Mahabharata

Anushasana Parva, Adhyaya 122

Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 122, Verse 1

एवमुक्तः प्रत्युवाच मैत्रेयः कर्मपूजकः

अत्यन्तं श्रीमति कुले जातः प्राज्ञो बहुश्रुतः

Mahabharata

Anushasana Parva, Adhyaya 122, Verse 2

असंशयं महाप्राज्ञ यथैवात्थ तथैव तत्

अनुज्ञातस्तु भवता किंचिद्ब्रूयामहं विभो

Mahabharata

Anushasana Parva, Adhyaya 122, Verse 3

यद्यदिच्छसि मैत्रेय यावद्यावद्यथा तथा

ब्रूहि तावन्महाप्राज्ञ शुश्रूषे वचनं तव

Mahabharata

Anushasana Parva, Adhyaya 122, Verse 4

निर्दोषं निर्मलं चैव वचनं दानसंहितम्

विद्यातपोभ्यां हि भवान्भावितात्मा न संशयः

Mahabharata

Anushasana Parva, Adhyaya 122, Verse 5

भवतो भावितात्मत्वाद्दायोऽयं सुमहान्मम

भूयो बुद्ध्यानुपश्यामि सुसमृद्धतपा इव

Mahabharata

Anushasana Parva, Adhyaya 122, Verse 6

अपि मे दर्शनादेव भवतोऽभ्युदयो महान्

मन्ये भवत्प्रसादोऽयं तद्धि कर्म स्वभावतः

Mahabharata

Anushasana Parva, Adhyaya 122, Verse 7

तपः श्रुतं च योनिश्चाप्येतद्ब्राह्मण्यकारणम्

त्रिभिर्गुणैः समुदितस्ततो भवति वै द्विजः

Mahabharata

Anushasana Parva, Adhyaya 122, Verse 8

तस्मिंस्तृप्ते च तृप्यन्ते पितरो दैवतानि च

न हि श्रुतवतां किंचिदधिकं ब्राह्मणादृते

Mahabharata

Anushasana Parva, Adhyaya 122, Verse 9

यथा हि सुकृते क्षेत्रे फलं विन्दति मानवः

एवं दत्त्वा श्रुतवति फलं दाता समश्नुते

Mahabharata

Anushasana Parva, Adhyaya 122, Verse 10

ब्राह्मणश्चेन्न विद्येत श्रुतवृत्तोपसंहितः

प्रतिग्रहीता दानस्य मोघं स्याद्धनिनां धनम्

Mahabharata

Anushasana Parva, Adhyaya 122, Verse 11

अदन्ह्यविद्वान्हन्त्यन्नमद्यमानं च हन्ति तम्

तं च हन्यति यस्यान्नं स हत्वा हन्यतेऽबुधः

Mahabharata

Anushasana Parva, Adhyaya 122, Verse 12

प्रभुर्ह्यन्नमदन्विद्वान्पुनर्जनयतीश्वरः

स चान्नाज्जायते तस्मात्सूक्ष्म एव व्यतिक्रमः

Mahabharata

Anushasana Parva, Adhyaya 122, Verse 13

यदेव ददतः पुण्यं तदेव प्रतिगृह्णतः

न ह्येकचक्रं वर्तेत इत्येवमृषयो विदुः

Mahabharata

Anushasana Parva, Adhyaya 122, Verse 14

यत्र वै ब्राह्मणाः सन्ति श्रुतवृत्तोपसंहिताः

तत्र दानफलं पुण्यमिह चामुत्र चाश्नुते

Mahabharata

Anushasana Parva, Adhyaya 122, Verse 15

ये योनिशुद्धाः सततं तपस्यभिरता भृशम्

दानाध्ययनसंपन्नास्ते वै पूज्यतमाः सदा

Mahabharata

Anushasana Parva, Adhyaya 122, Verse 16

तैर्हि सद्भिः कृतः पन्थाश्चेतयानो न मुह्यते

ते हि स्वर्गस्य नेतारो यज्ञवाहाः सनातनाः