Mahabharata

Anushasana Parva, Adhyaya 148

Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 148, Verse 1

ये च धर्ममसूयन्ति ये चैनं पर्युपासते

ब्रवीतु भगवानेतत्क्व ते गच्छन्ति तादृशाः

Mahabharata

Anushasana Parva, Adhyaya 148, Verse 2

रजसा तमसा चैव समवस्तीर्णचेतसः

नरकं प्रतिपद्यन्ते धर्मविद्वेषिणो नराः

Mahabharata

Anushasana Parva, Adhyaya 148, Verse 3

ये तु धर्मं महाराज सततं पर्युपासते

सत्यार्जवपराः सन्तस्ते वै स्वर्गभुजो नराः

Mahabharata

Anushasana Parva, Adhyaya 148, Verse 4

धर्म एव रतिस्तेषामाचार्योपासनाद्भवेत्

देवलोकं प्रपद्यन्ते ये धर्मं पर्युपासते

Mahabharata

Anushasana Parva, Adhyaya 148, Verse 5

मनुष्या यदि वा देवाः शरीरमुपताप्य वै

धर्मिणः सुखमेधन्ते लोभद्वेषविवर्जिताः

Mahabharata

Anushasana Parva, Adhyaya 148, Verse 6

प्रथमं ब्रह्मणः पुत्रं धर्ममाहुर्मनीषिणः

धर्मिणः पर्युपासन्ते फलं पक्वमिवाशयः

Mahabharata

Anushasana Parva, Adhyaya 148, Verse 7

असतां कीदृशं रूपं साधवः किं च कुर्वते

ब्रवीतु मे भवानेतत्सन्तोऽसन्तश्च कीदृशाः

Mahabharata

Anushasana Parva, Adhyaya 148, Verse 8

दुराचाराश्च दुर्धर्षा दुर्मुखाश्चाप्यसाधवः

साधवः शीलसंपन्नाः शिष्टाचारस्य लक्षणम्

Mahabharata

Anushasana Parva, Adhyaya 148, Verse 9

राजमार्गे गवां मध्ये गोष्ठमध्ये च धर्मिणः

नोपसेवन्ति राजेन्द्र सर्गं मूत्रपुरीषयोः

Mahabharata

Anushasana Parva, Adhyaya 148, Verse 10

पञ्चानामशनं दत्त्वा शेषमश्नन्ति साधवः

न जल्पन्ति च भुञ्जाना न निद्रान्त्यार्द्रपाणयः

Mahabharata

Anushasana Parva, Adhyaya 148, Verse 11

चित्रभानुमनड्वाहं देवं गोष्ठं चतुष्पथम्

ब्राह्मणं धार्मिकं चैत्यं ते कुर्वन्ति प्रदक्षिणम्

Mahabharata

Anushasana Parva, Adhyaya 148, Verse 12

वृद्धानां भारतप्तानां स्त्रीणां बालातुरस्य च

ब्राह्मणानां गवां राज्ञां पन्थानं ददते च ते

Mahabharata

Anushasana Parva, Adhyaya 148, Verse 13

अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च

तथा शरणकामानां गोप्ता स्यात्स्वागतप्रदः

Mahabharata

Anushasana Parva, Adhyaya 148, Verse 14

सायं प्रातर्मनुष्याणामशनं देवनिर्मितम्

नान्तरा भोजनं दृष्टमुपवासविधिर्हि सः

Mahabharata

Anushasana Parva, Adhyaya 148, Verse 15

होमकाले यथा वह्निः कालमेव प्रतीक्षते

ऋतुकाले तथा नारी ऋतुमेव प्रतीक्षते

न चान्यां गच्छते यस्तु ब्रह्मचर्यं हि तत्स्मृतम्

Mahabharata

Anushasana Parva, Adhyaya 148, Verse 16

अमृतं ब्राह्मणा गाव इत्येतत्त्रयमेकतः

तस्माद्गोब्राह्मणं नित्यमर्चयेत यथाविधि

Mahabharata

Anushasana Parva, Adhyaya 148, Verse 17

यजुषा संस्कृतं मांसमुपभुञ्जन्न दुष्यति

पृष्ठमांसं वृथामांसं पुत्रमांसं च तत्समम्

Mahabharata

Anushasana Parva, Adhyaya 148, Verse 18

स्वदेशे परदेशे वाप्यतिथिं नोपवासयेत्

कर्म वै सफलं कृत्वा गुरूणां प्रतिपादयेत्

Mahabharata

Anushasana Parva, Adhyaya 148, Verse 19

गुरुभ्य आसनं देयमभिवाद्याभिपूज्य च

गुरूनभ्यर्च्य वर्धन्ते आयुषा यशसा श्रिया

Mahabharata

Anushasana Parva, Adhyaya 148, Verse 20

वृद्धान्नातिवदेज्जातु न च संप्रेषयेदपि

नासीनः स्यात्स्थितेष्वेवमायुरस्य न रिष्यते

Mahabharata

Anushasana Parva, Adhyaya 148, Verse 21

न नग्नामीक्षते नारीं न विद्वान्पुरुषानपि

मैथुनं सततं गुप्तमाहारं च समाचरेत्

Mahabharata

Anushasana Parva, Adhyaya 148, Verse 22

तीर्थानां गुरवस्तीर्थं शुचीनां हृदयं शुचि

दर्शनानां परं ज्ञानं संतोषः परमं सुखम्

Mahabharata

Anushasana Parva, Adhyaya 148, Verse 23

सायं प्रातश्च वृद्धानां शृणुयात्पुष्कला गिरः

श्रुतमाप्नोति हि नरः सततं वृद्धसेवया

Mahabharata

Anushasana Parva, Adhyaya 148, Verse 24

स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत्

यच्छेद्वाङ्मनसी नित्यमिन्द्रियाणां च विभ्रमम्

Mahabharata

Anushasana Parva, Adhyaya 148, Verse 25

संस्कृतं पायसं नित्यं यवागूं कृसरं हविः

अष्टकाः पितृदैवत्या वृद्धानामभिपूजनम्

Mahabharata

Anushasana Parva, Adhyaya 148, Verse 26

श्मश्रुकर्मणि मङ्गल्यं क्षुतानामभिनन्दनम्

व्याधितानां च सर्वेषामायुषः प्रतिनन्दनम्

Mahabharata

Anushasana Parva, Adhyaya 148, Verse 27

न जातु त्वमिति ब्रूयादापन्नोऽपि महत्तरम्

त्वंकारो वा वधो वेति विद्वत्सु न विशिष्यते

अवराणां समानानां शिष्याणां च समाचरेत्

Mahabharata

Anushasana Parva, Adhyaya 148, Verse 28

पापमाचक्षते नित्यं हृदयं पापकर्मिणाम्

ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने

Mahabharata

Anushasana Parva, Adhyaya 148, Verse 29

ज्ञानपूर्वं कृतं कर्म च्छादयन्ते ह्यसाधवः

न मां मनुष्याः पश्यन्ति न मां पश्यन्ति देवताः

पापेनाभिहतः पापः पापमेवाभिजायते

Mahabharata

Anushasana Parva, Adhyaya 148, Verse 30

यथा वार्धुषिको वृद्धिं देहभेदे प्रतीक्षते

धर्मेणापिहितं पापं धर्ममेवाभिवर्धयेत्