Mahabharata

Anushasana Parva, Adhyaya 113

Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 113, Verse 1

अधर्मस्य गतिर्ब्रह्मन्कथिता मे त्वयानघ

धर्मस्य तु गतिं श्रोतुमिच्छामि वदतां वर

कृत्वा कर्माणि पापानि कथं यान्ति शुभां गतिम्

Mahabharata

Anushasana Parva, Adhyaya 113, Verse 2

कृत्वा पापानि कर्माणि अधर्मवशमागतः

मनसा विपरीतेन निरयं प्रतिपद्यते

Mahabharata

Anushasana Parva, Adhyaya 113, Verse 3

मोहादधर्मं यः कृत्वा पुनः समनुतप्यते

मनःसमाधिसंयुक्तो न स सेवेत दुष्कृतम्

Mahabharata

Anushasana Parva, Adhyaya 113, Verse 4

यथा यथा नरः सम्यगधर्ममनुभाषते

समाहितेन मनसा विमुच्यति तथा तथा

भुजंग इव निर्मोकात्पूर्वभुक्ताज्जरान्वितात्

Mahabharata

Anushasana Parva, Adhyaya 113, Verse 5

अदत्त्वापि प्रदानानि विविधानि समाहितः

मनःसमाधिसंयुक्तः सुगतिं प्रतिपद्यते

Mahabharata

Anushasana Parva, Adhyaya 113, Verse 6

प्रदानानि तु वक्ष्यामि यानि दत्त्वा युधिष्ठिर

नरः कृत्वाप्यकार्याणि तदा धर्मेण युज्यते

Mahabharata

Anushasana Parva, Adhyaya 113, Verse 7

सर्वेषामेव दानानामन्नं श्रेष्ठमुदाहृतम्

पूर्वमन्नं प्रदातव्यमृजुना धर्ममिच्छता

Mahabharata

Anushasana Parva, Adhyaya 113, Verse 8

प्राणा ह्यन्नं मनुष्याणां तस्माज्जन्तुश्च जायते

अन्ने प्रतिष्ठिता लोकास्तस्मादन्नं प्रकाशते

Mahabharata

Anushasana Parva, Adhyaya 113, Verse 9

अन्नमेव प्रशंसन्ति देवर्षिपितृमानवाः

अन्नस्य हि प्रदानेन स्वर्गमाप्नोति कौशिकः

Mahabharata

Anushasana Parva, Adhyaya 113, Verse 10

न्यायलब्धं प्रदातव्यं द्विजेभ्यो ह्यन्नमुत्तमम्

स्वाध्यायसमुपेतेभ्यः प्रहृष्टेनान्तरात्मना

Mahabharata

Anushasana Parva, Adhyaya 113, Verse 11

यस्य ह्यन्नमुपाश्नन्ति ब्राह्मणानां शता दश

हृष्टेन मनसा दत्तं न स तिर्यग्गतिर्भवेत्

Mahabharata

Anushasana Parva, Adhyaya 113, Verse 12

ब्राह्मणानां सहस्राणि दश भोज्य नरर्षभ

नरोऽधर्मात्प्रमुच्येत पापेष्वभिरतः सदा

Mahabharata

Anushasana Parva, Adhyaya 113, Verse 13

भैक्षेणान्नं समाहृत्य विप्रो वेदपुरस्कृतः

स्वाध्यायनिरते विप्रे दत्त्वेह सुखमेधते

Mahabharata

Anushasana Parva, Adhyaya 113, Verse 14

अहिंसन्ब्राह्मणं नित्यं न्यायेन परिपाल्य च

क्षत्रियस्तरसा प्राप्तमन्नं यो वै प्रयच्छति

Mahabharata

Anushasana Parva, Adhyaya 113, Verse 15

द्विजेभ्यो वेदवृद्धेभ्यः प्रयतः सुसमाहितः

तेनापोहति धर्मात्मा दुष्कृतं कर्म पाण्डव

Mahabharata

Anushasana Parva, Adhyaya 113, Verse 16

षड्भागपरिशुद्धं च कृषेर्भागमुपार्जितम्

वैश्यो ददद्द्विजातिभ्यः पापेभ्यः परिमुच्यते

Mahabharata

Anushasana Parva, Adhyaya 113, Verse 17

अवाप्य प्राणसंदेहं कार्कश्येन समार्जितम्

अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात्प्रमुच्यते

Mahabharata

Anushasana Parva, Adhyaya 113, Verse 18

औरसेन बलेनान्नमर्जयित्वाविहिंसकः

यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि सेवते

Mahabharata

Anushasana Parva, Adhyaya 113, Verse 19

न्यायेनावाप्तमन्नं तु नरो लोभविवर्जितः

द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात्प्रमुच्यते

Mahabharata

Anushasana Parva, Adhyaya 113, Verse 20

अन्नमूर्जस्करं लोके दत्त्वोर्जस्वी भवेन्नरः

सतां पन्थानमाश्रित्य सर्वपापात्प्रमुच्यते

Mahabharata

Anushasana Parva, Adhyaya 113, Verse 21

दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः

ते स्म प्राणस्य दातारस्तेभ्यो धर्मः सनातनः

Mahabharata

Anushasana Parva, Adhyaya 113, Verse 22

सर्वावस्थं मनुष्येण न्यायेनान्नमुपार्जितम्

कार्यं पात्रगतं नित्यमन्नं हि परमा गतिः

Mahabharata

Anushasana Parva, Adhyaya 113, Verse 23

अन्नस्य हि प्रदानेन नरो दुर्गं न सेवते

तस्मादन्नं प्रदातव्यमन्यायपरिवर्जितम्

Mahabharata

Anushasana Parva, Adhyaya 113, Verse 24

यतेद्ब्राह्मणपूर्वं हि भोक्तुमन्नं गृही सदा

अवन्ध्यं दिवसं कुर्यादन्नदानेन मानवः

Mahabharata

Anushasana Parva, Adhyaya 113, Verse 25

भोजयित्वा दशशतं नरो वेदविदां नृप

न्यायविद्धर्मविदुषामितिहासविदां तथा

Mahabharata

Anushasana Parva, Adhyaya 113, Verse 26

न याति नरकं घोरं संसारांश्च न सेवते

सर्वकामसमायुक्तः प्रेत्य चाप्यश्नुते फलम्

Mahabharata

Anushasana Parva, Adhyaya 113, Verse 27

एवं सुखसमायुक्तो रमते विगतज्वरः

रूपवान्कीर्तिमांश्चैव धनवांश्चोपपद्यते

Mahabharata

Anushasana Parva, Adhyaya 113, Verse 28

एतत्ते सर्वमाख्यातमन्नदानफलं महत्

मूलमेतद्धि धर्माणां प्रदानस्य च भारत