Anushasana Parva, Adhyaya 124, Verse 1
सत्स्त्रीणां समुदाचारं सर्वधर्मभृतां वर
श्रोतुमिच्छाम्यहं त्वत्तस्तं मे ब्रूहि पितामह
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
सत्स्त्रीणां समुदाचारं सर्वधर्मभृतां वर
श्रोतुमिच्छाम्यहं त्वत्तस्तं मे ब्रूहि पितामह
सर्वज्ञां सर्वधर्मज्ञां देवलोके मनस्विनीम्
कैकेयी सुमना नाम शाण्डिलीं पर्यपृच्छत
केन वृत्तेन कल्याणि समाचारेण केन वा
विधूय सर्वपापानि देवलोकं त्वमागता
हुताशनशिखेव त्वं ज्वलमाना स्वतेजसा
सुता ताराधिपस्येव प्रभया दिवमागता
अरजांसि च वस्त्राणि धारयन्ती गतक्लमा
विमानस्था शुभे भासि सहस्रगुणमोजसा
न त्वमल्पेन तपसा दानेन नियमेन वा
इमं लोकमनुप्राप्ता तस्मात्तत्त्वं वदस्व मे
इति पृष्टा सुमनया मधुरं चारुहासिनी
शाण्डिली निभृतं वाक्यं सुमनामिदमब्रवीत्
नाहं काषायवसना नापि वल्कलधारिणी
न च मुण्डा न जटिला भूत्वा देवत्वमागता
अहितानि च वाक्यानि सर्वाणि परुषाणि च
अप्रमत्ता च भर्तारं कदाचिन्नाहमब्रुवम्
देवतानां पितॄणां च ब्राह्मणानां च पूजने
अप्रमत्ता सदायुक्ता श्वश्रूश्वशुरवर्तिनी
पैशुन्ये न प्रवर्तामि न ममैतन्मनोगतम्
अद्वारे न च तिष्ठामि चिरं न कथयामि च
असद्वा हसितं किंचिदहितं वापि कर्मणा
रहस्यमरहस्यं वा न प्रवर्तामि सर्वथा
कार्यार्थे निर्गतं चापि भर्तारं गृहमागतम्
आसनेनोपसंयोज्य पूजयामि समाहिता
यद्यच्च नाभिजानाति यद्भोज्यं नाभिनन्दति
भक्ष्यं वाप्यथ वा लेह्यं तत्सर्वं वर्जयाम्यहम्
कुटुम्बार्थे समानीतं यत्किंचित्कार्यमेव तु
प्रातरुत्थाय तत्सर्वं कारयामि करोमि च
प्रवासं यदि मे भर्ता याति कार्येण केनचित्
मङ्गलैर्बहुभिर्युक्ता भवामि नियता सदा
अञ्जनं रोचनां चैव स्नानं माल्यानुलेपनम्
प्रसाधनं च निष्क्रान्ते नाभिनन्दामि भर्तरि
नोत्थापयामि भर्तारं सुखसुप्तमहं सदा
आतुरेष्वपि कार्येषु तेन तुष्यति मे मनः
नायासयामि भर्तारं कुटुम्बार्थे च सर्वदा
गुप्तगुह्या सदा चास्मि सुसंमृष्टनिवेशना
इमं धर्मपथं नारी पालयन्ती समाहिता
अरुन्धतीव नारीणां स्वर्गलोके महीयते
एतदाख्याय सा देवी सुमनायै तपस्विनी
पतिधर्मं महाभागा जगामादर्शनं तदा
यश्चेदं पाण्डवाख्यानं पठेत्पर्वणि पर्वणि
स देवलोकं संप्राप्य नन्दने सुसुखं वसेत्