Mahabharata

Anushasana Parva, Adhyaya 120

Containing 14 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 120, Verse 1

क्षत्रधर्ममनुप्राप्तः स्मरन्नेव स वीर्यवान्

त्यक्त्वा स कीटतां राजंश्चचार विपुलं तपः

Mahabharata

Anushasana Parva, Adhyaya 120, Verse 2

तस्य धर्मार्थविदुषो दृष्ट्वा तद्विपुलं तपः

आजगाम द्विजश्रेष्ठः कृष्णद्वैपायनस्तदा

Mahabharata

Anushasana Parva, Adhyaya 120, Verse 3

क्षात्रं चैव व्रतं कीट भूतानां परिपालनम्

क्षात्रं चैव व्रतं ध्यायंस्ततो विप्रत्वमेष्यसि

Mahabharata

Anushasana Parva, Adhyaya 120, Verse 4

पाहि सर्वाः प्रजाः सम्यक्शुभाशुभविदात्मवान्

शुभैः संविभजन्कामैरशुभानां च पावनैः

Mahabharata

Anushasana Parva, Adhyaya 120, Verse 5

आत्मवान्भव सुप्रीतः स्वधर्मचरणे रतः

क्षात्रीं तनुं समुत्सृज्य ततो विप्रत्वमेष्यसि

Mahabharata

Anushasana Parva, Adhyaya 120, Verse 6

सोऽथारण्यमभिप्रेत्य पुनरेव युधिष्ठिर

महर्षेर्वचनं श्रुत्वा प्रजा धर्मेण पाल्य च

Mahabharata

Anushasana Parva, Adhyaya 120, Verse 7

अचिरेणैव कालेन कीटः पार्थिवसत्तम

प्रजापालनधर्मेण प्रेत्य विप्रत्वमागतः

Mahabharata

Anushasana Parva, Adhyaya 120, Verse 8

ततस्तं ब्राह्मणं दृष्ट्वा पुनरेव महायशाः

आजगाम महाप्राज्ञः कृष्णद्वैपायनस्तदा

Mahabharata

Anushasana Parva, Adhyaya 120, Verse 9

भो भो विप्रर्षभ श्रीमन्मा व्यथिष्ठाः कथंचन

शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु

उपपद्यति धर्मज्ञ यथाधर्मं यथागमम्

Mahabharata

Anushasana Parva, Adhyaya 120, Verse 10

तस्मान्मृत्युभयात्कीट मा व्यथिष्ठाः कथंचन

धर्मलोपाद्भयं ते स्यात्तस्माद्धर्मं चरोत्तमम्

Mahabharata

Anushasana Parva, Adhyaya 120, Verse 11

सुखात्सुखतरं प्राप्तो भगवंस्त्वत्कृते ह्यहम्

धर्ममूलां श्रियं प्राप्य पाप्मा नष्ट इहाद्य मे

Mahabharata

Anushasana Parva, Adhyaya 120, Verse 12

भगवद्वचनात्कीटो ब्राह्मण्यं प्राप्य दुर्लभम्

अकरोत्पृथिवीं राजन्यज्ञयूपशताङ्किताम्

ततः सालोक्यमगमद्ब्रह्मणो ब्रह्मवित्तमः

Mahabharata

Anushasana Parva, Adhyaya 120, Verse 13

अवाप च परं कीटः पार्थ ब्रह्म सनातनम्

स्वकर्मफलनिर्वृत्तं व्यासस्य वचनात्तदा

Mahabharata

Anushasana Parva, Adhyaya 120, Verse 14

तेऽपि यस्मात्स्वभावेन हताः क्षत्रियपुंगवाः

संप्राप्तास्ते गतिं पुण्यां तस्मान्मा शोच पुत्रक