Anushasana Parva, Adhyaya 134, Verse 1
परावरज्ञे धर्मज्ञे तपोवननिवासिनि
साध्वि सुभ्रु सुकेशान्ते हिमवत्पर्वतात्मजे
Containing 57 sacred Sanskrit shlokas with multi-author commentaries and translations.
परावरज्ञे धर्मज्ञे तपोवननिवासिनि
साध्वि सुभ्रु सुकेशान्ते हिमवत्पर्वतात्मजे
दक्षे शमदमोपेते निर्ममे धर्मचारिणि
पृच्छामि त्वां वरारोहे पृष्टा वद ममेप्सितम्
सावित्री ब्रह्मणः साध्वी कौशिकस्य शची सती
मार्तण्डजस्य धूमोर्णा ऋद्धिर्वैश्रवणस्य च
वरुणस्य ततो गौरी सूर्यस्य च सुवर्चला
रोहिणी शशिनः साध्वी स्वाहा चैव विभावसोः
अदितिः कश्यपस्याथ सर्वास्ताः पतिदेवताः
पृष्टाश्चोपासिताश्चैव तास्त्वया देवि नित्यशः
तेन त्वां परिपृच्छामि धर्मज्ञे धर्मवादिनि
स्त्रीधर्मं श्रोतुमिच्छामि त्वयोदाहृतमादितः
सहधर्मचरी मे त्वं समशीला समव्रता
समानसारवीर्या च तपस्तीव्रं कृतं च ते
त्वया ह्युक्तो विशेषेण प्रमाणत्वमुपैष्यति
स्त्रियश्चैव विशेषेण स्त्रीजनस्य गतिः सदा
गौर्गां गच्छति सुश्रोणि लोकेष्वेषा स्थितिः सदा
मम चार्धं शरीरस्य मम चार्धाद्विनिःसृता
सुरकार्यकरी च त्वं लोकसंतानकारिणी
तव सर्वः सुविदितः स्त्रीधर्मः शाश्वतः शुभे
तस्मादशेषतो ब्रूहि स्त्रीधर्मं विस्तरेण मे
भगवन्सर्वभूतेश भूतभव्यभवोद्भव
त्वत्प्रभावादियं देव वाक्चैव प्रतिभाति मे
इमास्तु नद्यो देवेश सर्वतीर्थोदकैर्युताः
उपस्पर्शनहेतोस्त्वा समीपस्था उपासते
एताभिः सह संमन्त्र्य प्रवक्ष्याम्यनुपूर्वशः
प्रभवन्योऽनहंवादी स वै पुरुष उच्यते
स्त्री च भूतेश सततं स्त्रियमेवानुधावति
मया संमानिताश्चैव भविष्यन्ति सरिद्वराः
एषा सरस्वती पुण्या नदीनामुत्तमा नदी
प्रथमा सर्वसरितां नदी सागरगामिनी
विपाशा च वितस्ता च चन्द्रभागा इरावती
शतद्रुर्देविका सिन्धुः कौशिकी गोमती तथा
तथा देवनदी चेयं सर्वतीर्थाभिसंवृता
गगनाद्गां गता देवी गङ्गा सर्वसरिद्वरा
इत्युक्त्वा देवदेवस्य पत्नी धर्मभृतां वरा
स्मितपूर्वमिवाभाष्य सर्वास्ताः सरितस्तदा
अपृच्छद्देवमहिषी स्त्रीधर्मं धर्मवत्सला
स्त्रीधर्मकुशलास्ता वै गङ्गाद्याः सरितां वराः
अयं भगवता दत्तः प्रश्नः स्त्रीधर्मसंश्रितः
तं तु संमन्त्र्य युष्माभिर्वक्तुमिच्छामि शंकरे
न चैकसाध्यं पश्यामि विज्ञानं भुवि कस्यचित्
दिवि वा सागरगमास्तेन वो मानयाम्यहम्
एवं सर्वाः सरिच्छ्रेष्ठाः पृष्टाः पुण्यतमाः शिवाः
ततो देवनदी गङ्गा नियुक्ता प्रतिपूज्य ताम्
बह्वीभिर्बुद्धिभिः स्फीता स्त्रीधर्मज्ञा शुचिस्मिता
शैलराजसुतां देवीं पुण्या पापापहां शिवाम्
बुद्ध्या विनयसंपन्ना सर्वज्ञानविशारदा
सस्मितं बहुबुद्ध्याढ्या गङ्गा वचनमब्रवीत्
धन्याः स्मोऽनुगृहीताः स्मो देवि धर्मपरायणा
या त्वं सर्वजगन्मान्या नदीर्मानयसेऽनघे
प्रभवन्पृच्छते यो हि संमानयति वा पुनः
नूनं जनमदुष्टात्मा पण्डिताख्यां स गच्छति
ज्ञानविज्ञानसंपन्नानूहापोहविशारदान्
प्रवक्तॄन्पृच्छते योऽन्यान्स वै ना पदमर्च्छति
अन्यथा बहुबुद्ध्याढ्यो वाक्यं वदति संसदि
अन्यथैव ह्यहंमानी दुर्बलं वदते वचः
दिव्यज्ञाने दिवि श्रेष्ठे दिव्यपुण्ये सदोत्थिते
त्वमेवार्हसि नो देवि स्त्रीधर्ममनुशासितुम्
ततः साराधिता देवी गङ्गया बहुभिर्गुणैः
प्राह सर्वमशेषेण स्त्रीधर्मं सुरसुन्दरी