Anushasana Parva, Adhyaya 126, Verse 1
पितामह महाप्राज्ञ सर्वशास्त्रविशारद
आगमैर्बहुभिः स्फीतो भवान्नः प्रथितः कुले
Containing 50 sacred Sanskrit shlokas with multi-author commentaries and translations.
पितामह महाप्राज्ञ सर्वशास्त्रविशारद
आगमैर्बहुभिः स्फीतो भवान्नः प्रथितः कुले
त्वत्तो धर्मार्थसंयुक्तमायत्यां च सुखोदयम्
आश्चर्यभूतं लोकस्य श्रोतुमिच्छाम्यरिंदम
अयं च कालः संप्राप्तो दुर्लभज्ञातिबान्धवः
शास्ता च न हि नः कश्चित्त्वामृते भरतर्षभ
यदि तेऽहमनुग्राह्यो भ्रातृभिः सहितोऽनघ
वक्तुमर्हसि नः प्रश्नं यत्त्वां पृच्छामि पार्थिव
अयं नारायणः श्रीमान्सर्वपार्थिवसंमतः
भवन्तं बहुमानेन प्रश्रयेण च सेवते
अस्य चैव समक्षं त्वं पार्थिवानां च सर्वशः
भ्रातॄणां च प्रियार्थं मे स्नेहाद्भाषितुमर्हसि
तस्य तद्वचनं श्रुत्वा स्नेहादागतसंभ्रमः
भीष्मो भागीरथीपुत्र इदं वचनमब्रवीत्
हन्त ते कथयिष्यामि कथामतिमनोरमाम्
अस्य विष्णोः पुरा राजन्प्रभावोऽयं मया श्रुतः
यश्च गोवृषभाङ्कस्य प्रभावस्तं च मे शृणु
रुद्राण्याः संशयो यश्च दंपत्योस्तं च मे शृणु
व्रतं चचार धर्मात्मा कृष्णो द्वादशवार्षिकम्
दीक्षितं चागतौ द्रष्टुमुभौ नारदपर्वतौ
कृष्णद्वैपायनश्चैव धौम्यश्च जपतां वरः
देवलः काश्यपश्चैव हस्तिकाश्यप एव च
अपरे ऋषयः सन्तो दीक्षादमसमन्विताः
शिष्यैरनुगताः सर्वे देवकल्पैस्तपोधनैः
तेषामतिथिसत्कारमर्चनीयं कुलोचितम्
देवकीतनयः प्रीतो देवकल्पमकल्पयत्
हरितेषु सुवर्णेषु बर्हिष्केषु नवेषु च
उपोपविविशुः प्रीता विष्टरेषु महर्षयः
कथाश्चक्रुस्ततस्ते तु मधुरा धर्मसंहिताः
राजर्षीणां सुराणां च ये वसन्ति तपोधनाः
ततो नारायणं तेजो व्रतचर्येन्धनोत्थितम्
वक्त्रान्निःसृत्य कृष्णस्य वह्निरद्भुतकर्मणः
सोऽग्निर्ददाह तं शैलं सद्रुमं सलताक्षुपम्
सपक्षिमृगसंघातं सश्वापदसरीसृपम्
मृगैश्च विविधाकारैर्हाहाभूतमचेतनम्
शिखरं तस्य शैलस्य मथितं दीप्तदर्शनम्
स तु वह्निर्महाज्वालो दग्ध्वा सर्वमशेषतः
विष्णोः समीपमागम्य पादौ शिष्यवदस्पृशत्
ततो विष्णुर्वनं दृष्ट्वा निर्दग्धमरिकर्शनः
सौम्यैर्दृष्टिनिपातैस्तत्पुनः प्रकृतिमानयत्
तथैव स गिरिर्भूयः प्रपुष्पितलताद्रुमः
सपक्षिगणसंघुष्टः सश्वापदसरीसृपः
तदद्भुतमचिन्त्यं च दृष्ट्वा मुनिगणस्तदा
विस्मितो हृष्टलोमा च बभूवास्राविलेक्षणः
ततो नारायणो दृष्ट्वा तानृषीन्विस्मयान्वितान्
प्रश्रितं मधुरं स्निग्धं पप्रच्छ वदतां वरः
किमस्य ऋषिपूगस्य त्यक्तसङ्गस्य नित्यशः
निर्ममस्यागमवतो विस्मयः समुपागतः
एतं मे संशयं सर्वं याथातथ्यमनिन्दिताः
ऋषयो वक्तुमर्हन्ति निश्चितार्थं तपोधनाः
भवान्विसृजते लोकान्भवान्संहरते पुनः
भवाञ्शीतं भवानुष्णं भवानेव प्रवर्षति
पृथिव्यां यानि भूतानि स्थावराणि चराणि च
तेषां पिता त्वं माता च प्रभुः प्रभव एव च
एतन्नो विस्मयकरं प्रशंस मधुसूदन
त्वमेवार्हसि कल्याण वक्तुं वह्नेर्विनिर्गमम्
ततो विगतसंत्रासा वयमप्यरिकर्शन
यच्छ्रुतं यच्च दृष्टं नस्तत्प्रवक्ष्यामहे हरे
एतत्तद्वैष्णवं तेजो मम वक्त्राद्विनिःसृतम्
कृष्णवर्त्मा युगान्ताभो येनायं मथितो गिरिः