Mahabharata

Anushasana Parva, Adhyaya 116

Containing 76 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 116, Verse 1

अहिंसा परमो धर्म इत्युक्तं बहुशस्त्वया

श्राद्धेषु च भवानाह पितॄनामिषकाङ्क्षिणः

Mahabharata

Anushasana Parva, Adhyaya 116, Verse 2

मांसैर्बहुविधैः प्रोक्तस्त्वया श्राद्धविधिः पुरा

अहत्वा च कुतो मांसमेवमेतद्विरुध्यते

Mahabharata

Anushasana Parva, Adhyaya 116, Verse 3

जातो नः संशयो धर्मे मांसस्य परिवर्जने

दोषो भक्षयतः कः स्यात्कश्चाभक्षयतो गुणः

Mahabharata

Anushasana Parva, Adhyaya 116, Verse 4

हत्वा भक्षयतो वापि परेणोपहृतस्य वा

हन्याद्वा यः परस्यार्थे क्रीत्वा वा भक्षयेन्नरः

Mahabharata

Anushasana Parva, Adhyaya 116, Verse 5

एतदिच्छामि तत्त्वेन कथ्यमानं त्वयानघ

निश्चयेन चिकीर्षामि धर्ममेतं सनातनम्

Mahabharata

Anushasana Parva, Adhyaya 116, Verse 6

कथमायुरवाप्नोति कथं भवति सत्त्ववान्

कथमव्यङ्गतामेति लक्षण्यो जायते कथम्

Mahabharata

Anushasana Parva, Adhyaya 116, Verse 7

मांसस्य भक्षणे राजन्योऽधर्मः कुरुपुंगव

तं मे शृणु यथातत्त्वं यश्चास्य विधिरुत्तमः

Mahabharata

Anushasana Parva, Adhyaya 116, Verse 8

रूपमव्यङ्गतामायुर्बुद्धिं सत्त्वं बलं स्मृतिम्

प्राप्तुकामैर्नरैर्हिंसा वर्जिता वै कृतात्मभिः

Mahabharata

Anushasana Parva, Adhyaya 116, Verse 9

ऋषीणामत्र संवादो बहुशः कुरुपुंगव

बभूव तेषां तु मतं यत्तच्छृणु युधिष्ठिर

Mahabharata

Anushasana Parva, Adhyaya 116, Verse 10

यो यजेताश्वमेधेन मासि मासि यतव्रतः

वर्जयेन्मधु मांसं च सममेतद्युधिष्ठिर

Mahabharata

Anushasana Parva, Adhyaya 116, Verse 11

सप्तर्षयो वालखिल्यास्तथैव च मरीचिपाः

अमांसभक्षणं राजन्प्रशंसन्ति मनीषिणः

Mahabharata

Anushasana Parva, Adhyaya 116, Verse 12

न भक्षयति यो मांसं न हन्यान्न च घातयेत्

तं मित्रं सर्वभूतानां मनुः स्वायंभुवोऽब्रवीत्

Mahabharata

Anushasana Parva, Adhyaya 116, Verse 13

अधृष्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु

साधूनां संमतो नित्यं भवेन्मांसस्य वर्जनात्

Mahabharata

Anushasana Parva, Adhyaya 116, Verse 14

स्वमांसं परमांसेन यो वर्धयितुमिच्छति

नारदः प्राह धर्मात्मा नियतं सोऽवसीदति

Mahabharata

Anushasana Parva, Adhyaya 116, Verse 15

ददाति यजते चापि तपस्वी च भवत्यपि

मधुमांसनिवृत्त्येति प्राहैवं स बृहस्पतिः

Mahabharata

Anushasana Parva, Adhyaya 116, Verse 16

मासि मास्यश्वमेधेन यो यजेत शतं समाः

न खादति च यो मांसं सममेतन्मतं मम

Mahabharata

Anushasana Parva, Adhyaya 116, Verse 17

सदा यजति सत्रेण सदा दानं प्रयच्छति

सदा तपस्वी भवति मधुमांसस्य वर्जनात्

Mahabharata

Anushasana Parva, Adhyaya 116, Verse 18

सर्वे वेदा न तत्कुर्युः सर्वयज्ञाश्च भारत

यो भक्षयित्वा मांसानि पश्चादपि निवर्तते

Mahabharata

Anushasana Parva, Adhyaya 116, Verse 19

दुष्करं हि रसज्ञेन मांसस्य परिवर्जनम्

चर्तुं व्रतमिदं श्रेष्ठं सर्वप्राण्यभयप्रदम्

Mahabharata

Anushasana Parva, Adhyaya 116, Verse 20

सर्वभूतेषु यो विद्वान्ददात्यभयदक्षिणाम्

दाता भवति लोके स प्राणानां नात्र संशयः

Mahabharata

Anushasana Parva, Adhyaya 116, Verse 21

एवं वै परमं धर्मं प्रशंसन्ति मनीषिणः

प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा

Mahabharata

Anushasana Parva, Adhyaya 116, Verse 22

आत्मौपम्येन गन्तव्यं बुद्धिमद्भिर्महात्मभिः

मृत्युतो भयमस्तीति विदुषां भूतिमिच्छताम्

Mahabharata

Anushasana Parva, Adhyaya 116, Verse 23

किं पुनर्हन्यमानानां तरसा जीवितार्थिनाम्

अरोगाणामपापानां पापैर्मांसोपजीविभिः

Mahabharata

Anushasana Parva, Adhyaya 116, Verse 24

तस्माद्विद्धि महाराज मांसस्य परिवर्जनम्

धर्मस्यायतनं श्रेष्ठं स्वर्गस्य च सुखस्य च

Mahabharata

Anushasana Parva, Adhyaya 116, Verse 25

अहिंसा परमो धर्मस्तथाहिंसा परं तपः

अहिंसा परमं सत्यं ततो धर्मः प्रवर्तते

Mahabharata

Anushasana Parva, Adhyaya 116, Verse 26

न हि मांसं तृणात्काष्ठादुपलाद्वापि जायते

हत्वा जन्तुं ततो मांसं तस्माद्दोषोऽस्य भक्षणे

Mahabharata

Anushasana Parva, Adhyaya 116, Verse 27

स्वाहास्वधामृतभुजो देवाः सत्यार्जवप्रियाः

क्रव्यादान्राक्षसान्विद्धि जिह्मानृतपरायणान्

Mahabharata

Anushasana Parva, Adhyaya 116, Verse 28

कान्तारेष्वथ घोरेषु दुर्गेषु गहनेषु च

रात्रावहनि संध्यासु चत्वरेषु सभासु च

अमांसभक्षणे राजन्भयमन्ते न गच्छति

Mahabharata

Anushasana Parva, Adhyaya 116, Verse 29

यदि चेत्खादको न स्यान्न तदा घातको भवेत्

घातकः खादकार्थाय तं घातयति वै नरः

Mahabharata

Anushasana Parva, Adhyaya 116, Verse 30

अभक्ष्यमेतदिति वा इति हिंसा निवर्तते

खादकार्थमतो हिंसा मृगादीनां प्रवर्तते