Mahabharata

Anushasana Parva, Adhyaya 140

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 140, Verse 1

इत्युक्तः स तदा तूष्णीमभूद्वायुस्ततोऽब्रवीत्

शृणु राजन्नगस्त्यस्य माहात्म्यं ब्राह्मणस्य ह

Mahabharata

Anushasana Parva, Adhyaya 140, Verse 2

असुरैर्निर्जिता देवा निरुत्साहाश्च ते कृताः

यज्ञाश्चैषां हृताः सर्वे पितृभ्यश्च स्वधा तथा

Mahabharata

Anushasana Parva, Adhyaya 140, Verse 3

कर्मेज्या मानवानां च दानवैर्हैहयर्षभ

भ्रष्टैश्वर्यास्ततो देवाश्चेरुः पृथ्वीमिति श्रुतिः

Mahabharata

Anushasana Parva, Adhyaya 140, Verse 4

ततः कदाचित्ते राजन्दीप्तमादित्यवर्चसम्

ददृशुस्तेजसा युक्तमगस्त्यं विपुलव्रतम्

Mahabharata

Anushasana Parva, Adhyaya 140, Verse 5

अभिवाद्य च तं देवा दृष्ट्वा च यशसा वृतम्

इदमूचुर्महात्मानं वाक्यं काले जनाधिप

Mahabharata

Anushasana Parva, Adhyaya 140, Verse 6

दानवैर्युधि भग्नाः स्म तथैश्वर्याच्च भ्रंशिताः

तदस्मान्नो भयात्तीव्रात्त्राहि त्वं मुनिपुंगव

Mahabharata

Anushasana Parva, Adhyaya 140, Verse 7

इत्युक्तः स तदा देवैरगस्त्यः कुपितोऽभवत्

प्रजज्वाल च तेजस्वी कालाग्निरिव संक्षये

Mahabharata

Anushasana Parva, Adhyaya 140, Verse 8

तेन दीप्तांशुजालेन निर्दग्धा दानवास्तदा

अन्तरिक्षान्महाराज न्यपतन्त सहस्रशः

Mahabharata

Anushasana Parva, Adhyaya 140, Verse 9

दह्यमानास्तु ते दैत्यास्तस्यागस्त्यस्य तेजसा

उभौ लोकौ परित्यज्य ययुः काष्ठां स्म दक्षिणाम्

Mahabharata

Anushasana Parva, Adhyaya 140, Verse 10

बलिस्तु यजते यज्ञमश्वमेधं महीं गतः

येऽन्ये स्वस्था महीस्थाश्च ते न दग्धा महासुराः

Mahabharata

Anushasana Parva, Adhyaya 140, Verse 11

ततो लोकाः पुनः प्राप्ताः सुरैः शान्तं च तद्रजः

अथैनमब्रुवन्देवा भूमिष्ठानसुराञ्जहि

Mahabharata

Anushasana Parva, Adhyaya 140, Verse 12

इत्युक्त आह देवान्स न शक्नोमि महीगतान्

दग्धुं तपो हि क्षीयेन्मे धक्ष्यामीति च पार्थिव

Mahabharata

Anushasana Parva, Adhyaya 140, Verse 13

एवं दग्धा भगवता दानवाः स्वेन तेजसा

अगस्त्येन तदा राजंस्तपसा भावितात्मना

Mahabharata

Anushasana Parva, Adhyaya 140, Verse 14

ईदृशश्चाप्यगस्त्यो हि कथितस्ते मयानघ

ब्रवीम्यहं ब्रूहि वा त्वमगस्त्यात्क्षत्रियं वरम्

Mahabharata

Anushasana Parva, Adhyaya 140, Verse 15

इत्युक्तः स तदा तूष्णीमभूद्वायुस्ततोऽब्रवीत्

शृणु राजन्वसिष्ठस्य मुख्यं कर्म यशस्विनः

Mahabharata

Anushasana Parva, Adhyaya 140, Verse 16

आदित्याः सत्रमासन्त सरो वै मानसं प्रति

वसिष्ठं मनसा गत्वा श्रुत्वा तत्रास्य गोचरम्

Mahabharata

Anushasana Parva, Adhyaya 140, Verse 17

यजमानांस्तु तान्दृष्ट्वा व्यग्रान्दीक्षानुकर्शितान्

हन्तुमिच्छन्ति शैलाभाः खलिनो नाम दानवाः

Mahabharata

Anushasana Parva, Adhyaya 140, Verse 18

अदूरात्तु ततस्तेषां ब्रह्मदत्तवरं सरः

हता हता वै ते तत्र जीवन्त्याप्लुत्य दानवाः

Mahabharata

Anushasana Parva, Adhyaya 140, Verse 19

ते प्रगृह्य महाघोरान्पर्वतान्परिघान्द्रुमान्

विक्षोभयन्तः सलिलमुत्थिताः शतयोजनम्

Mahabharata

Anushasana Parva, Adhyaya 140, Verse 20

अभ्यद्रवन्त देवांस्ते सहस्राणि दशैव ह

ततस्तैरर्दिता देवाः शरणं वासवं ययुः

Mahabharata

Anushasana Parva, Adhyaya 140, Verse 21

स च तैर्व्यथितः शक्रो वसिष्ठं शरणं ययौ

ततोऽभयं ददौ तेभ्यो वसिष्ठो भगवानृषिः

Mahabharata

Anushasana Parva, Adhyaya 140, Verse 22

तथा तान्दुःखिताञ्जानन्नानृशंस्यपरो मुनिः

अयत्नेनादहत्सर्वान्खलिनः स्वेन तेजसा

Mahabharata

Anushasana Parva, Adhyaya 140, Verse 23

कैलासं प्रस्थितां चापि नदीं गङ्गां महातपाः

आनयत्तत्सरो दिव्यं तया भिन्नं च तत्सरः

Mahabharata

Anushasana Parva, Adhyaya 140, Verse 24

सरो भिन्नं तया नद्या सरयूः सा ततोऽभवत्

हताश्च खलिनो यत्र स देशः खलिनोऽभवत्

Mahabharata

Anushasana Parva, Adhyaya 140, Verse 25

एवं सेन्द्रा वसिष्ठेन रक्षितास्त्रिदिवौकसः

ब्रह्मदत्तवराश्चैव हता दैत्या महात्मना

Mahabharata

Anushasana Parva, Adhyaya 140, Verse 26

एतत्कर्म वसिष्ठस्य कथितं ते मयानघ

ब्रवीम्यहं ब्रूहि वा त्वं वसिष्ठात्क्षत्रियं वरम्