Anushasana Parva, Adhyaya 131, Verse 1
भगवन्भगनेत्रघ्न पूष्णो दशनपातन
दक्षक्रतुहर त्र्यक्ष संशयो मे महानयम्
Containing 58 sacred Sanskrit shlokas with multi-author commentaries and translations.
भगवन्भगनेत्रघ्न पूष्णो दशनपातन
दक्षक्रतुहर त्र्यक्ष संशयो मे महानयम्
चातुर्वर्ण्यं भगवता पूर्वं सृष्टं स्वयंभुवा
केन कर्मविपाकेन वैश्यो गच्छति शूद्रताम्
वैश्यो वा क्षत्रियः केन द्विजो वा क्षत्रियो भवेत्
प्रतिलोमः कथं देव शक्यो धर्मो निषेवितुम्
केन वा कर्मणा विप्रः शूद्रयोनौ प्रजायते
क्षत्रियः शूद्रतामेति केन वा कर्मणा विभो
एतं मे संशयं देव वद भूतपतेऽनघ
त्रयो वर्णाः प्रकृत्येह कथं ब्राह्मण्यमाप्नुयुः
ब्राह्मण्यं देवि दुष्प्रापं निसर्गाद्ब्राह्मणः शुभे
क्षत्रियो वैश्यशूद्रौ वा निसर्गादिति मे मतिः
कर्मणा दुष्कृतेनेह स्थानाद्भ्रश्यति वै द्विजः
ज्येष्ठं वर्णमनुप्राप्य तस्माद्रक्षेत वै द्विजः
स्थितो ब्राह्मणधर्मेण ब्राह्मण्यमुपजीवति
क्षत्रियो वाथ वैश्यो वा ब्रह्मभूयाय गच्छति
यस्तु विप्रत्वमुत्सृज्य क्षात्रं धर्मं निषेवते
ब्राह्मण्यात्स परिभ्रष्टः क्षत्रयोनौ प्रजायते
वैश्यकर्म च यो विप्रो लोभमोहव्यपाश्रयः
ब्राह्मण्यं दुर्लभं प्राप्य करोत्यल्पमतिः सदा
स द्विजो वैश्यतामेति वैश्यो वा शूद्रतामियात्
स्वधर्मात्प्रच्युतो विप्रस्ततः शूद्रत्वमाप्नुते
तत्रासौ निरयं प्राप्तो वर्णभ्रष्टो बहिष्कृतः
ब्रह्मलोकपरिभ्रष्टः शूद्रः समुपजायते
क्षत्रियो वा महाभागे वैश्यो वा धर्मचारिणि
स्वानि कर्माण्यपाहाय शूद्रकर्माणि सेवते
स्वस्थानात्स परिभ्रष्टो वर्णसंकरतां गतः
ब्राह्मणः क्षत्रियो वैश्यः शूद्रत्वं याति तादृशः
यस्तु शुद्धः स्वधर्मेण ज्ञानविज्ञानवाञ्शुचिः
धर्मज्ञो धर्मनिरतः स धर्मफलमश्नुते
इदं चैवापरं देवि ब्रह्मणा समुदीरितम्
अध्यात्मं नैष्ठिकं सद्भिर्धर्मकामैर्निषेव्यते
उग्रान्नं गर्हितं देवि गणान्नं श्राद्धसूतकम्
घुष्टान्नं नैव भोक्तव्यं शूद्रान्नं नैव कर्हिचित्
शूद्रान्नं गर्हितं देवि देवदेवैर्महात्मभिः
पितामहमुखोत्सृष्टं प्रमाणमिति मे मतिः
शूद्रान्नेनावशेषेण जठरे यो म्रियेत वै
आहिताग्निस्तथा यज्वा स शूद्रगतिभाग्भवेत्
तेन शूद्रान्नशेषेण ब्रह्मस्थानादपाकृतः
ब्राह्मणः शूद्रतामेति नास्ति तत्र विचारणा
यस्यान्नेनावशेषेण जठरे यो म्रियेत वै
तां तां योनिं व्रजेद्विप्रो यस्यान्नमुपजीवति
ब्राह्मणत्वं शुभं प्राप्य दुर्लभं योऽवमन्यते
अभोज्यान्नानि चाश्नाति स द्विजत्वात्पतेत वै
सुरापो ब्रह्महा क्षुद्रश्चौरो भग्नव्रतोऽशुचिः
स्वाध्यायवर्जितः पापो लुब्धो नैकृतिकः शठः
अव्रती वृषलीभर्ता कुण्डाशी सोमविक्रयी
निहीनसेवी विप्रो हि पतति ब्रह्मयोनितः
गुरुतल्पी गुरुद्वेषी गुरुकुत्सारतिश्च यः
ब्रह्मद्विट्चापि पतति ब्राह्मणो ब्रह्मयोनितः
एभिस्तु कर्मभिर्देवि शुभैराचरितैस्तथा
शूद्रो ब्राह्मणतां गच्छेद्वैश्यः क्षत्रियतां व्रजेत्
शूद्रकर्माणि सर्वाणि यथान्यायं यथाविधि
शुश्रूषां परिचर्यां च ज्येष्ठे वर्णे प्रयत्नतः
कुर्यादविमनाः शूद्रः सततं सत्पथे स्थितः
दैवतद्विजसत्कर्ता सर्वातिथ्यकृतव्रतः
ऋतुकालाभिगामी च नियतो नियताशनः
चौक्षश्चौक्षजनान्वेषी शेषान्नकृतभोजनः
वृथामांसान्यभुञ्जानः शूद्रो वैश्यत्वमृच्छति
ऋतवागनहंवादी निर्द्वंद्वः शमकोविदः
यजते नित्ययज्ञैश्च स्वाध्यायपरमः शुचिः