Anushasana Parva, Adhyaya 142, Verse 1
तूष्णीमासीदर्जुनस्तु पवनस्त्वब्रवीत्पुनः
शृणु मे ब्राह्मणेष्वेव मुख्यं कर्म जनाधिप
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
तूष्णीमासीदर्जुनस्तु पवनस्त्वब्रवीत्पुनः
शृणु मे ब्राह्मणेष्वेव मुख्यं कर्म जनाधिप
मदस्यास्यमनुप्राप्ता यदा सेन्द्रा दिवौकसः
तदेयं च्यवनेनेह हृता तेषां वसुंधरा
उभौ लोकौ हृतौ मत्वा ते देवा दुःखिताभवन्
शोकार्ताश्च महात्मानं ब्रह्माणं शरणं ययुः
मदास्यव्यतिषिक्तानामस्माकं लोकपूजित
च्यवनेन हृता भूमिः कपैश्चापि दिवं प्रभो
गच्छध्वं शरणं विप्रानाशु सेन्द्रा दिवौकसः
प्रसाद्य तानुभौ लोकाववाप्स्यथ यथा पुरा
ते ययुः शरणं विप्रांस्त ऊचुः काञ्जयामहे
इत्युक्तास्ते द्विजान्प्राहुर्जयतेह कपानिति
भूगतान्हि विजेतारो वयमित्येव पार्थिव
ततः कर्म समारब्धं ब्राह्मणैः कपनाशनम्
तच्छ्रुत्वा प्रेषितो दूतो ब्राह्मणेभ्यो धनी कपैः
स च तान्ब्राह्मणानाह धनी कपवचो यथा
भवद्भिः सदृशाः सर्वे कपाः किमिह वर्तते
सर्वे वेदविदः प्राज्ञाः सर्वे च क्रतुयाजिनः
सर्वे सत्यव्रताश्चैव सर्वे तुल्या महर्षिभिः
श्रीश्चैव रमते तेषु धारयन्ति श्रियं च ते
वृथा दारान्न गच्छन्ति वृथामांसं न भुञ्जते
दीप्तमग्निं जुह्वति च गुरूणां वचने स्थिताः
सर्वे च नियतात्मानो बालानां संविभागिनः
उपेत्य शकटैर्यान्ति न सेवन्ति रजस्वलाम्
अभुक्तवत्सु नाश्नन्ति दिवा चैव न शेरते
एतैश्चान्यैश्च बहुभिर्गुणैर्युक्तान्कथं कपान्
विजेष्यथ निवर्तध्वं निवृत्तानां शुभं हि वः
कपान्वयं विजेष्यामो ये देवास्ते वयं स्मृताः
तस्माद्वध्याः कपास्माकं धनिन्याहि यथागतम्
धनी गत्वा कपानाह न वो विप्राः प्रियंकराः
गृहीत्वास्त्राण्यथो विप्रान्कपाः सर्वे समाद्रवन्
समुदग्रध्वजान्दृष्ट्वा कपान्सर्वे द्विजातयः
व्यसृजञ्ज्वलितानग्नीन्कपानां प्राणनाशनान्
ब्रह्मसृष्टा हव्यभुजः कपान्भुक्त्वा सनातनाः
नभसीव यथाभ्राणि व्यराजन्त नराधिप
प्रशशंसुर्द्विजांश्चैव ब्रह्माणं च यशस्विनम्
तेषां तेजस्तथा वीर्यं देवानां ववृधे ततः
अवाप्नुवंश्चामरत्वं त्रिषु लोकेषु पूजितम्
इत्युक्तवचनं वायुमर्जुनः प्रत्यभाषत
प्रतिपूज्य महाबाहो यत्तच्छृणु नराधिप
जीवाम्यहं ब्राह्मणार्थे सर्वथा सततं प्रभो
ब्रह्मणे ब्राह्मणेभ्यश्च प्रणमामि च नित्यशः
दत्तात्रेयप्रसादाच्च मया प्राप्तमिदं यशः
लोके च परमा कीर्तिर्धर्मश्च चरितो महान्
अहो ब्राह्मणकर्माणि यथा मारुत तत्त्वतः
त्वया प्रोक्तानि कार्त्स्न्येन श्रुतानि प्रयतेन ह
ब्राह्मणान्क्षत्रधर्मेण पालयस्वेन्द्रियाणि च
भृगुभ्यस्ते भयं घोरं तत्तु कालाद्भविष्यति