Mahabharata

Anushasana Parva, Adhyaya 110

Containing 137 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 110, Verse 1

पितामहेन विधिवद्यज्ञाः प्रोक्ता महात्मना

गुणाश्चैषां यथातत्त्वं प्रेत्य चेह च सर्वशः

Mahabharata

Anushasana Parva, Adhyaya 110, Verse 2

न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं पितामह

बहूपकरणा यज्ञा नानासंभारविस्तराः

Mahabharata

Anushasana Parva, Adhyaya 110, Verse 3

पार्थिवै राजपुत्रैर्वा शक्याः प्राप्तुं पितामह

नार्थन्यूनैरवगुणैरेकात्मभिरसंहतैः

Mahabharata

Anushasana Parva, Adhyaya 110, Verse 4

यो दरिद्रैरपि विधिः शक्यः प्राप्तुं सदा भवेत्

तुल्यो यज्ञफलैरेतैस्तन्मे ब्रूहि पितामह

Mahabharata

Anushasana Parva, Adhyaya 110, Verse 5

इदमङ्गिरसा प्रोक्तमुपवासफलात्मकम्

विधिं यज्ञफलैस्तुल्यं तन्निबोध युधिष्ठिर

Mahabharata

Anushasana Parva, Adhyaya 110, Verse 6

यस्तु कल्यं तथा सायं भुञ्जानो नान्तरा पिबेत्

अहिंसानिरतो नित्यं जुह्वानो जातवेदसम्

Mahabharata

Anushasana Parva, Adhyaya 110, Verse 7

षड्भिरेव तु वर्षैः स सिध्यते नात्र संशयः

तप्तकाञ्चनवर्णं च विमानं लभते नरः

Mahabharata

Anushasana Parva, Adhyaya 110, Verse 8

देवस्त्रीणामधीवासे नृत्यगीतनिनादिते

प्राजापत्ये वसेत्पद्मं वर्षाणामग्निसंनिभे

Mahabharata

Anushasana Parva, Adhyaya 110, Verse 9

त्रीणि वर्षाणि यः प्राशेत्सततं त्वेकभोजनम्

धर्मपत्नीरतो नित्यमग्निष्टोमफलं लभेत्

Mahabharata

Anushasana Parva, Adhyaya 110, Verse 10

द्वितीये दिवसे यस्तु प्राश्नीयादेकभोजनम्

सदा द्वादशमासांस्तु जुह्वानो जातवेदसम्

यज्ञं बहुसुवर्णं वा वासवप्रियमाहरेत्

Mahabharata

Anushasana Parva, Adhyaya 110, Verse 11

सत्यवाग्दानशीलश्च ब्रह्मण्यश्चानसूयकः

क्षान्तो दान्तो जितक्रोधः स गच्छति परां गतिम्

Mahabharata

Anushasana Parva, Adhyaya 110, Verse 12

पाण्डुराभ्रप्रतीकाशे विमाने हंसलक्षणे

द्वे समाप्ते ततः पद्मे सोऽप्सरोभिर्वसेत्सह

Mahabharata

Anushasana Parva, Adhyaya 110, Verse 13

तृतीये दिवसे यस्तु प्राश्नीयादेकभोजनम्

सदा द्वादशमासांस्तु जुह्वानो जातवेदसम्

Mahabharata

Anushasana Parva, Adhyaya 110, Verse 14

अतिरात्रस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम्

मयूरहंससंयुक्तं विमानं लभते नरः

Mahabharata

Anushasana Parva, Adhyaya 110, Verse 15

सप्तर्षीणां सदा लोके सोऽप्सरोभिर्वसेत्सह

निवर्तनं च तत्रास्य त्रीणि पद्मानि वै विदुः

Mahabharata

Anushasana Parva, Adhyaya 110, Verse 16

दिवसे यश्चतुर्थे तु प्राश्नीयादेकभोजनम्

सदा द्वादशमासान्वै जुह्वानो जातवेदसम्

Mahabharata

Anushasana Parva, Adhyaya 110, Verse 17

वाजपेयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम्

इन्द्रकन्याभिरूढं च विमानं लभते नरः

Mahabharata

Anushasana Parva, Adhyaya 110, Verse 18

सागरस्य च पर्यन्ते वासवं लोकमावसेत्

देवराजस्य च क्रीडां नित्यकालमवेक्षते

Mahabharata

Anushasana Parva, Adhyaya 110, Verse 19

दिवसे पञ्चमे यस्तु प्राश्नीयादेकभोजनम्

सदा द्वादशमासांस्तु जुह्वानो जातवेदसम्

Mahabharata

Anushasana Parva, Adhyaya 110, Verse 20

अलुब्धः सत्यवादी च ब्रह्मण्यश्चाविहिंसकः

अनसूयुरपापस्थो द्वादशाहफलं लभेत्

Mahabharata

Anushasana Parva, Adhyaya 110, Verse 21

जाम्बूनदमयं दिव्यं विमानं हंसलक्षणम्

सूर्यमालासमाभासमारोहेत्पाण्डुरं गृहम्

Mahabharata

Anushasana Parva, Adhyaya 110, Verse 22

आवर्तनानि चत्वारि तथा पद्मानि द्वादश

शराग्निपरिमाणं च तत्रासौ वसते सुखम्

Mahabharata

Anushasana Parva, Adhyaya 110, Verse 23

दिवसे यस्तु षष्ठे वै मुनिः प्राशेत भोजनम्

सदा द्वादशमासान्वै जुह्वानो जातवेदसम्

Mahabharata

Anushasana Parva, Adhyaya 110, Verse 24

सदा त्रिषवणस्नायी ब्रह्मचार्यनसूयकः

गवामयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम्

Mahabharata

Anushasana Parva, Adhyaya 110, Verse 25

अग्निज्वालासमाभासं हंसबर्हिणसेवितम्

शातकुम्भमयं युक्तं साधयेद्यानमुत्तमम्

Mahabharata

Anushasana Parva, Adhyaya 110, Verse 26

तथैवाप्सरसामङ्के प्रसुप्तः प्रतिबुध्यते

नूपुराणां निनादेन मेखलानां च निस्वनैः

Mahabharata

Anushasana Parva, Adhyaya 110, Verse 27

कोटीसहस्रं वर्षाणां त्रीणि कोटिशतानि च

पद्मान्यष्टादश तथा पताके द्वे तथैव च

Mahabharata

Anushasana Parva, Adhyaya 110, Verse 28

अयुतानि च पञ्चाशदृक्षचर्मशतस्य च

लोम्नां प्रमाणेन समं ब्रह्मलोके महीयते

Mahabharata

Anushasana Parva, Adhyaya 110, Verse 29

दिवसे सप्तमे यस्तु प्राश्नीयादेकभोजनम्

सदा द्वादशमासान्वै जुह्वानो जातवेदसम्

Mahabharata

Anushasana Parva, Adhyaya 110, Verse 30

सरस्वतीं गोपयानो ब्रह्मचर्यं समाचरन्

सुमनोवर्णकं चैव मधुमांसं च वर्जयेत्