Anushasana Parva, Adhyaya 127, Verse 1
ततो नारायणसुहृन्नारदो भगवानृषिः
शंकरस्योमया सार्धं संवादं प्रत्यभाषत
Containing 51 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततो नारायणसुहृन्नारदो भगवानृषिः
शंकरस्योमया सार्धं संवादं प्रत्यभाषत
तपश्चचार धर्मात्मा वृषभाङ्कः सुरेश्वरः
पुण्ये गिरौ हिमवति सिद्धचारणसेविते
नानौषधियुते रम्ये नानापुष्पसमाकुले
अप्सरोगणसंकीर्णे भूतसंघनिषेविते
तत्र देवो मुदा युक्तो भूतसंघशतैर्वृतः
नानारूपैर्विरूपैश्च दिव्यैरद्भुतदर्शनैः
सिंहव्याघ्रगजप्रख्यैः सर्वजातिसमन्वितैः
क्रोष्टुकद्वीपिवदनैरृक्षर्षभमुखैस्तथा
उलूकवदनैर्भीमैः श्येनभासमुखैस्तथा
नानावर्णमृगप्रख्यैः सर्वजातिसमन्वयैः
किंनरैर्देवगन्धर्वैर्यक्षभूतगणैस्तथा
दिव्यपुष्पसमाकीर्णं दिव्यमालाविभूषितम्
दिव्यचन्दनसंयुक्तं दिव्यधूपेन धूपितम्
तत्सदो वृषभाङ्कस्य दिव्यवादित्रनादितम्
मृदङ्गपणवोद्घुष्टं शङ्खभेरीनिनादितम्
नृत्यद्भिर्भूतसंघैश्च बर्हिणैश्च समन्ततः
प्रनृत्ताप्सरसं दिव्यं दिव्यस्त्रीगणसेवितम्
दृष्टिकान्तमनिर्देश्यं दिव्यमद्भुतदर्शनम्
स गिरिस्तपसा तस्य भूतेशस्य व्यरोचत
स्वाध्यायपरमैर्विप्रैर्ब्रह्मघोषैर्विनादितः
षट्पदैरुपगीतैश्च माधवाप्रतिमो गिरिः
तं महोत्सवसंकाशं भीमरूपधरं पुनः
दृष्ट्वा मुनिगणस्यासीत्परा प्रीतिर्जनार्दन
मुनयश्च महाभागाः सिद्धाश्चैवोर्ध्वरेतसः
मरुतो वसवः साध्या विश्वेदेवाः सनातनाः
यक्षा नागाः पिशाचाश्च लोकपाला हुताशनाः
भावाश्च सर्वे न्यग्भूतास्तत्रैवासन्समागताः
ऋतवः सर्वपुष्पैश्च व्यकिरन्त महाद्भुतैः
ओषध्यो ज्वलमानाश्च द्योतयन्ति स्म तद्वनम्
विहगाश्च मुदा युक्ताः प्रानृत्यन्व्यनदंश्च ह
गिरिपृष्ठेषु रम्येषु व्याहरन्तो जनप्रियाः
तत्र देवो गिरितटे दिव्यधातुविभूषिते
पर्यङ्क इव विभ्राजन्नुपविष्टो महामनाः
व्याघ्रचर्माम्बरधरः सिंहचर्मोत्तरच्छदः
व्यालयज्ञोपवीती च लोहिताङ्गदभूषणः
हरिश्मश्रुर्जटी भीमो भयकर्ता सुरद्विषाम्
अभयः सर्वभूतानां भक्तानां वृषभध्वजः
दृष्ट्वा तमृषयः सर्वे शिरोभिरवनीं गताः
विमुक्ताः सर्वपापेभ्यः क्षान्ता विगतकल्मषाः
तस्य भूतपतेः स्थानं भीमरूपधरं बभौ
अप्रधृष्यतरं चैव महोरगसमाकुलम्
क्षणेनैवाभवत्सर्वमद्भुतं मधुसूदन
तत्सदो वृषभाङ्कस्य भीमरूपधरं बभौ
तमभ्ययाच्छैलसुता भूतस्त्रीगणसंवृता
हरतुल्याम्बरधरा समानव्रतचारिणी
बिभ्रती कलशं रौक्मं सर्वतीर्थजलोद्भवम्
गिरिस्रवाभिः पुण्याभिः सर्वतोऽनुगता शुभा
पुष्पवृष्ट्याभिवर्षन्ती गन्धैर्बहुविधैस्तथा
सेवन्ती हिमवत्पार्श्वं हरपार्श्वमुपागमत्
ततः स्मयन्ती पाणिभ्यां नर्मार्थं चारुदर्शना
हरनेत्रे शुभे देवी सहसा सा समावृणोत्
संवृताभ्यां तु नेत्राभ्यां तमोभूतमचेतनम्
निर्होमं निर्वषट्कारं तत्सदः सहसाभवत्
जनश्च विमनाः सर्वो भयत्राससमन्वितः
निमीलिते भूतपतौ नष्टसूर्य इवाभवत्
ततो वितिमिरो लोकः क्षणेन समपद्यत
ज्वाला च महती दीप्ता ललाटात्तस्य निःसृता
तृतीयं चास्य संभूतं नेत्रमादित्यसंनिभम्
युगान्तसदृशं दीप्तं येनासौ मथितो गिरिः