Anushasana Parva, Adhyaya 128, Verse 1
तिलोत्तमा नाम पुरा ब्रह्मणा योषिदुत्तमा
तिलं तिलं समुद्धृत्य रत्नानां निर्मिता शुभा
Containing 59 sacred Sanskrit shlokas with multi-author commentaries and translations.
तिलोत्तमा नाम पुरा ब्रह्मणा योषिदुत्तमा
तिलं तिलं समुद्धृत्य रत्नानां निर्मिता शुभा
साभ्यगच्छत मां देवि रूपेणाप्रतिमा भुवि
प्रदक्षिणं लोभयन्ती मां शुभे रुचिरानना
यतो यतः सा सुदती मामुपाधावदन्तिके
ततस्ततो मुखं चारु मम देवि विनिर्गतम्
तां दिदृक्षुरहं योगाच्चतुर्मूर्तित्वमागतः
चतुर्मुखश्च संवृत्तो दर्शयन्योगमात्मनः
पूर्वेण वदनेनाहमिन्द्रत्वमनुशास्मि ह
उत्तरेण त्वया सार्धं रमाम्यहमनिन्दिते
पश्चिमं मे मुखं सौम्यं सर्वप्राणिसुखावहम्
दक्षिणं भीमसंकाशं रौद्रं संहरति प्रजाः
जटिलो ब्रह्मचारी च लोकानां हितकाम्यया
देवकार्यार्थसिद्ध्यर्थं पिनाकं मे करे स्थितम्
इन्द्रेण च पुरा वज्रं क्षिप्तं श्रीकाङ्क्षिणा मम
दग्ध्वा कण्ठं तु तद्यातं तेन श्रीकण्ठता मम
वाहनेषु प्रभूतेषु श्रीमत्स्वन्येषु सत्सु ते
कथं गोवृषभो देव वाहनत्वमुपागतः
सुरभीं ससृजे ब्रह्मामृतधेनुं पयोमुचम्
सा सृष्टा बहुधा जाता क्षरमाणा पयोऽमृतम्
तस्या वत्समुखोत्सृष्टः फेनो मद्गात्रमागतः
ततो दग्धा मया गावो नानावर्णत्वमागताः
ततोऽहं लोकगुरुणा शमं नीतोऽर्थवेदिना
वृषं चेमं ध्वजार्थं मे ददौ वाहनमेव च
निवासा बहुरूपास्ते विश्वरूपगुणान्विताः
तांश्च संत्यज्य भगवञ्श्मशाने रमसे कथम्
केशास्थिकलिले भीमे कपालघटसंकुले
गृध्रगोमायुकलिले चिताग्निशतसंकुले
अशुचौ मांसकलिले वसाशोणितकर्दमे
विनिकीर्णामिषचये शिवानादविनादिते
मेध्यान्वेषी महीं कृत्स्नां विचरामि निशास्वहम्
न च मेध्यतरं किंचिच्छ्मशानादिह विद्यते
तेन मे सर्ववासानां श्मशाने रमते मनः
न्यग्रोधशाखासंछन्ने निर्भुक्तस्रग्विभूषिते
तत्र चैव रमन्ते मे भूतसंघाः शुभानने
न च भूतगणैर्देवि विनाहं वस्तुमुत्सहे
एष वासो हि मे मेध्यः स्वर्गीयश्च मतो हि मे
पुण्यः परमकश्चैव मेध्यकामैरुपास्यते
भगवन्सर्वभूतेश सर्वधर्मभृतां वर
पिनाकपाणे वरद संशयो मे महानयम्
अयं मुनिगणः सर्वस्तपस्तप इति प्रभो
तपोन्वेषकरो लोके भ्रमते विविधाकृतिः
अस्य चैवर्षिसंघस्य मम च प्रियकाम्यया
एतं ममेह संदेहं वक्तुमर्हस्यरिंदम
धर्मः किंलक्षणः प्रोक्तः कथं वाचरितुं नरैः
शक्यो धर्ममविन्दद्भिर्धर्मज्ञ वद मे प्रभो
ततो मुनिगणः सर्वस्तां देवीं प्रत्यपूजयत्
वाग्भिरृग्भूषितार्थाभिः स्तवैश्चार्थविदां वर
अहिंसा सत्यवचनं सर्वभूतानुकम्पनम्
शमो दानं यथाशक्ति गार्हस्थ्यो धर्म उत्तमः
परदारेष्वसंकल्पो न्यासस्त्रीपरिरक्षणम्
अदत्तादानविरमो मधुमांसस्य वर्जनम्
एष पञ्चविधो धर्मो बहुशाखः सुखोदयः
देहिभिर्धर्मपरमैः कर्तव्यो धर्मसंचयः
भगवन्संशयं पृष्टस्तं मे व्याख्यातुमर्हसि
चातुर्वर्ण्यस्य यो धर्मः स्वे स्वे वर्णे गुणावहः
ब्राह्मणे कीदृशो धर्मः क्षत्रिये कीदृशो भवेत्
वैश्ये किंलक्षणो धर्मः शूद्रे किंलक्षणो भवेत्
न्यायतस्ते महाभागे संशयः समुदीरितः
भूमिदेवा महाभागाः सदा लोके द्विजातयः