Mahabharata

Anushasana Parva, Adhyaya 138

Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 138, Verse 1

शृणु मूढ गुणान्कांश्चिद्ब्राह्मणानां महात्मनाम्

ये त्वया कीर्तिता राजंस्तेभ्योऽथ ब्राह्मणो वरः

Mahabharata

Anushasana Parva, Adhyaya 138, Verse 2

त्यक्त्वा महीत्वं भूमिस्तु स्पर्धयाङ्गनृपस्य ह

नाशं जगाम तां विप्रो व्यष्टम्भयत कश्यपः

Mahabharata

Anushasana Parva, Adhyaya 138, Verse 3

अक्षया ब्राह्मणा राजन्दिवि चेह च नित्यदा

अपिबत्तेजसा ह्यापः स्वयमेवाङ्गिराः पुरा

Mahabharata

Anushasana Parva, Adhyaya 138, Verse 4

स ताः पिबन्क्षीरमिव नातृप्यत महातपाः

अपूरयन्महौघेन महीं सर्वां च पार्थिव

Mahabharata

Anushasana Parva, Adhyaya 138, Verse 5

तस्मिन्नहं च क्रुद्धे वै जगत्त्यक्त्वा ततो गतः

व्यतिष्ठमग्निहोत्रे च चिरमङ्गिरसो भयात्

Mahabharata

Anushasana Parva, Adhyaya 138, Verse 6

अभिशप्तश्च भगवान्गौतमेन पुरंदरः

अहल्यां कामयानो वै धर्मार्थं च न हिंसितः

Mahabharata

Anushasana Parva, Adhyaya 138, Verse 7

तथा समुद्रो नृपते पूर्णो मृष्टेन वारिणा

ब्राह्मणैरभिशप्तः सँल्लवणोदः कृतो विभो

Mahabharata

Anushasana Parva, Adhyaya 138, Verse 8

सुवर्णवर्णो निर्धूमः संहतोर्ध्वशिखः कविः

क्रुद्धेनाङ्गिरसा शप्तो गुणैरेतैर्विवर्जितः

Mahabharata

Anushasana Parva, Adhyaya 138, Verse 9

मरुतश्चूर्णितान्पश्य येऽहसन्त महोदधिम्

सुवर्णधारिणा नित्यमवशप्ता द्विजातिना

Mahabharata

Anushasana Parva, Adhyaya 138, Verse 10

समो न त्वं द्विजातिभ्यः श्रेष्ठं विद्धि नराधिप

गर्भस्थान्ब्राह्मणान्सम्यङ्नमस्यति किल प्रभुः

Mahabharata

Anushasana Parva, Adhyaya 138, Verse 11

दण्डकानां महद्राज्यं ब्राह्मणेन विनाशितम्

तालजङ्घं महत्क्षत्रमौर्वेणैकेन नाशितम्

Mahabharata

Anushasana Parva, Adhyaya 138, Verse 12

त्वया च विपुलं राज्यं बलं धर्मः श्रुतं तथा

दत्तात्रेयप्रसादेन प्राप्तं परमदुर्लभम्

Mahabharata

Anushasana Parva, Adhyaya 138, Verse 13

अग्निं त्वं यजसे नित्यं कस्मादर्जुन ब्राह्मणम्

स हि सर्वस्य लोकस्य हव्यवाट्किं न वेत्सि तम्

Mahabharata

Anushasana Parva, Adhyaya 138, Verse 14

अथ वा ब्राह्मणश्रेष्ठमनु भूतानुपालकम्

कर्तारं जीवलोकस्य कस्माज्जानन्विमुह्यसे

Mahabharata

Anushasana Parva, Adhyaya 138, Verse 15

तथा प्रजापतिर्ब्रह्मा अव्यक्तः प्रभवाप्ययः

येनेदं निखिलं विश्वं जनितं स्थावरं चरम्

Mahabharata

Anushasana Parva, Adhyaya 138, Verse 16

अण्डजातं तु ब्रह्माणं केचिदिच्छन्त्यपण्डिताः

अण्डाद्भिन्नाद्बभुः शैला दिशोऽम्भः पृथिवी दिवम्

Mahabharata

Anushasana Parva, Adhyaya 138, Verse 17

द्रष्टव्यं नैतदेवं हि कथं ज्यायस्तमो हि सः

स्मृतमाकाशमण्डं तु तस्माज्जातः पितामहः

Mahabharata

Anushasana Parva, Adhyaya 138, Verse 18

तिष्ठेत्कथमिति ब्रूहि न किंचिद्धि तदा भवेत्

अहंकार इति प्रोक्तः सर्वतेजोगतः प्रभुः

Mahabharata

Anushasana Parva, Adhyaya 138, Verse 19

नास्त्यण्डमस्ति तु ब्रह्मा स राजँल्लोकभावनः

इत्युक्तः स तदा तूष्णीमभूद्वायुस्तमब्रवीत्