Anushasana Parva, Adhyaya 143, Verse 1
ब्राह्मणानर्चसे राजन्सततं संशितव्रतान्
कं तु कर्मोदयं दृष्ट्वा तानर्चसि नराधिप
Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्राह्मणानर्चसे राजन्सततं संशितव्रतान्
कं तु कर्मोदयं दृष्ट्वा तानर्चसि नराधिप
कां वा ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा महाव्रत
तानर्चसि महाबाहो सर्वमेतद्वदस्व मे
एष ते केशवः सर्वमाख्यास्यति महामतिः
व्युष्टिं ब्राह्मणपूजायां दृष्टव्युष्टिर्महाव्रतः
बलं श्रोत्रे वाङ्मनश्चक्षुषी च; ज्ञानं तथा न विशुद्धं ममाद्य
देहन्यासो नातिचिरान्मतो मे; न चातितूर्णं सविताद्य याति
उक्ता धर्मा ये पुराणे महान्तो; ब्राह्मणानां क्षत्रियाणां विशां च
पौराणं ये दण्डमुपासते च; शेषं कृष्णादुपशिक्षस्व पार्थ
अहं ह्येनं वेद्मि तत्त्वेन कृष्णं; योऽयं हि यच्चास्य बलं पुराणम्
अमेयात्मा केशवः कौरवेन्द्र; सोऽयं धर्मं वक्ष्यति संशयेषु
कृष्णः पृथ्वीमसृजत्खं दिवं च; वराहोऽयं भीमबलः पुराणः
अस्य चाधोऽथान्तरिक्षं दिवं च; दिशश्चतस्रः प्रदिशश्चतस्रः
सृष्टिस्तथैवेयमनुप्रसूता; स निर्ममे विश्वमिदं पुराणम्
अस्य नाभ्यां पुष्करं संप्रसूतं; यत्रोत्पन्नः स्वयमेवामितौजाः
येनाच्छिन्नं तत्तमः पार्थ घोरं; यत्तत्तिष्ठत्यर्णवं तर्जयानम्
कृते युगे धर्म आसीत्समग्र;स्त्रेताकाले ज्ञानमनुप्रपन्नः
बलं त्वासीद्द्वापरे पार्थ कृष्णः; कलावधर्मः क्षितिमाजगाम
स पूर्वदेवो निजघान दैत्या;न्स पूर्वदेवश्च बभूव सम्राट्
स भूतानां भावनो भूतभव्यः; स विश्वस्यास्य जगतश्चापि गोप्ता
यदा धर्मो ग्लायति वै सुराणां; तदा कृष्णो जायते मानुषेषु
धर्मे स्थित्वा स तु वै भावितात्मा; परांश्च लोकानपरांश्च याति
त्याज्यांस्त्यक्त्वाथासुराणां वधाय; कार्याकार्ये कारणं चैव पार्थ
कृतं करिष्यत्क्रियते च देवो; मुहुः सोमं विद्धि च शक्रमेतम्
स विश्वकर्मा स च विश्वरूपः; स विश्वभृद्विश्वसृग्विश्वजिच्च
स शूलभृच्छोणितभृत्कराल;स्तं कर्मभिर्विदितं वै स्तुवन्ति
तं गन्धर्वा अप्सरसश्च नित्य;मुपतिष्ठन्ते विबुधानां शतानि
तं राक्षसाश्च परिसंवहन्ते; रायस्पोषः स विजिगीषुरेकः
तमध्वरे शंसितारः स्तुवन्ति; रथंतरे सामगाश्च स्तुवन्ति
तं ब्राह्मणा ब्रह्ममन्त्रैः स्तुवन्ति; तस्मै हविरध्वर्यवः कल्पयन्ति
स पौराणीं ब्रह्मगुहां प्रविष्टो; महीसत्रं भारताग्रे ददर्श
स चैव गामुद्दधाराग्र्यकर्मा; विक्षोभ्य दैत्यानुरगान्दानवांश्च
तस्य भक्षान्विविधान्वेदयन्ति; तमेवाजौ वाहनं वेदयन्ति
तस्यान्तरिक्षं पृथिवी दिवं च; सर्वं वशे तिष्ठति शाश्वतस्य
स कुम्भरेताः ससृजे पुराणं; यत्रोत्पन्नमृषिमाहुर्वसिष्ठम्
स मातरिश्वा विभुरश्ववाजी; स रश्मिमान्सविता चादिदेवः
तेनासुरा विजिताः सर्व एव; तस्य विक्रान्तैर्विजितानीह त्रीणि
स देवानां मानुषाणां पितॄणां; तमेवाहुर्यज्ञविदां वितानम्
स एव कालं विभजन्नुदेति; तस्योत्तरं दक्षिणं चायने द्वे
तस्यैवोर्ध्वं तिर्यगधश्चरन्ति; गभस्तयो मेदिनीं तापयन्तः
तं ब्राह्मणा वेदविदो जुषन्ति; तस्यादित्यो भामुपयुज्य भाति
स मासि मास्यध्वरकृद्विधत्ते; तमध्वरे वेदविदः पठन्ति
स एकयुक्चक्रमिदं त्रिनाभि; सप्ताश्वयुक्तं वहते वै त्रिधामा
महातेजाः सर्वगः सर्वसिंहः; कृष्णो लोकान्धारयते तथैकः
अश्नन्ननश्नंश्च तथैव धीरः; कृष्णं सदा पार्थ कर्तारमेहि
स एकदा कक्षगतो महात्मा; तृप्तो विभुः खाण्डवे धूमकेतुः
स राक्षसानुरगांश्चावजित्य; सर्वत्रगः सर्वमग्नौ जुहोति
स एवाश्वः श्वेतमश्वं प्रयच्छ;त्स एवाश्वानथ सर्वांश्चकार
त्रिवन्धुरस्तस्य रथस्त्रिचक्र;स्त्रिवृच्छिराश्चतुरस्रश्च तस्य
स विहायो व्यदधात्पञ्चनाभिः; स निर्ममे गां दिवमन्तरिक्षम्
एवं रम्यानसृजत्पर्वतांश्च; हृषीकेशोऽमितदीप्ताग्नितेजाः
स लङ्घयन्वै सरितो जिघांस;न्स तं वज्रं प्रहरन्तं निरास
स महेन्द्रः स्तूयते वै महाध्वरे; विप्रैरेको ऋक्सहस्रैः पुराणैः
दुर्वासा वै तेन नान्येन शक्यो; गृहे राजन्वासयितुं महौजाः
तमेवाहुरृषिमेकं पुराणं; स विश्वकृद्विदधात्यात्मभावान्
वेदांश्च यो वेदयतेऽधिदेवो; विधींश्च यश्चाश्रयते पुराणान्
कामे वेदे लौकिके यत्फलं च; विष्वक्सेने सर्वमेतत्प्रतीहि
ज्योतींषि शुक्लानि च सर्वलोके; त्रयो लोका लोकपालास्त्रयश्च
त्रयोऽग्नयो व्याहृतयश्च तिस्रः; सर्वे देवा देवकीपुत्र एव
संवत्सरः स ऋतुः सोऽर्धमासः; सोऽहोरात्रः स कला वै स काष्ठाः
मात्रा मुहूर्ताश्च लवाः क्षणाश्च; विष्वक्सेने सर्वमेतत्प्रतीहि