Anushasana Parva, Adhyaya 150, Verse 1
कार्यते यच्च क्रियते सच्चासच्च कृतं ततः
तत्राश्वसीत सत्कृत्वा असत्कृत्वा न विश्वसेत्
Containing 9 sacred Sanskrit shlokas with multi-author commentaries and translations.
कार्यते यच्च क्रियते सच्चासच्च कृतं ततः
तत्राश्वसीत सत्कृत्वा असत्कृत्वा न विश्वसेत्
काल एवात्र कालेन निग्रहानुग्रहौ ददत्
बुद्धिमाविश्य भूतानां धर्मार्थेषु प्रवर्तते
यदा त्वस्य भवेद्बुद्धिर्धर्म्या चार्थप्रदर्शिनी
तदाश्वसीत धर्मात्मादृढबुद्धिर्न विश्वसेत्
एतावन्मात्रमेतद्धि भूतानां प्राज्ञलक्षणम्
कालयुक्तोऽप्युभयविच्छेषमर्थं समाचरेत्
यथा ह्युपस्थितैश्वर्याः पूजयन्ते नरा नरान्
एवमेवात्मनात्मानं पूजयन्तीह धार्मिकाः
न ह्यधर्मतया धर्मं दद्यात्कालः कथंचन
तस्माद्विशुद्धमात्मानं जानीयाद्धर्मचारिणम्
स्प्रष्टुमप्यसमर्थो हि ज्वलन्तमिव पावकम्
अधर्मः सततो धर्मं कालेन परिरक्षितम्
कार्यावेतौ हि कालेन धर्मो हि विजयावहः
त्रयाणामपि लोकानामालोककरणो भवेत्
तत्र कश्चिन्नयेत्प्राज्ञो गृहीत्वैव करे नरम्
उह्यमानः स धर्मेण धर्मे बहुभयच्छले