Mahabharata

Anushasana Parva, Adhyaya 146

Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 146, Verse 1

युधिष्ठिर महाबाहो महाभाग्यं महात्मनः

रुद्राय बहुरूपाय बहुनाम्ने निबोध मे

Mahabharata

Anushasana Parva, Adhyaya 146, Verse 2

वदन्त्यग्निं महादेवं तथा स्थाणुं महेश्वरम्

एकाक्षं त्र्यम्बकं चैव विश्वरूपं शिवं तथा

Mahabharata

Anushasana Parva, Adhyaya 146, Verse 3

द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः

घोरामन्यां शिवामन्यां ते तनू बहुधा पुनः

Mahabharata

Anushasana Parva, Adhyaya 146, Verse 4

उग्रा घोरा तनूर्यास्य सोऽग्निर्विद्युत्स भास्करः

शिवा सौम्या च या तस्य धर्मस्त्वापोऽथ चन्द्रमाः

Mahabharata

Anushasana Parva, Adhyaya 146, Verse 5

आत्मनोऽर्धं तु तस्याग्निरुच्यते भरतर्षभ

ब्रह्मचर्यं चरत्येष शिवा यास्य तनुस्तथा

Mahabharata

Anushasana Parva, Adhyaya 146, Verse 6

यास्य घोरतमा मूर्तिर्जगत्संहरते तया

ईश्वरत्वान्महत्त्वाच्च महेश्वर इति स्मृतः

Mahabharata

Anushasana Parva, Adhyaya 146, Verse 7

यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान्

मांसशोणितमज्जादो यत्ततो रुद्र उच्यते

Mahabharata

Anushasana Parva, Adhyaya 146, Verse 8

देवानां सुमहान्यच्च यच्चास्य विषयो महान्

यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः

Mahabharata

Anushasana Parva, Adhyaya 146, Verse 9

समेधयति यन्नित्यं सर्वार्थान्सर्वकर्मभिः

शिवमिच्छन्मनुष्याणां तस्मादेष शिवः स्मृतः

Mahabharata

Anushasana Parva, Adhyaya 146, Verse 10

दहत्यूर्ध्वं स्थितो यच्च प्राणोत्पत्तिः स्थितिश्च यत्

स्थिरलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः

Mahabharata

Anushasana Parva, Adhyaya 146, Verse 11

यदस्य बहुधा रूपं भूतं भव्यं भवत्तथा

स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः

Mahabharata

Anushasana Parva, Adhyaya 146, Verse 12

धूम्रं रूपं च यत्तस्य धूर्जटीत्यत उच्यते

विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः

Mahabharata

Anushasana Parva, Adhyaya 146, Verse 13

सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोऽपि वा

चक्षुषः प्रभवस्तेजो नास्त्यन्तोऽथास्य चक्षुषाम्

Mahabharata

Anushasana Parva, Adhyaya 146, Verse 14

सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः

तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः

Mahabharata

Anushasana Parva, Adhyaya 146, Verse 15

नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम्

महयन्त्यस्य लोकाश्च महेश्वर इति स्मृतः

Mahabharata

Anushasana Parva, Adhyaya 146, Verse 16

विग्रहं पूजयेद्यो वै लिङ्गं वापि महात्मनः

लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते

Mahabharata

Anushasana Parva, Adhyaya 146, Verse 17

ऋषयश्चापि देवाश्च गन्धर्वाप्सरसस्तथा

लिङ्गमेवार्चयन्ति स्म यत्तदूर्ध्वं समास्थितम्

Mahabharata

Anushasana Parva, Adhyaya 146, Verse 18

पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः

सुखं ददाति प्रीतात्मा भक्तानां भक्तवत्सलः

Mahabharata

Anushasana Parva, Adhyaya 146, Verse 19

एष एव श्मशानेषु देवो वसति नित्यशः

यजन्ते तं जनास्तत्र वीरस्थाननिषेविणम्

Mahabharata

Anushasana Parva, Adhyaya 146, Verse 20

विषमस्थः शरीरेषु स मृत्युः प्राणिनामिह

स च वायुः शरीरेषु प्राणोऽपानः शरीरिणाम्

Mahabharata

Anushasana Parva, Adhyaya 146, Verse 21

तस्य घोराणि रूपाणि दीप्तानि च बहूनि च

लोके यान्यस्य पूज्यन्ते विप्रास्तानि विदुर्बुधाः

Mahabharata

Anushasana Parva, Adhyaya 146, Verse 22

नामधेयानि वेदेषु बहून्यस्य यथार्थतः

निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा

Mahabharata

Anushasana Parva, Adhyaya 146, Verse 23

वेदे चास्य विदुर्विप्राः शतरुद्रीयमुत्तमम्

व्यासादनन्तरं यच्चाप्युपस्थानं महात्मनः

Mahabharata

Anushasana Parva, Adhyaya 146, Verse 24

प्रदाता सर्वलोकानां विश्वं चाप्युच्यते महत्

ज्येष्ठभूतं वदन्त्येनं ब्राह्मणा ऋषयोऽपरे

Mahabharata

Anushasana Parva, Adhyaya 146, Verse 25

प्रथमो ह्येष देवानां मुखादग्निरजायत

ग्रहैर्बहुविधैः प्राणान्संरुद्धानुत्सृजत्यपि

Mahabharata

Anushasana Parva, Adhyaya 146, Verse 26

स मोचयति पुण्यात्मा शरण्यः शरणागतान्

आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान्

Mahabharata

Anushasana Parva, Adhyaya 146, Verse 27

स ददाति मनुष्येभ्यः स एवाक्षिपते पुनः

शक्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते

Mahabharata

Anushasana Parva, Adhyaya 146, Verse 28

स एवाभ्यधिको नित्यं त्रैलोक्यस्य शुभाशुभे

ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते

Mahabharata

Anushasana Parva, Adhyaya 146, Verse 29

महेश्वरश्च लोकानां महतामीश्वरश्च सः

बहुभिर्विविधै रूपैर्विश्वं व्याप्तमिदं जगत्

तस्य देवस्य यद्वक्त्रं समुद्रे वडवामुखम्