Mahabharata

Anushasana Parva, Adhyaya 123

Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 123, Verse 1

एवमुक्तः स भगवान्मैत्रेयं प्रत्यभाषत

दिष्ट्यैवं त्वं विजानासि दिष्ट्या ते बुद्धिरीदृशी

लोको ह्ययं गुणानेव भूयिष्ठं स्म प्रशंसति

Mahabharata

Anushasana Parva, Adhyaya 123, Verse 2

रूपमानवयोमानश्रीमानाश्चाप्यसंशयम्

दिष्ट्या नाभिभवन्ति त्वां दैवस्तेऽयमनुग्रहः

यत्ते भृशतरं दानाद्वर्तयिष्यामि तच्छृणु

Mahabharata

Anushasana Parva, Adhyaya 123, Verse 3

यानीहागमशास्त्राणि याश्च काश्चित्प्रवृत्तयः

तानि वेदं पुरस्कृत्य प्रवृत्तानि यथाक्रमम्

Mahabharata

Anushasana Parva, Adhyaya 123, Verse 4

अहं दानं प्रशंसामि भवानपि तपःश्रुते

तपः पवित्रं वेदस्य तपः स्वर्गस्य साधनम्

Mahabharata

Anushasana Parva, Adhyaya 123, Verse 5

तपसा महदाप्नोति विद्यया चेति नः श्रुतम्

तपसैव चापनुदेद्यच्चान्यदपि दुष्कृतम्

Mahabharata

Anushasana Parva, Adhyaya 123, Verse 6

यद्यद्धि किंचित्संधाय पुरुषस्तप्यते तपः

सर्वमेतदवाप्नोति ब्राह्मणो वेदपारगः

Mahabharata

Anushasana Parva, Adhyaya 123, Verse 7

दुरन्वयं दुष्प्रधृष्यं दुरापं दुरतिक्रमम्

सर्वं वै तपसाभ्येति तपो हि बलवत्तरम्

Mahabharata

Anushasana Parva, Adhyaya 123, Verse 8

सुरापोऽसंमतादायी भ्रूणहा गुरुतल्पगः

तपसा तरते सर्वमेनसश्च प्रमुच्यते

Mahabharata

Anushasana Parva, Adhyaya 123, Verse 9

सर्वविद्यस्तु चक्षुष्मानपि यादृशतादृशः

तपस्विनौ च तावाहुस्ताभ्यां कार्यं सदा नमः

Mahabharata

Anushasana Parva, Adhyaya 123, Verse 10

सर्वे पूज्याः श्रुतधनास्तथैव च तपस्विनः

दानप्रदाः सुखं प्रेत्य प्राप्नुवन्तीह च श्रियम्

Mahabharata

Anushasana Parva, Adhyaya 123, Verse 11

इमं च ब्रह्मलोकं च लोकं च बलवत्तरम्

अन्नदानैः सुकृतिनः प्रतिपद्यन्ति लौकिकाः

Mahabharata

Anushasana Parva, Adhyaya 123, Verse 12

पूजिताः पूजयन्त्येतान्मानिता मानयन्ति च

अदाता यत्र यत्रैति सर्वतः संप्रणुद्यते

Mahabharata

Anushasana Parva, Adhyaya 123, Verse 13

अकर्ता चैव कर्ता च लभते यस्य यादृशम्

यद्येवोर्ध्वं यद्यवाक्च त्वं लोकमभियास्यसि

Mahabharata

Anushasana Parva, Adhyaya 123, Verse 14

प्राप्स्यसे त्वन्नपानानि यानि दास्यसि कानिचित्

मेधाव्यसि कुले जातः श्रुतवाननृशंसवान्

Mahabharata

Anushasana Parva, Adhyaya 123, Verse 15

कौमारदारव्रतवान्मैत्रेय निरतो भव

एतद्गृहाण प्रथमं प्रशस्तं गृहमेधिनाम्

Mahabharata

Anushasana Parva, Adhyaya 123, Verse 16

यो भर्ता वासितातुष्टो भर्तुस्तुष्टा च वासिता

यस्मिन्नेवं कुले सर्वं कल्याणं तत्र वर्तते

Mahabharata

Anushasana Parva, Adhyaya 123, Verse 17

अद्भिर्गात्रान्मलमिव तमोऽग्निप्रभया यथा

दानेन तपसा चैव सर्वपापमपोह्यते

Mahabharata

Anushasana Parva, Adhyaya 123, Verse 18

स्वस्ति प्राप्नुहि मैत्रेय गृहान्साधु व्रजाम्यहम्

एतन्मनसि कर्तव्यं श्रेय एवं भविष्यति

Mahabharata

Anushasana Parva, Adhyaya 123, Verse 19

तं प्रणम्याथ मैत्रेयः कृत्वा चाभिप्रदक्षिणम्

स्वस्ति प्राप्नोतु भगवानित्युवाच कृताञ्जलिः