Mahabharata

Anushasana Parva, Adhyaya 147

Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 147, Verse 1

इत्युक्तवति वाक्यं तु कृष्णे देवकिनन्दने

भीष्मं शांतनवं भूयः पर्यपृच्छद्युधिष्ठिरः

Mahabharata

Anushasana Parva, Adhyaya 147, Verse 2

निर्णये वा महाबुद्धे सर्वधर्मभृतां वर

प्रत्यक्षमागमो वेति किं तयोः कारणं भवेत्

Mahabharata

Anushasana Parva, Adhyaya 147, Verse 3

नास्त्यत्र संशयः कश्चिदिति मे वर्तते मतिः

शृणु वक्ष्यामि ते प्राज्ञ सम्यक्त्वमनुपृच्छसि

Mahabharata

Anushasana Parva, Adhyaya 147, Verse 4

संशयः सुगमो राजन्निर्णयस्त्वत्र दुर्गमः

दृष्टं श्रुतमनन्तं हि यत्र संशयदर्शनम्

Mahabharata

Anushasana Parva, Adhyaya 147, Verse 5

प्रत्यक्षं कारणं दृष्टं हेतुकाः प्राज्ञमानिनः

नास्तीत्येवं व्यवस्यन्ति सत्यं संशयमेव च

तदयुक्तं व्यवस्यन्ति बालाः पण्डितमानिनः

Mahabharata

Anushasana Parva, Adhyaya 147, Verse 6

अथ चेन्मन्यसे चैकं कारणं किं भवेदिति

शक्यं दीर्घेण कालेन युक्तेनातन्द्रितेन च

प्राणयात्रामनेकां च कल्पयानेन भारत

Mahabharata

Anushasana Parva, Adhyaya 147, Verse 7

तत्परेणैव नान्येन शक्यं ह्येतत्तु कारणम्

हेतूनामन्तमासाद्य विपुलं ज्ञानमुत्तमम्

ज्योतिः सर्वस्य लोकस्य विपुलं प्रतिपद्यते

Mahabharata

Anushasana Parva, Adhyaya 147, Verse 8

तत्त्वेनागमनं राजन्हेत्वन्तगमनं तथा

अग्राह्यमनिबद्धं च वाचः संपरिवर्जनम्

Mahabharata

Anushasana Parva, Adhyaya 147, Verse 9

प्रत्यक्षं लोकतः सिद्धं लोकाश्चागमपूर्वकाः

शिष्टाचारो बहुविधो ब्रूहि तन्मे पितामह

Mahabharata

Anushasana Parva, Adhyaya 147, Verse 10

धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः

संस्था यत्नैरपि कृता कालेन परिभिद्यते

Mahabharata

Anushasana Parva, Adhyaya 147, Verse 11

अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः

ततस्तैर्भिद्यते वृत्तं शृणु चैव युधिष्ठिर

Mahabharata

Anushasana Parva, Adhyaya 147, Verse 12

अवृत्त्या ये च भिन्दन्ति श्रुतत्यागपरायणाः

धर्मविद्वेषिणो मन्दा इत्युक्तस्तेषु संशयः

Mahabharata

Anushasana Parva, Adhyaya 147, Verse 13

अतृप्यन्तस्तु साधूनां य एवागमबुद्धयः

परमित्येव संतुष्टास्तानुपास्स्व च पृच्छ च

Mahabharata

Anushasana Parva, Adhyaya 147, Verse 14

कामार्थौ पृष्ठतः कृत्वा लोभमोहानुसारिणौ

धर्म इत्येव संबुद्धास्तानुपास्स्व च पृच्छ च

Mahabharata

Anushasana Parva, Adhyaya 147, Verse 15

न तेषां भिद्यते वृत्तं यज्ञस्वाध्यायकर्मभिः

आचारः कारणं चैव धर्मश्चैव त्रयं पुनः

Mahabharata

Anushasana Parva, Adhyaya 147, Verse 16

पुनरेवेह मे बुद्धिः संशये परिमुह्यते

अपारे मार्गमाणस्य परं तीरमपश्यतः

Mahabharata

Anushasana Parva, Adhyaya 147, Verse 17

वेदाः प्रत्यक्षमाचारः प्रमाणं तत्त्रयं यदि

पृथक्त्वं लभ्यते चैषां धर्मश्चैकस्त्रयं कथम्

Mahabharata

Anushasana Parva, Adhyaya 147, Verse 18

धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः

यद्येवं मन्यसे राजंस्त्रिधा धर्मविचारणा

Mahabharata

Anushasana Parva, Adhyaya 147, Verse 19

एक एवेति जानीहि त्रिधा तस्य प्रदर्शनम्

पृथक्त्वे चैव मे बुद्धिस्त्रयाणामपि वै तथा

Mahabharata

Anushasana Parva, Adhyaya 147, Verse 20

उक्तो मार्गस्त्रयाणां च तत्तथैव समाचर

जिज्ञासा तु न कर्तव्या धर्मस्य परितर्कणात्

Mahabharata

Anushasana Parva, Adhyaya 147, Verse 21

सदैव भरतश्रेष्ठ मा ते भूदत्र संशयः

अन्धो जड इवाशङ्को यद्ब्रवीमि तदाचर

Mahabharata

Anushasana Parva, Adhyaya 147, Verse 22

अहिंसा सत्यमक्रोधो दानमेतच्चतुष्टयम्

अजातशत्रो सेवस्व धर्म एष सनातनः

Mahabharata

Anushasana Parva, Adhyaya 147, Verse 23

ब्राह्मणेषु च वृत्तिर्या पितृपैतामहोचिता

तामन्वेहि महाबाहो स्वर्गस्यैते हि देशिकाः

Mahabharata

Anushasana Parva, Adhyaya 147, Verse 24

प्रमाणमप्रमाणं वै यः कुर्यादबुधो नरः

न स प्रमाणतामर्हो विवादजननो हि सः

Mahabharata

Anushasana Parva, Adhyaya 147, Verse 25

ब्राह्मणानेव सेवस्व सत्कृत्य बहुमन्य च

एतेष्वेव त्विमे लोकाः कृत्स्ना इति निबोध तान्