Mahabharata

Anushasana Parva, Adhyaya 135

Containing 142 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 135, Verse 1

श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः

युधिष्ठिरः शांतनवं पुनरेवाभ्यभाषत

Mahabharata

Anushasana Parva, Adhyaya 135, Verse 2

किमेकं दैवतं लोके किं वाप्येकं परायणम्

स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम्

Mahabharata

Anushasana Parva, Adhyaya 135, Verse 3

को धर्मः सर्वधर्माणां भवतः परमो मतः

किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात्

Mahabharata

Anushasana Parva, Adhyaya 135, Verse 4

जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम्

स्तुवन्नामसहस्रेण पुरुषः सततोत्थितः

Mahabharata

Anushasana Parva, Adhyaya 135, Verse 5

तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम्

ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च

Mahabharata

Anushasana Parva, Adhyaya 135, Verse 6

अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम्

लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत्

Mahabharata

Anushasana Parva, Adhyaya 135, Verse 7

ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम्

लोकनाथं महद्भूतं सर्वभूतभवोद्भवम्

Mahabharata

Anushasana Parva, Adhyaya 135, Verse 8

एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः

यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा

Mahabharata

Anushasana Parva, Adhyaya 135, Verse 9

परमं यो महत्तेजः परमं यो महत्तपः

परमं यो महद्ब्रह्म परमं यः परायणम्

Mahabharata

Anushasana Parva, Adhyaya 135, Verse 10

पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम्

दैवतं देवतानां च भूतानां योऽव्ययः पिता

Mahabharata

Anushasana Parva, Adhyaya 135, Verse 11

यतः सर्वाणि भूतानि भवन्त्यादियुगागमे

यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये

Mahabharata

Anushasana Parva, Adhyaya 135, Verse 12

तस्य लोकप्रधानस्य जगन्नाथस्य भूपते

विष्णोर्नामसहस्रं मे शृणु पापभयापहम्

Mahabharata

Anushasana Parva, Adhyaya 135, Verse 13

यानि नामानि गौणानि विख्यातानि महात्मनः

ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये

Mahabharata

Anushasana Parva, Adhyaya 135, Verse 14

विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः

भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः

Mahabharata

Anushasana Parva, Adhyaya 135, Verse 15

पूतात्मा परमात्मा च मुक्तानां परमा गतिः

अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च

Mahabharata

Anushasana Parva, Adhyaya 135, Verse 16

योगो योगविदां नेता प्रधानपुरुषेश्वरः

नारसिंहवपुः श्रीमान्केशवः पुरुषोत्तमः

Mahabharata

Anushasana Parva, Adhyaya 135, Verse 17

सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः

संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः

Mahabharata

Anushasana Parva, Adhyaya 135, Verse 18

स्वयंभूः शंभुरादित्यः पुष्कराक्षो महास्वनः

अनादिनिधनो धाता विधाता धातुरुत्तमः

Mahabharata

Anushasana Parva, Adhyaya 135, Verse 19

अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः

विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः

Mahabharata

Anushasana Parva, Adhyaya 135, Verse 20

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः

प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम्

Mahabharata

Anushasana Parva, Adhyaya 135, Verse 21

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः

हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः

Mahabharata

Anushasana Parva, Adhyaya 135, Verse 22

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः

अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान्

Mahabharata

Anushasana Parva, Adhyaya 135, Verse 23

सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः

अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः

Mahabharata

Anushasana Parva, Adhyaya 135, Verse 24

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः

वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः

Mahabharata

Anushasana Parva, Adhyaya 135, Verse 25

वसुर्वसुमनाः सत्यः समात्मा संमितः समः

अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः

Mahabharata

Anushasana Parva, Adhyaya 135, Verse 26

रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः

अमृतः शाश्वतः स्थाणुर्वरारोहो महातपाः

Mahabharata

Anushasana Parva, Adhyaya 135, Verse 27

सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः

वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः

Mahabharata

Anushasana Parva, Adhyaya 135, Verse 28

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः

चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः

Mahabharata

Anushasana Parva, Adhyaya 135, Verse 29

भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः

अनघो विजयो जेता विश्वयोनिः पुनर्वसुः

Mahabharata

Anushasana Parva, Adhyaya 135, Verse 30

उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः

अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः