Mahabharata

Anushasana Parva, Adhyaya 137

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 137, Verse 1

कां तु ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा जनाधिप

कं वा कर्मोदयं मत्वा तानर्चसि महामते

Mahabharata

Anushasana Parva, Adhyaya 137, Verse 2

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

पवनस्य च संवादमर्जुनस्य च भारत

Mahabharata

Anushasana Parva, Adhyaya 137, Verse 3

सहस्रभुजभृच्छ्रीमान्कार्तवीर्योऽभवत्प्रभुः

अस्य लोकस्य सर्वस्य माहिष्मत्यां महाबलः

Mahabharata

Anushasana Parva, Adhyaya 137, Verse 4

स तु रत्नाकरवतीं सद्वीपां सागराम्बराम्

शशास सर्वां पृथिवीं हैहयः सत्यविक्रमः

Mahabharata

Anushasana Parva, Adhyaya 137, Verse 5

स्ववित्तं तेन दत्तं तु दत्तात्रेयाय कारणे

क्षत्रधर्मं पुरस्कृत्य विनयं श्रुतमेव च

Mahabharata

Anushasana Parva, Adhyaya 137, Verse 6

आराधयामास च तं कृतवीर्यात्मजो मुनिम्

न्यमन्त्रयत संहृष्टः स द्विजश्च वरैस्त्रिभिः

Mahabharata

Anushasana Parva, Adhyaya 137, Verse 7

स वरैश्छन्दितस्तेन नृपो वचनमब्रवीत्

सहस्रबाहुर्भूयां वै चमूमध्ये गृहेऽन्यथा

Mahabharata

Anushasana Parva, Adhyaya 137, Verse 8

मम बाहुसहस्रं तु पश्यन्तां सैनिका रणे

विक्रमेण महीं कृत्स्नां जयेयं विपुलव्रत

तां च धर्मेण संप्राप्य पालयेयमतन्द्रितः

Mahabharata

Anushasana Parva, Adhyaya 137, Verse 9

चतुर्थं तु वरं याचे त्वामहं द्विजसत्तम

तं ममानुग्रहकृते दातुमर्हस्यनिन्दित

अनुशासन्तु मां सन्तो मिथ्यावृत्तं तदाश्रयम्

Mahabharata

Anushasana Parva, Adhyaya 137, Verse 10

इत्युक्तः स द्विजः प्राह तथास्त्विति नराधिपम्

एवं समभवंस्तस्य वरास्ते दीप्ततेजसः

Mahabharata

Anushasana Parva, Adhyaya 137, Verse 11

ततः स रथमास्थाय ज्वलनार्कसमद्युतिः

अब्रवीद्वीर्यसंमोहात्को न्वस्ति सदृशो मया

वीर्यधैर्ययशःशौचैर्विक्रमेणौजसापि वा

Mahabharata

Anushasana Parva, Adhyaya 137, Verse 12

तद्वाक्यान्ते चान्तरिक्षे वागुवाचाशरीरिणी

न त्वं मूढ विजानीषे ब्राह्मणं क्षत्रियाद्वरम्

सहितो ब्राह्मणेनेह क्षत्रियो रक्षति प्रजाः

Mahabharata

Anushasana Parva, Adhyaya 137, Verse 13

कुर्यां भूतानि तुष्टोऽहं क्रुद्धो नाशं तथा नये

कर्मणा मनसा वाचा न मत्तोऽस्ति वरो द्विजः

Mahabharata

Anushasana Parva, Adhyaya 137, Verse 14

पूर्वो ब्रह्मोत्तरो वादो द्वितीयः क्षत्रियोत्तरः

त्वयोक्तौ यौ तु तौ हेतू विशेषस्त्वत्र दृश्यते

Mahabharata

Anushasana Parva, Adhyaya 137, Verse 15

ब्राह्मणाः संश्रिताः क्षत्रं न क्षत्रं ब्राह्मणाश्रितम्

श्रितान्ब्रह्मोपधा विप्राः खादन्ति क्षत्रियान्भुवि

Mahabharata

Anushasana Parva, Adhyaya 137, Verse 16

क्षत्रियेष्वाश्रितो धर्मः प्रजानां परिपालनम्

क्षत्राद्वृत्तिर्ब्राह्मणानां तैः कथं ब्राह्मणो वरः

Mahabharata

Anushasana Parva, Adhyaya 137, Verse 17

सर्वभूतप्रधानांस्तान्भैक्षवृत्तीनहं सदा

आत्मसंभावितान्विप्रान्स्थापयाम्यात्मनो वशे

Mahabharata

Anushasana Parva, Adhyaya 137, Verse 18

कथितं ह्यनया सत्यं गायत्र्या कन्यया दिवि

विजेष्याम्यवशान्सर्वान्ब्राह्मणांश्चर्मवाससः

Mahabharata

Anushasana Parva, Adhyaya 137, Verse 19

न च मां च्यावयेद्राष्ट्रात्त्रिषु लोकेषु कश्चन

देवो वा मानुषो वापि तस्माज्ज्येष्ठो द्विजादहम्

Mahabharata

Anushasana Parva, Adhyaya 137, Verse 20

अद्य ब्रह्मोत्तरं लोकं करिष्ये क्षत्रियोत्तरम्

न हि मे संयुगे कश्चित्सोढुमुत्सहते बलम्

Mahabharata

Anushasana Parva, Adhyaya 137, Verse 21

अर्जुनस्य वचः श्रुत्वा वित्रस्ताभून्निशाचरी

अथैनमन्तरिक्षस्थस्ततो वायुरभाषत

Mahabharata

Anushasana Parva, Adhyaya 137, Verse 22

त्यजैनं कलुषं भावं ब्राह्मणेभ्यो नमस्कुरु

एतेषां कुर्वतः पापं राष्ट्रक्षोभो हि ते भवेत्

Mahabharata

Anushasana Parva, Adhyaya 137, Verse 23

अथ वा त्वां महीपाल शमयिष्यन्ति वै द्विजाः

निरसिष्यन्ति वा राष्ट्राद्धतोत्साहं महाबलाः

Mahabharata

Anushasana Parva, Adhyaya 137, Verse 24

तं राजा कस्त्वमित्याह ततस्तं प्राह मारुतः

वायुर्वै देवदूतोऽस्मि हितं त्वां प्रब्रवीम्यहम्

Mahabharata

Anushasana Parva, Adhyaya 137, Verse 25

अहो त्वयाद्य विप्रेषु भक्तिरागः प्रदर्शितः

यादृशं पृथिवी भूतं तादृशं ब्रूहि वै द्विजम्

Mahabharata

Anushasana Parva, Adhyaya 137, Verse 26

वायोर्वा सदृशं किंचिद्ब्रूहि त्वं ब्राह्मणोत्तमम्

अपां वै सदृशं ब्रूहि सूर्यस्य नभसोऽपि वा