्च पर्वतो गन्धमादनः

पुण्यः सोमगिरिश्चैव तथैवान्ये महीधराः

दिशश्च विदिशश्चैव क्षितिः सर्वे महीरुहाः

Mahabharata

Anushasana Parva, Adhyaya 151, Verse 28

विश्वेदेवा नभश्चैव नक्षत्राणि ग्रहास्तथा

पान्तु वः सततं देवाः कीर्तिताकीर्तिता मया

Mahabharata

Anushasana Parva, Adhyaya 151, Verse 29

कीर्तयानो नरो ह्येतान्मुच्यते सर्वकिल्बिषैः

स्तुवंश्च प्रतिनन्दंश्च मुच्यते सर्वतो भयात्

सर्वसंकरपापेभ्यो देवतास्तवनन्दकः

Mahabharata

Anushasana Parva, Adhyaya 151, Verse 30

देवतानन्तरं विप्रांस्तपःसिद्धांस्तपोधिकान्

कीर्तितान्कीर्तयिष्यामि सर्वपापप्रमोचनान्