Mahabharata

Anushasana Parva, Adhyaya 118

Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 118, Verse 1

अकामाश्च सकामाश्च हता येऽस्मिन्महाहवे

कां योनिं प्रतिपन्नास्ते तन्मे ब्रूहि पितामह

Mahabharata

Anushasana Parva, Adhyaya 118, Verse 2

दुःखं प्राणपरित्यागः पुरुषाणां महामृधे

जानामि तत्त्वं धर्मज्ञ प्राणत्यागं सुदुष्करम्

Mahabharata

Anushasana Parva, Adhyaya 118, Verse 3

समृद्धे वासमृद्धे वा शुभे वा यदि वाशुभे

कारणं तत्र मे ब्रूहि सर्वज्ञो ह्यसि मे मतः

Mahabharata

Anushasana Parva, Adhyaya 118, Verse 4

समृद्धे वासमृद्धे वा शुभे वा यदि वाशुभे

संसारेऽस्मिन्समाजाताः प्राणिनः पृथिवीपते

Mahabharata

Anushasana Parva, Adhyaya 118, Verse 5

निरता येन भावेन तत्र मे शृणु कारणम्

सम्यक्चायमनुप्रश्नस्त्वयोक्तश्च युधिष्ठिर

Mahabharata

Anushasana Parva, Adhyaya 118, Verse 6

अत्र ते वर्तयिष्यामि पुरावृत्तमिदं नृप

द्वैपायनस्य संवादं कीटस्य च युधिष्ठिर

Mahabharata

Anushasana Parva, Adhyaya 118, Verse 7

ब्रह्मभूतश्चरन्विप्रः कृष्णद्वैपायनः पुरा

ददर्श कीटं धावन्तं शीघ्रं शकटवर्त्मनि

Mahabharata

Anushasana Parva, Adhyaya 118, Verse 8

गतिज्ञः सर्वभूतानां रुतज्ञश्च शरीरिणाम्

सर्वज्ञः सर्वतो दृष्ट्वा कीटं वचनमब्रवीत्

Mahabharata

Anushasana Parva, Adhyaya 118, Verse 9

कीट संत्रस्तरूपोऽसि त्वरितश्चैव लक्ष्यसे

क्व धावसि तदाचक्ष्व कुतस्ते भयमागतम्

Mahabharata

Anushasana Parva, Adhyaya 118, Verse 10

शकटस्यास्य महतो घोषं श्रुत्वा भयं मम

आगतं वै महाबुद्धे स्वन एष हि दारुणः

श्रूयते न स मां हन्यादिति तस्मादपाक्रमे

Mahabharata

Anushasana Parva, Adhyaya 118, Verse 11

श्वसतां च शृणोम्येवं गोपुत्राणां प्रचोद्यताम्

वहतां सुमहाभारं संनिकर्षे स्वनं प्रभो

नृणां च संवाहयतां श्रूयते विविधः स्वनः

Mahabharata

Anushasana Parva, Adhyaya 118, Verse 12

सोढुमस्मद्विधेनैष न शक्यः कीटयोनिना

तस्मादपक्रमाम्येष भयादस्मात्सुदारुणात्

Mahabharata

Anushasana Parva, Adhyaya 118, Verse 13

दुःखं हि मृत्युर्भूतानां जीवितं च सुदुर्लभम्

अतो भीतः पलायामि गच्छेयं नासुखं सुखात्

Mahabharata

Anushasana Parva, Adhyaya 118, Verse 14

इत्युक्तः स तु तं प्राह कुतः कीट सुखं तव

मरणं ते सुखं मन्ये तिर्यग्योनौ हि वर्तसे

Mahabharata

Anushasana Parva, Adhyaya 118, Verse 15

शब्दं स्पर्शं रसं गन्धं भोगांश्चोच्चावचान्बहून्

नाभिजानासि कीट त्वं श्रेयो मरणमेव ते

Mahabharata

Anushasana Parva, Adhyaya 118, Verse 16

सर्वत्र निरतो जीव इतीहापि सुखं मम

चेतयामि महाप्राज्ञ तस्मादिच्छामि जीवितुम्

Mahabharata

Anushasana Parva, Adhyaya 118, Verse 17

इहापि विषयः सर्वो यथादेहं प्रवर्तितः

मानुषास्तिर्यगाश्चैव पृथग्भोगा विशेषतः

Mahabharata

Anushasana Parva, Adhyaya 118, Verse 18

अहमासं मनुष्यो वै शूद्रो बहुधनः पुरा

अब्रह्मण्यो नृशंसश्च कदर्यो वृद्धिजीवनः

Mahabharata

Anushasana Parva, Adhyaya 118, Verse 19

वाक्तीक्ष्णो निकृतिप्रज्ञो मोष्टा विश्वस्य सर्वशः

मिथःकृतोऽपनिधनः परस्वहरणे रतः

Mahabharata

Anushasana Parva, Adhyaya 118, Verse 20

भृत्यातिथिजनश्चापि गृहे पर्युषितो मया

मात्सर्यात्स्वादुकामेन नृशंसेन बुभूषता

Mahabharata

Anushasana Parva, Adhyaya 118, Verse 21

देवार्थं पितृयज्ञार्थमन्नं श्रद्धाकृतं मया

न दत्तमर्थकामेन देयमन्नं पुनाति ह

Mahabharata

Anushasana Parva, Adhyaya 118, Verse 22

गुप्तं शरणमाश्रित्य भयेषु शरणागताः

अकस्मान्नो भयात्त्यक्ता न च त्राताभयैषिणः

Mahabharata

Anushasana Parva, Adhyaya 118, Verse 23

धनं धान्यं प्रियान्दारान्यानं वासस्तथाद्भुतम्

श्रियं दृष्ट्वा मनुष्याणामसूयामि निरर्थकम्

Mahabharata

Anushasana Parva, Adhyaya 118, Verse 24

ईर्ष्युः परसुखं दृष्ट्वा आतताय्यबुभूषकः

त्रिवर्गहन्ता चान्येषामात्मकामानुवर्तकः

Mahabharata

Anushasana Parva, Adhyaya 118, Verse 25

नृशंसगुणभूयिष्ठं पुरा कर्म कृतं मया

स्मृत्वा तदनुतप्येऽहं त्यक्त्वा प्रियमिवात्मजम्

Mahabharata

Anushasana Parva, Adhyaya 118, Verse 26

शुभानामपि जानामि कृतानां कर्मणां फलम्

माता च पूजिता वृद्धा ब्राह्मणश्चार्चितो मया

Mahabharata

Anushasana Parva, Adhyaya 118, Verse 27

सकृज्जातिगुणोपेतः संगत्या गृहमागतः

अतिथिः पूजितो ब्रह्मंस्तेन मां नाजहात्स्मृतिः

Mahabharata

Anushasana Parva, Adhyaya 118, Verse 28

कर्मणा तेन चैवाहं सुखाशामिह लक्षये

तच्छ्रोतुमहमिच्छामि त्वत्तः श्रेयस्तपोधन