Mahabharata

Anushasana Parva, Adhyaya 107

Containing 148 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 107, Verse 1

शतायुरुक्तः पुरुषः शतवीर्यश्च वैदिके

कस्मान्म्रियन्ते पुरुषा बाला अपि पितामह

Mahabharata

Anushasana Parva, Adhyaya 107, Verse 2

आयुष्मान्केन भवति स्वल्पायुर्वापि मानवः

केन वा लभते कीर्तिं केन वा लभते श्रियम्

Mahabharata

Anushasana Parva, Adhyaya 107, Verse 3

तपसा ब्रह्मचर्येण जपैर्होमैस्तथौषधैः

जन्मना यदि वाचारात्तन्मे ब्रूहि पितामह

Mahabharata

Anushasana Parva, Adhyaya 107, Verse 4

अत्र ते वर्तयिष्यामि यन्मां त्वमनुपृच्छसि

अल्पायुर्येन भवति दीर्घायुर्वापि मानवः

Mahabharata

Anushasana Parva, Adhyaya 107, Verse 5

येन वा लभते कीर्तिं येन वा लभते श्रियम्

यथा च वर्तन्पुरुषः श्रेयसा संप्रयुज्यते

Mahabharata

Anushasana Parva, Adhyaya 107, Verse 6

आचाराल्लभते ह्यायुराचाराल्लभते श्रियम्

आचारात्कीर्तिमाप्नोति पुरुषः प्रेत्य चेह च

Mahabharata

Anushasana Parva, Adhyaya 107, Verse 7

दुराचारो हि पुरुषो नेहायुर्विन्दते महत्

त्रसन्ति यस्माद्भूतानि तथा परिभवन्ति च

Mahabharata

Anushasana Parva, Adhyaya 107, Verse 8

तस्मात्कुर्यादिहाचारं य इच्छेद्भूतिमात्मनः

अपि पापशरीरस्य आचारो हन्त्यलक्षणम्

Mahabharata

Anushasana Parva, Adhyaya 107, Verse 9

आचारलक्षणो धर्मः सन्तश्चाचारलक्षणाः

साधूनां च यथा वृत्तमेतदाचारलक्षणम्

Mahabharata

Anushasana Parva, Adhyaya 107, Verse 10

अप्यदृष्टं श्रुतं वापि पुरुषं धर्मचारिणम्

भूतिकर्माणि कुर्वाणं तं जनाः कुर्वते प्रियम्

Mahabharata

Anushasana Parva, Adhyaya 107, Verse 11

ये नास्तिका निष्क्रियाश्च गुरुशास्त्रातिलङ्घिनः

अधर्मज्ञा दुराचारास्ते भवन्ति गतायुषः

Mahabharata

Anushasana Parva, Adhyaya 107, Verse 12

विशीला भिन्नमर्यादा नित्यं संकीर्णमैथुनाः

अल्पायुषो भवन्तीह नरा निरयगामिनः

Mahabharata

Anushasana Parva, Adhyaya 107, Verse 13

सर्वलक्षणहीनोऽपि समुदाचारवान्नरः

श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति

Mahabharata

Anushasana Parva, Adhyaya 107, Verse 14

अक्रोधनः सत्यवादी भूतानामविहिंसकः

अनसूयुरजिह्मश्च शतं वर्षाणि जीवति

Mahabharata

Anushasana Parva, Adhyaya 107, Verse 15

लोष्टमर्दी तृणच्छेदी नखखादी च यो नरः

नित्योच्छिष्टः संकुसुको नेहायुर्विन्दते महत्

Mahabharata

Anushasana Parva, Adhyaya 107, Verse 16

ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत्

उत्थायाचम्य तिष्ठेत पूर्वां संध्यां कृताञ्जलिः

Mahabharata

Anushasana Parva, Adhyaya 107, Verse 17

एवमेवापरां संध्यां समुपासीत वाग्यतः

नेक्षेतादित्यमुद्यन्तं नास्तं यान्तं कदाचन

Mahabharata

Anushasana Parva, Adhyaya 107, Verse 18

ऋषयो दीर्घसंध्यत्वाद्दीर्घमायुरवाप्नुवन्

तस्मात्तिष्ठेत्सदा पूर्वां पश्चिमां चैव वाग्यतः

Mahabharata

Anushasana Parva, Adhyaya 107, Verse 19

ये च पूर्वामुपासन्ते द्विजाः संध्यां न पश्चिमाम्

सर्वांस्तान्धार्मिको राजा शूद्रकर्माणि कारयेत्

Mahabharata

Anushasana Parva, Adhyaya 107, Verse 20

परदारा न गन्तव्याः सर्ववर्णेषु कर्हिचित्

न हीदृशमनायुष्यं लोके किंचन विद्यते

यादृशं पुरुषस्येह परदारोपसेवनम्

Mahabharata

Anushasana Parva, Adhyaya 107, Verse 21

प्रसाधनं च केशानामञ्जनं दन्तधावनम्

पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम्

Mahabharata

Anushasana Parva, Adhyaya 107, Verse 22

पुरीषमूत्रे नोदीक्षेन्नाधितिष्ठेत्कदाचन

उदक्यया च संभाषां न कुर्वीत कदाचन

Mahabharata

Anushasana Parva, Adhyaya 107, Verse 23

नोत्सृजेत पुरीषं च क्षेत्रे ग्रामस्य चान्तिके

उभे मूत्रपुरीषे तु नाप्सु कुर्यात्कदाचन

Mahabharata

Anushasana Parva, Adhyaya 107, Verse 24

प्राङ्मुखो नित्यमश्नीयाद्वाग्यतोऽन्नमकुत्सयन्

प्रस्कन्दयेच्च मनसा भुक्त्वा चाग्निमुपस्पृशेत्

Mahabharata

Anushasana Parva, Adhyaya 107, Verse 25

आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः

धन्यं पश्चान्मुखो भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखः

Mahabharata

Anushasana Parva, Adhyaya 107, Verse 26

नाधितिष्ठेत्तुषाञ्जातु केशभस्मकपालिकाः

अन्यस्य चाप्युपस्थानं दूरतः परिवर्जयेत्

Mahabharata

Anushasana Parva, Adhyaya 107, Verse 27

शान्तिहोमांश्च कुर्वीत सावित्राणि च कारयेत्

निषण्णश्चापि खादेत न तु गच्छन्कथंचन

Mahabharata

Anushasana Parva, Adhyaya 107, Verse 28

मूत्रं न तिष्ठता कार्यं न भस्मनि न गोव्रजे

Mahabharata

Anushasana Parva, Adhyaya 107, Verse 29

आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत्

आर्द्रपादस्तु भुञ्जानो वर्षाणां जीवते शतम्

Mahabharata

Anushasana Parva, Adhyaya 107, Verse 30

त्रीणि तेजांसि नोच्छिष्ट आलभेत कदाचन

अग्निं गां ब्राह्मणं चैव तथास्यायुर्न रिष्यते