Mahabharata

Anushasana Parva, Adhyaya 145

Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 145, Verse 1

दुर्वाससः प्रसादात्ते यत्तदा मधुसूदन

अवाप्तमिह विज्ञानं तन्मे व्याख्यातुमर्हसि

Mahabharata

Anushasana Parva, Adhyaya 145, Verse 2

महाभाग्यं च यत्तस्य नामानि च महात्मनः

तत्त्वतो ज्ञातुमिच्छामि सर्वं मतिमतां वर

Mahabharata

Anushasana Parva, Adhyaya 145, Verse 3

हन्त ते कथयिष्यामि नमस्कृत्वा कपर्दिने

यदवाप्तं महाराज श्रेयो यच्चार्जितं यशः

Mahabharata

Anushasana Parva, Adhyaya 145, Verse 4

प्रयतः प्रातरुत्थाय यदधीये विशां पते

प्राञ्जलिः शतरुद्रीयं तन्मे निगदतः शृणु

Mahabharata

Anushasana Parva, Adhyaya 145, Verse 5

प्रजापतिस्तत्ससृजे तपसोऽन्ते महातपाः

शंकरस्त्वसृजत्तात प्रजाः स्थावरजङ्गमाः

Mahabharata

Anushasana Parva, Adhyaya 145, Verse 6

नास्ति किंचित्परं भूतं महादेवाद्विशां पते

इह त्रिष्वपि लोकेषु भूतानां प्रभवो हि सः

Mahabharata

Anushasana Parva, Adhyaya 145, Verse 7

न चैवोत्सहते स्थातुं कश्चिदग्रे महात्मनः

न हि भूतं समं तेन त्रिषु लोकेषु विद्यते

Mahabharata

Anushasana Parva, Adhyaya 145, Verse 8

गन्धेनापि हि संग्रामे तस्य क्रुद्धस्य शत्रवः

विसंज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च

Mahabharata

Anushasana Parva, Adhyaya 145, Verse 9

घोरं च निनदं तस्य पर्जन्यनिनदोपमम्

श्रुत्वा विदीर्येद्धृदयं देवानामपि संयुगे

Mahabharata

Anushasana Parva, Adhyaya 145, Verse 10

यांश्च घोरेण रूपेण पश्येत्क्रुद्धः पिनाकधृक्

न सुरा नासुरा लोके न गन्धर्वा न पन्नगाः

कुपिते सुखमेधन्ते तस्मिन्नपि गुहागताः

Mahabharata

Anushasana Parva, Adhyaya 145, Verse 11

प्रजापतेश्च दक्षस्य यजतो वितते क्रतौ

विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा

धनुषा बाणमुत्सृज्य सघोषं विननाद च

Mahabharata

Anushasana Parva, Adhyaya 145, Verse 12

ते न शर्म कुतः शान्तिं विषादं लेभिरे सुराः

विद्रुते सहसा यज्ञे कुपिते च महेश्वरे

Mahabharata

Anushasana Parva, Adhyaya 145, Verse 13

तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः

बभूवुरवशाः पार्थ विषेदुश्च सुरासुराः

Mahabharata

Anushasana Parva, Adhyaya 145, Verse 14

आपश्चुक्षुभिरे चैव चकम्पे च वसुंधरा

व्यद्रवन्गिरयश्चापि द्यौः पफाल च सर्वशः

Mahabharata

Anushasana Parva, Adhyaya 145, Verse 15

अन्धेन तमसा लोकाः प्रावृता न चकाशिरे

प्रनष्टा ज्योतिषां भाश्च सह सूर्येण भारत

Mahabharata

Anushasana Parva, Adhyaya 145, Verse 16

भृशं भीतास्ततः शान्तिं चक्रुः स्वस्त्ययनानि च

ऋषयः सर्वभूतानामात्मनश्च हितैषिणः

Mahabharata

Anushasana Parva, Adhyaya 145, Verse 17

ततः सोऽभ्यद्रवद्देवान्क्रुद्धो रौद्रपराक्रमः

भगस्य नयने क्रुद्धः प्रहारेण व्यशातयत्

Mahabharata

Anushasana Parva, Adhyaya 145, Verse 18

पूषाणं चाभिदुद्राव परेण वपुषान्वितः

पुरोडाशं भक्षयतो दशनान्वै व्यशातयत्

Mahabharata

Anushasana Parva, Adhyaya 145, Verse 19

ततः प्रणेमुर्देवास्ते वेपमानाः स्म शंकरम्

पुनश्च संदधे रुद्रो दीप्तं सुनिशितं शरम्

Mahabharata

Anushasana Parva, Adhyaya 145, Verse 20

रुद्रस्य विक्रमं दृष्ट्वा भीता देवाः सहर्षिभिः

ततः प्रसादयामासुः शर्वं ते विबुधोत्तमाः

Mahabharata

Anushasana Parva, Adhyaya 145, Verse 21

जेपुश्च शतरुद्रीयं देवाः कृत्वाञ्जलिं ततः

संस्तूयमानस्त्रिदशैः प्रससाद महेश्वरः

Mahabharata

Anushasana Parva, Adhyaya 145, Verse 22

रुद्रस्य भागं यज्ञे च विशिष्टं ते त्वकल्पयन्

भयेन त्रिदशा राजञ्शरणं च प्रपेदिरे

Mahabharata

Anushasana Parva, Adhyaya 145, Verse 23

तेन चैवातिकोपेन स यज्ञः संधितोऽभवत्

यद्यच्चापि हतं तत्र तत्तथैव प्रदीयते

Mahabharata

Anushasana Parva, Adhyaya 145, Verse 24

असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि

आयसं राजतं चैव सौवर्णमपरं तथा

Mahabharata

Anushasana Parva, Adhyaya 145, Verse 25

नाशकत्तानि मघवा भेत्तुं सर्वायुधैरपि

अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः

Mahabharata

Anushasana Parva, Adhyaya 145, Verse 26

तत ऊचुर्महात्मानो देवाः सर्वे समागताः

रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु

जहि दैत्यान्सह पुरैर्लोकांस्त्रायस्व मानद

Mahabharata

Anushasana Parva, Adhyaya 145, Verse 27

स तथोक्तस्तथेत्युक्त्वा विष्णुं कृत्वा शरोत्तमम्

शल्यमग्निं तथा कृत्वा पुङ्खं वैवस्वतं यमम्

वेदान्कृत्वा धनुः सर्वाञ्ज्यां च सावित्रिमुत्तमाम्

Mahabharata

Anushasana Parva, Adhyaya 145, Verse 28

देवान्रथवरं कृत्वा विनियुज्य च सर्वशः

त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः

Mahabharata

Anushasana Parva, Adhyaya 145, Verse 29

शरेणादित्यवर्णेन कालाग्निसमतेजसा

तेऽसुराः सपुरास्तत्र दग्धा रुद्रेण भारत

Mahabharata

Anushasana Parva, Adhyaya 145, Verse 30

तं चैवाङ्कगतं दृष्ट्वा बालं पञ्चशिखं पुनः

उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्तदा