Mahabharata

Anushasana Parva, Adhyaya 125

Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 125, Verse 1

साम्ना वापि प्रदाने वा ज्यायः किं भवतो मतम्

प्रब्रूहि भरतश्रेष्ठ यदत्र व्यतिरिच्यते

Mahabharata

Anushasana Parva, Adhyaya 125, Verse 2

साम्ना प्रसाद्यते कश्चिद्दानेन च तथापरः

पुरुषः प्रकृतिं ज्ञात्वा तयोरेकतरं भजेत्

Mahabharata

Anushasana Parva, Adhyaya 125, Verse 3

गुणांस्तु शृणु मे राजन्सान्त्वस्य भरतर्षभ

दारुणान्यपि भूतानि सान्त्वेनाराधयेद्यथा

Mahabharata

Anushasana Parva, Adhyaya 125, Verse 4

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

गृहीत्वा रक्षसा मुक्तो द्विजातिः कानने यथा

Mahabharata

Anushasana Parva, Adhyaya 125, Verse 5

कश्चित्तु बुद्धिसंपन्नो ब्राह्मणो विजने वने

गृहीतः कृच्छ्रमापन्नो रक्षसा भक्षयिष्यता

Mahabharata

Anushasana Parva, Adhyaya 125, Verse 6

स बुद्धिश्रुतसंपन्नस्तं दृष्ट्वातीव भीषणम्

सामैवास्मिन्प्रयुयुजे न मुमोह न विव्यथे

Mahabharata

Anushasana Parva, Adhyaya 125, Verse 7

रक्षस्तु वाचा संपूज्य प्रश्नं पप्रच्छ तं द्विजम्

मोक्ष्यसे ब्रूहि मे प्रश्नं केनास्मि हरिणः कृशः

Mahabharata

Anushasana Parva, Adhyaya 125, Verse 8

मुहूर्तमथ संचिन्त्य ब्राह्मणस्तस्य रक्षसः

आभिर्गाथाभिरव्यग्रः प्रश्नं प्रतिजगाद ह

Mahabharata

Anushasana Parva, Adhyaya 125, Verse 9

विदेशस्थो विलोकस्थो विना नूनं सुहृज्जनैः

विषयानतुलान्भुङ्क्षे तेनासि हरिणः कृशः

Mahabharata

Anushasana Parva, Adhyaya 125, Verse 10

नूनं मित्राणि ते रक्षः साधूपचरितान्यपि

स्वदोषादपरज्यन्ते तेनासि हरिणः कृशः

Mahabharata

Anushasana Parva, Adhyaya 125, Verse 11

धनैश्वर्याधिकाः स्तब्धास्त्वद्गुणैः परमावराः

अवजानन्ति नूनं त्वां तेनासि हरिणः कृशः

Mahabharata

Anushasana Parva, Adhyaya 125, Verse 12

गुणवान्विगुणानन्यान्नूनं पश्यसि सत्कृतान्

प्राज्ञोऽप्राज्ञान्विनीतात्मा तेनासि हरिणः कृशः

Mahabharata

Anushasana Parva, Adhyaya 125, Verse 13

अवृत्त्या क्लिश्यमानोऽपि वृत्त्युपायान्विगर्हयन्

माहात्म्याद्व्यथसे नूनं तेनासि हरिणः कृशः

Mahabharata

Anushasana Parva, Adhyaya 125, Verse 14

संपीड्यात्मानमार्यत्वात्त्वया कश्चिदुपस्कृतः

जितं त्वां मन्यते साधो तेनासि हरिणः कृशः

Mahabharata

Anushasana Parva, Adhyaya 125, Verse 15

क्लिश्यमानान्विमार्गेषु कामक्रोधावृतात्मनः

मन्ये नु ध्यायसि जनांस्तेनासि हरिणः कृशः

Mahabharata

Anushasana Parva, Adhyaya 125, Verse 16

प्राज्ञैः संभावितो नूनं नप्राज्ञैरुपसंहितः

ह्रीमानमर्षी दुर्वृत्तैस्तेनासि हरिणः कृशः

Mahabharata

Anushasana Parva, Adhyaya 125, Verse 17

नूनं मित्रमुखः शत्रुः कश्चिदार्यवदाचरन्

वञ्चयित्वा गतस्त्वां वै तेनासि हरिणः कृशः

Mahabharata

Anushasana Parva, Adhyaya 125, Verse 18

प्रकाशार्थगतिर्नूनं रहस्यकुशलः कृती

तज्ज्ञैर्न पूज्यसे नूनं तेनासि हरिणः कृशः

Mahabharata

Anushasana Parva, Adhyaya 125, Verse 19

असत्स्वभिनिविष्टेषु ब्रुवतो मुक्तसंशयम्

गुणास्ते न विराजन्ते तेनासि हरिणः कृशः

Mahabharata

Anushasana Parva, Adhyaya 125, Verse 20

धनबुद्धिश्रुतैर्हीनः केवलं तेजसान्वितः

महत्प्रार्थयसे नूनं तेनासि हरिणः कृशः

Mahabharata

Anushasana Parva, Adhyaya 125, Verse 21

तपःप्रणिहितात्मानं मन्ये त्वारण्यकाङ्क्षिणम्

बन्धुवर्गो न गृह्णाति तेनासि हरिणः कृशः

Mahabharata

Anushasana Parva, Adhyaya 125, Verse 22

नूनमर्थवतां मध्ये तव वाक्यमनुत्तमम्

न भाति कालेऽभिहितं तेनासि हरिणः कृशः

Mahabharata

Anushasana Parva, Adhyaya 125, Verse 23

दृढपूर्वश्रुतं मूर्खं कुपितं हृदयप्रियम्

अनुनेतुं न शक्नोषि तेनासि हरिणः कृशः

Mahabharata

Anushasana Parva, Adhyaya 125, Verse 24

नूनमासंजयित्वा ते कृत्ये कस्मिंश्चिदीप्सिते

कश्चिदर्थयतेऽत्यर्थं तेनासि हरिणः कृशः

Mahabharata

Anushasana Parva, Adhyaya 125, Verse 25

नूनं त्वा स्वगुणापेक्षं पूजयानं सुहृद्ध्रुवम्

मयार्थ इति जानाति तेनासि हरिणः कृशः

Mahabharata

Anushasana Parva, Adhyaya 125, Verse 26

अन्तर्गतमभिप्रायं न नूनं लज्जयेच्छसि

विवक्तुं प्राप्तिशैथिल्यात्तेनासि हरिणः कृशः

Mahabharata

Anushasana Parva, Adhyaya 125, Verse 27

नानाबुद्धिरुचीँल्लोके मनुष्यान्नूनमिच्छसि

ग्रहीतुं स्वगुणैः सर्वांस्तेनासि हरिणः कृशः

Mahabharata

Anushasana Parva, Adhyaya 125, Verse 28

अविद्वान्भीरुरल्पार्थो विद्याविक्रमदानजम्

यशः प्रार्थयसे नूनं तेनासि हरिणः कृशः

Mahabharata

Anushasana Parva, Adhyaya 125, Verse 29

चिराभिलषितं किंचित्फलमप्राप्तमेव ते

कृतमन्यैरपहृतं तेनासि हरिणः कृशः

Mahabharata

Anushasana Parva, Adhyaya 125, Verse 30

नूनमात्मकृतं दोषमपश्यन्किंचिदात्मनि

अकारणेऽभिशस्तोऽसि तेनासि हरिणः कृशः