Anushasana Parva, Adhyaya 144, Verse 1
ब्रूहि ब्राह्मणपूजायां व्युष्टिं त्वं मधुसूदन
वेत्ता त्वमस्य चार्थस्य वेद त्वां हि पितामहः
Containing 51 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रूहि ब्राह्मणपूजायां व्युष्टिं त्वं मधुसूदन
वेत्ता त्वमस्य चार्थस्य वेद त्वां हि पितामहः
शृणुष्वावहितो राजन्द्विजानां भरतर्षभ
यथातत्त्वेन वदतो गुणान्मे कुरुसत्तम
प्रद्युम्नः परिपप्रच्छ ब्राह्मणैः परिकोपितः
किं फलं ब्राह्मणेष्वस्ति पूजायां मधुसूदन
ईश्वरस्य सतस्तस्य इह चैव परत्र च
सदा द्विजातीन्संपूज्य किं फलं तत्र मानद
एतद्ब्रूहि पितः सर्वं सुमहान्संशयोऽत्र मे
इत्युक्तवचनस्तेन प्रद्युम्नेन तदा त्वहम्
प्रत्यब्रुवं महाराज यत्तच्छृणु समाहितः
व्युष्टिं ब्राह्मणपूजायां रौक्मिणेय निबोध मे
एते हि सोमराजान ईश्वराः सुखदुःखयोः
अस्मिँल्लोके रौक्मिणेय तथामुष्मिंश्च पुत्रक
ब्राह्मणप्रमुखं सौख्यं न मेऽत्रास्ति विचारणा
ब्राह्मणप्रमुखं वीर्यमायुः कीर्तिर्यशो बलम्
लोका लोकेश्वराश्चैव सर्वे ब्राह्मणपूर्वकाः
तत्कथं नाद्रियेयं वै ईश्वरोऽस्मीति पुत्रक
मा ते मन्युर्महाबाहो भवत्वत्र द्विजान्प्रति
ब्राह्मणो हि महद्भूतमस्मिँल्लोके परत्र च
भस्म कुर्युर्जगदिदं क्रुद्धाः प्रत्यक्षदर्शिनः
अन्यानपि सृजेयुश्च लोकाँल्लोकेश्वरांस्तथा
कथं तेषु न वर्तेय सम्यग्ज्ञानात्सुतेजसः
अवसन्मद्गृहे तात ब्राह्मणो हरिपिङ्गलः
चीरवासा बिल्वदण्डी दीर्घश्मश्रुनखादिमान्
दीर्घेभ्यश्च मनुष्येभ्यः प्रमाणादधिको भुवि
स स्म संचरते लोकान्ये दिव्या ये च मानुषाः
इमा गाथा गायमानश्चत्वरेषु सभासु च
दुर्वाससं वासयेत्को ब्राह्मणं सत्कृतं गृहे
परिभाषां च मे श्रुत्वा को नु दद्यात्प्रतिश्रयम्
यो मां कश्चिद्वासयेत न स मां कोपयेदिह
तं स्म नाद्रियते कश्चित्ततोऽहं तमवासयम्
स स्म भुङ्क्ते सहस्राणां बहूनामन्नमेकदा
एकदा स्माल्पकं भुङ्क्ते न वैति च पुनर्गृहान्
अकस्माच्च प्रहसति तथाकस्मात्प्ररोदिति
न चास्य वयसा तुल्यः पृथिव्यामभवत्तदा
सोऽस्मदावसथं गत्वा शय्याश्चास्तरणानि च
कन्याश्चालंकृता दग्ध्वा ततो व्यपगतः स्वयम्
अथ मामब्रवीद्भूयः स मुनिः संशितव्रतः
कृष्ण पायसमिच्छामि भोक्तुमित्येव सत्वरः
सदैव तु मया तस्य चित्तज्ञेन गृहे जनः
सर्वाण्येवान्नपानानि भक्ष्याश्चोच्चावचास्तथा
भवन्तु सत्कृतानीति पूर्वमेव प्रचोदितः
ततोऽहं ज्वलमानं वै पायसं प्रत्यवेदयम्
तद्भुक्त्वैव तु स क्षिप्रं ततो वचनमब्रवीत्
क्षिप्रमङ्गानि लिम्पस्व पायसेनेति स स्म ह
अविमृश्यैव च ततः कृतवानस्मि तत्तथा
तेनोच्छिष्टेन गात्राणि शिरश्चैवाभ्यमृक्षयम्
स ददर्श तदाभ्याशे मातरं ते शुभाननाम्
तामपि स्मयमानः स पायसेनाभ्यलेपयत्
मुनिः पायसदिग्धाङ्गीं रथे तूर्णमयोजयत्
तमारुह्य रथं चैव निर्ययौ स गृहान्मम
अग्निवर्णो ज्वलन्धीमान्स द्विजो रथधुर्यवत्
प्रतोदेनातुदद्बालां रुक्मिणीं मम पश्यतः
न च मे स्तोकमप्यासीद्दुःखमीर्ष्याकृतं तदा
ततः स राजमार्गेण महता निर्ययौ बहिः
तद्दृष्ट्वा महदाश्चर्यं दाशार्हा जातमन्यवः
तत्राजल्पन्मिथः केचित्समाभाष्य परस्परम्
ब्राह्मणा एव जायेरन्नान्यो वर्णः कथंचन
को ह्येनं रथमास्थाय जीवेदन्यः पुमानिह
आशीविषविषं तीक्ष्णं ततस्तीक्ष्णतरं विषम्
ब्रह्माशीविषदग्धस्य नास्ति कश्चिच्चिकित्सकः
तस्मिन्व्रजति दुर्धर्षे प्रास्खलद्रुक्मिणी पथि
तां नामर्षयत श्रीमांस्ततस्तूर्णमचोदयत्