Mahabharata

Anushasana Parva, Adhyaya 114

Containing 11 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 114, Verse 1

अहिंसा वैदिकं कर्म ध्यानमिन्द्रियसंयमः

तपोऽथ गुरुशुश्रूषा किं श्रेयः पुरुषं प्रति

Mahabharata

Anushasana Parva, Adhyaya 114, Verse 2

सर्वाण्येतानि धर्मस्य पृथग्द्वाराणि सर्वशः

शृणु संकीर्त्यमानानि षडेव भरतर्षभ

Mahabharata

Anushasana Parva, Adhyaya 114, Verse 3

हन्त निःश्रेयसं जन्तोरहं वक्ष्याम्यनुत्तमम्

अहिंसापाश्रयं धर्मं यः साधयति वै नरः

Mahabharata

Anushasana Parva, Adhyaya 114, Verse 4

त्रीन्दोषान्सर्वभूतेषु निधाय पुरुषः सदा

कामक्रोधौ च संयम्य ततः सिद्धिमवाप्नुते

Mahabharata

Anushasana Parva, Adhyaya 114, Verse 5

अहिंसकानि भूतानि दण्डेन विनिहन्ति यः

आत्मनः सुखमन्विच्छन्न स प्रेत्य सुखी भवेत्

Mahabharata

Anushasana Parva, Adhyaya 114, Verse 6

आत्मोपमश्च भूतेषु यो वै भवति पूरुषः

न्यस्तदण्डो जितक्रोधः स प्रेत्य सुखमेधते

Mahabharata

Anushasana Parva, Adhyaya 114, Verse 7

सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः

देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः

Mahabharata

Anushasana Parva, Adhyaya 114, Verse 8

न तत्परस्य संदद्यात्प्रतिकूलं यदात्मनः

एष संक्षेपतो धर्मः कामादन्यः प्रवर्तते

Mahabharata

Anushasana Parva, Adhyaya 114, Verse 9

प्रत्याख्याने च दाने च सुखदुःखे प्रियाप्रिये

आत्मौपम्येन पुरुषः समाधिमधिगच्छति

Mahabharata

Anushasana Parva, Adhyaya 114, Verse 10

यथा परः प्रक्रमतेऽपरेषु; तथापरः प्रक्रमते परस्मिन्

एषैव तेऽस्तूपमा जीवलोके; यथा धर्मो नैपुणेनोपदिष्टः

Mahabharata

Anushasana Parva, Adhyaya 114, Verse 11

इत्युक्त्वा तं सुरगुरुर्धर्मराजं युधिष्ठिरम्

दिवमाचक्रमे धीमान्पश्यतामेव नस्तदा