Anushasana Parva, Adhyaya 122, Verse 1
एवमुक्तः प्रत्युवाच मैत्रेयः कर्मपूजकः
अत्यन्तं श्रीमति कुले जातः प्राज्ञो बहुश्रुतः
Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमुक्तः प्रत्युवाच मैत्रेयः कर्मपूजकः
अत्यन्तं श्रीमति कुले जातः प्राज्ञो बहुश्रुतः
असंशयं महाप्राज्ञ यथैवात्थ तथैव तत्
अनुज्ञातस्तु भवता किंचिद्ब्रूयामहं विभो
यद्यदिच्छसि मैत्रेय यावद्यावद्यथा तथा
ब्रूहि तावन्महाप्राज्ञ शुश्रूषे वचनं तव
निर्दोषं निर्मलं चैव वचनं दानसंहितम्
विद्यातपोभ्यां हि भवान्भावितात्मा न संशयः
भवतो भावितात्मत्वाद्दायोऽयं सुमहान्मम
भूयो बुद्ध्यानुपश्यामि सुसमृद्धतपा इव
अपि मे दर्शनादेव भवतोऽभ्युदयो महान्
मन्ये भवत्प्रसादोऽयं तद्धि कर्म स्वभावतः
तपः श्रुतं च योनिश्चाप्येतद्ब्राह्मण्यकारणम्
त्रिभिर्गुणैः समुदितस्ततो भवति वै द्विजः
तस्मिंस्तृप्ते च तृप्यन्ते पितरो दैवतानि च
न हि श्रुतवतां किंचिदधिकं ब्राह्मणादृते
यथा हि सुकृते क्षेत्रे फलं विन्दति मानवः
एवं दत्त्वा श्रुतवति फलं दाता समश्नुते
ब्राह्मणश्चेन्न विद्येत श्रुतवृत्तोपसंहितः
प्रतिग्रहीता दानस्य मोघं स्याद्धनिनां धनम्
अदन्ह्यविद्वान्हन्त्यन्नमद्यमानं च हन्ति तम्
तं च हन्यति यस्यान्नं स हत्वा हन्यतेऽबुधः
प्रभुर्ह्यन्नमदन्विद्वान्पुनर्जनयतीश्वरः
स चान्नाज्जायते तस्मात्सूक्ष्म एव व्यतिक्रमः
यदेव ददतः पुण्यं तदेव प्रतिगृह्णतः
न ह्येकचक्रं वर्तेत इत्येवमृषयो विदुः
यत्र वै ब्राह्मणाः सन्ति श्रुतवृत्तोपसंहिताः
तत्र दानफलं पुण्यमिह चामुत्र चाश्नुते
ये योनिशुद्धाः सततं तपस्यभिरता भृशम्
दानाध्ययनसंपन्नास्ते वै पूज्यतमाः सदा
तैर्हि सद्भिः कृतः पन्थाश्चेतयानो न मुह्यते
ते हि स्वर्गस्य नेतारो यज्ञवाहाः सनातनाः