Mahabharata

Anushasana Parva, Adhyaya 149

Containing 13 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 149, Verse 1

नाभागधेयः प्राप्नोति धनं सुबलवानपि

भागधेयान्वितस्त्वर्थान्कृशो बालश्च विन्दति

Mahabharata

Anushasana Parva, Adhyaya 149, Verse 2

नालाभकाले लभते प्रयत्नेऽपि कृते सति

लाभकालेऽप्रयत्नेन लभते विपुलं धनम्

कृतयत्नाफलाश्चैव दृश्यन्ते शतशो नराः

Mahabharata

Anushasana Parva, Adhyaya 149, Verse 3

यदि यत्नो भवेन्मर्त्यः स सर्वं फलमाप्नुयात्

नालभ्यं चोपलभ्येत नृणां भरतसत्तम

Mahabharata

Anushasana Parva, Adhyaya 149, Verse 4

यदा प्रयत्नं कृतवान्दृश्यते ह्यफलो नरः

मार्गन्नयशतैरर्थानमार्गंश्चापरः सुखी

Mahabharata

Anushasana Parva, Adhyaya 149, Verse 5

अकार्यमसकृत्कृत्वा दृश्यन्ते ह्यधना नराः

धनयुक्तास्त्वधर्मस्था दृश्यन्ते चापरे जनाः

Mahabharata

Anushasana Parva, Adhyaya 149, Verse 6

अधीत्य नीतिं यस्माच्च नीतियुक्तो न दृश्यते

अनभिज्ञश्च साचिव्यं गमितः केन हेतुना

विद्यायुक्तो ह्यविद्यश्च धनवान्दुर्गतस्तथा

Mahabharata

Anushasana Parva, Adhyaya 149, Verse 7

यदि विद्यामुपाश्रित्य नरः सुखमवाप्नुयात्

न विद्वान्विद्यया हीनं वृत्त्यर्थमुपसंश्रयेत्

Mahabharata

Anushasana Parva, Adhyaya 149, Verse 8

यथा पिपासां जयति पुरुषः प्राप्य वै जलम्

दृष्टार्थो विद्ययाप्येवमविद्यां प्रजहेन्नरः

Mahabharata

Anushasana Parva, Adhyaya 149, Verse 9

नाप्राप्तकालो म्रियते विद्धः शरशतैरपि

तृणाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति

Mahabharata

Anushasana Parva, Adhyaya 149, Verse 10

ईहमानः समारम्भान्यदि नासादयेद्धनम्

उग्रं तपः समारोहेन्न ह्यनुप्तं प्ररोहति

Mahabharata

Anushasana Parva, Adhyaya 149, Verse 11

दानेन भोगी भवति मेधावी वृद्धसेवया

अहिंसया च दीर्घायुरिति प्राहुर्मनीषिणः

Mahabharata

Anushasana Parva, Adhyaya 149, Verse 12

तस्माद्दद्यान्न याचेत पूजयेद्धार्मिकानपि

स्वाभाषी प्रियकृच्छुद्धः सर्वसत्त्वाविहिंसकः

Mahabharata

Anushasana Parva, Adhyaya 149, Verse 13

यदा प्रमाणप्रभवः स्वभावश्च सुखासुखे

मशकीटपिपीलानां स्थिरो भव युधिष्ठिर