Mahabharata

Anushasana Parva, Adhyaya 115

Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 115, Verse 1

ततो युधिष्ठिरो राजा शरतल्पे पितामहम्

पुनरेव महातेजाः पप्रच्छ वदतां वरम्

Mahabharata

Anushasana Parva, Adhyaya 115, Verse 2

ऋषयो ब्राह्मणा देवाः प्रशंसन्ति महामते

अहिंसालक्षणं धर्मं वेदप्रामाण्यदर्शनात्

Mahabharata

Anushasana Parva, Adhyaya 115, Verse 3

कर्मणा मनुजः कुर्वन्हिंसां पार्थिवसत्तम

वाचा च मनसा चैव कथं दुःखात्प्रमुच्यते

Mahabharata

Anushasana Parva, Adhyaya 115, Verse 4

चतुर्विधेयं निर्दिष्टा अहिंसा ब्रह्मवादिभिः

एषैकतोऽपि विभ्रष्टा न भवत्यरिसूदन

Mahabharata

Anushasana Parva, Adhyaya 115, Verse 5

यथा सर्वश्चतुष्पादस्त्रिभिः पादैर्न तिष्ठति

तथैवेयं महीपाल प्रोच्यते कारणैस्त्रिभिः

Mahabharata

Anushasana Parva, Adhyaya 115, Verse 6

यथा नागपदेऽन्यानि पदानि पदगामिनाम्

सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे

एवं लोकेष्वहिंसा तु निर्दिष्टा धर्मतः परा

Mahabharata

Anushasana Parva, Adhyaya 115, Verse 7

कर्मणा लिप्यते जन्तुर्वाचा च मनसैव च

Mahabharata

Anushasana Parva, Adhyaya 115, Verse 8

पूर्वं तु मनसा त्यक्त्वा तथा वाचाथ कर्मणा

त्रिकारणं तु निर्दिष्टं श्रूयते ब्रह्मवादिभिः

Mahabharata

Anushasana Parva, Adhyaya 115, Verse 9

मनोवाचि तथास्वादे दोषा ह्येषु प्रतिष्ठिताः

न भक्षयन्त्यतो मांसं तपोयुक्ता मनीषिणः

Mahabharata

Anushasana Parva, Adhyaya 115, Verse 10

दोषांस्तु भक्षणे राजन्मांसस्येह निबोध मे

पुत्रमांसोपमं जानन्खादते यो विचेतनः

Mahabharata

Anushasana Parva, Adhyaya 115, Verse 11

मातापितृसमायोगे पुत्रत्वं जायते यथा

रसं च प्रति जिह्वायाः प्रज्ञानं जायते तथा

तथा शास्त्रेषु नियतं रागो ह्यास्वादिताद्भवेत्

Mahabharata

Anushasana Parva, Adhyaya 115, Verse 12

असंस्कृताः संस्कृताश्च लवणालवणास्तथा

प्रज्ञायन्ते यथा भावास्तथा चित्तं निरुध्यते

Mahabharata

Anushasana Parva, Adhyaya 115, Verse 13

भेरीशङ्खमृदङ्गाद्यांस्तन्त्रीशब्दांश्च पुष्कलान्

निषेविष्यन्ति वै मन्दा मांसभक्षाः कथं नराः

Mahabharata

Anushasana Parva, Adhyaya 115, Verse 14

अचिन्तितमनुद्दिष्टमसंकल्पितमेव च

रसं गृद्ध्याभिभूता वै प्रशंसन्ति फलार्थिनः

प्रशंसा ह्येव मांसस्य दोषकर्मफलान्विता

Mahabharata

Anushasana Parva, Adhyaya 115, Verse 15

जीवितं हि परित्यज्य बहवः साधवो जनाः

स्वमांसैः परमांसानि परिपाल्य दिवं गताः

Mahabharata

Anushasana Parva, Adhyaya 115, Verse 16

एवमेषा महाराज चतुर्भिः कारणैर्वृता

अहिंसा तव निर्दिष्टा सर्वधर्मार्थसंहिता