Mahabharata

Anushasana Parva, Adhyaya 121

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 121, Verse 1

विद्या तपश्च दानं च किमेतेषां विशिष्यते

पृच्छामि त्वा सतां श्रेष्ठ तन्मे ब्रूहि पितामह

Mahabharata

Anushasana Parva, Adhyaya 121, Verse 2

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

मैत्रेयस्य च संवादं कृष्णद्वैपायनस्य च

Mahabharata

Anushasana Parva, Adhyaya 121, Verse 3

कृष्णद्वैपायनो राजन्नज्ञातचरितं चरन्

वाराणस्यामुपातिष्ठन्मैत्रेयं स्वैरिणीकुले

Mahabharata

Anushasana Parva, Adhyaya 121, Verse 4

तमुपस्थितमासीनं ज्ञात्वा स मुनिसत्तमम्

अर्चित्वा भोजयामास मैत्रेयोऽशनमुत्तमम्

Mahabharata

Anushasana Parva, Adhyaya 121, Verse 5

तदन्नमुत्तमं भुक्त्वा गुणवत्सार्वकामिकम्

प्रतिष्ठमानोऽस्मयत प्रीतः कृष्णो महामनाः

Mahabharata

Anushasana Parva, Adhyaya 121, Verse 6

तमुत्स्मयन्तं संप्रेक्ष्य मैत्रेयः कृष्णमब्रवीत्

कारणं ब्रूहि धर्मात्मन्योऽस्मयिष्ठाः कुतश्च ते

तपस्विनो धृतिमतः प्रमोदः समुपागतः

Mahabharata

Anushasana Parva, Adhyaya 121, Verse 7

एतत्पृच्छामि ते विद्वन्नभिवाद्य प्रणम्य च

आत्मनश्च तपोभाग्यं महाभाग्यं तथैव च

Mahabharata

Anushasana Parva, Adhyaya 121, Verse 8

पृथगाचरतस्तात पृथगात्मनि चात्मनोः

अल्पान्तरमहं मन्ये विशिष्टमपि वा त्वया

Mahabharata

Anushasana Parva, Adhyaya 121, Verse 9

अतिच्छेदातिवादाभ्यां स्मयोऽयं समुपागतः

असत्यं वेदवचनं कस्माद्वेदोऽनृतं वदेत्

Mahabharata

Anushasana Parva, Adhyaya 121, Verse 10

त्रीण्येव तु पदान्याहुः पुरुषस्योत्तमं व्रतम्

न द्रुह्येच्चैव दद्याच्च सत्यं चैव परं वदेत्

इदानीं चैव नः कृत्यं पुरस्ताच्च परं स्मृतम्

Mahabharata

Anushasana Parva, Adhyaya 121, Verse 11

अल्पोऽपि तादृशो दायो भवत्युत महाफलः

तृषिताय च यद्दत्तं हृदयेनानसूयता

Mahabharata

Anushasana Parva, Adhyaya 121, Verse 12

तृषितस्तृषिताय त्वं दत्त्वैतदशनं मम

अजैषीर्महतो लोकान्महायज्ञैरिवाभिभो

अतो दानपवित्रेण प्रीतोऽस्मि तपसैव च

Mahabharata

Anushasana Parva, Adhyaya 121, Verse 13

पुण्यस्यैव हि ते गन्धः पुण्यस्यैव च दर्शनम्

पुण्यश्च वाति गन्धस्ते मन्ये कर्मविधानतः

Mahabharata

Anushasana Parva, Adhyaya 121, Verse 14

अधिकं मार्जनात्तात तथैवाप्यनुलेपनात्

शुभं सर्वपवित्रेभ्यो दानमेव परं भवेत्

Mahabharata

Anushasana Parva, Adhyaya 121, Verse 15

यानीमान्युत्तमानीह वेदोक्तानि प्रशंससि

तेषां श्रेष्ठतमं दानमिति मे नास्ति संशयः

Mahabharata

Anushasana Parva, Adhyaya 121, Verse 16

दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः

ते हि प्राणस्य दातारस्तेषु धर्मः प्रतिष्ठितः

Mahabharata

Anushasana Parva, Adhyaya 121, Verse 17

यथा वेदाः स्वधीताश्च यथा चेन्द्रियसंयमः

सर्वत्यागो यथा चेह तथा दानमनुत्तमम्

Mahabharata

Anushasana Parva, Adhyaya 121, Verse 18

त्वं हि तात सुखादेव सुखमेष्यसि शोभनम्

सुखात्सुखतरप्राप्तिमाप्नुते मतिमान्नरः

Mahabharata

Anushasana Parva, Adhyaya 121, Verse 19

तन्नः प्रत्यक्षमेवेदमुपलब्धमसंशयम्

श्रीमन्तमाप्नुवन्त्यर्था दानं यज्ञस्तथा सुखम्

Mahabharata

Anushasana Parva, Adhyaya 121, Verse 20

सुखादेव परं दुःखं दुःखादन्यत्परं सुखम्

दृश्यते हि महाप्राज्ञ नियतं वै स्वभावतः

Mahabharata

Anushasana Parva, Adhyaya 121, Verse 21

त्रिविधानीह वृत्तानि नरस्याहुर्मनीषिणः

पुण्यमन्यत्पापमन्यन्न पुण्यं न च पापकम्

Mahabharata

Anushasana Parva, Adhyaya 121, Verse 22

न वृत्तं मन्यतेऽन्यस्य मन्यतेऽन्यस्य पापकम्

तथा स्वकर्मनिर्वृत्तं न पुण्यं न च पापकम्

Mahabharata

Anushasana Parva, Adhyaya 121, Verse 23

रमस्वैधस्व मोदस्व देहि चैव यजस्व च

न त्वामभिभविष्यन्ति वैद्या न च तपस्विनः