Mahabharata

Anushasana Parva, Adhyaya 105

Containing 62 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 105, Verse 1

एको लोकः सुकृतिनां सर्वे त्वाहो पितामह

उत तत्रापि नानात्वं तन्मे ब्रूहि पितामह

Mahabharata

Anushasana Parva, Adhyaya 105, Verse 2

कर्मभिः पार्थ नानात्वं लोकानां यान्ति मानवाः

पुण्यान्पुण्यकृतो यान्ति पापान्पापकृतो जनाः

Mahabharata

Anushasana Parva, Adhyaya 105, Verse 3

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

गौतमस्य मुनेस्तात संवादं वासवस्य च

Mahabharata

Anushasana Parva, Adhyaya 105, Verse 4

ब्राह्मणो गौतमः कश्चिन्मृदुर्दान्तो जितेन्द्रियः

महावने हस्तिशिशुं परिद्यूनममातृकम्

Mahabharata

Anushasana Parva, Adhyaya 105, Verse 5

तं दृष्ट्वा जीवयामास सानुक्रोशो धृतव्रतः

स तु दीर्घेण कालेन बभूवातिबलो महान्

Mahabharata

Anushasana Parva, Adhyaya 105, Verse 6

तं प्रभिन्नं महानागं प्रस्रुतं सर्वतो मदम्

धृतराष्ट्रस्य रूपेण शक्रो जग्राह हस्तिनम्

Mahabharata

Anushasana Parva, Adhyaya 105, Verse 7

ह्रियमाणं तु तं दृष्ट्वा गौतमः संशितव्रतः

अभ्यभाषत राजानं धृतराष्ट्रं महातपाः

Mahabharata

Anushasana Parva, Adhyaya 105, Verse 8

मा मे हार्षीर्हस्तिनं पुत्रमेनं; दुःखात्पुष्टं धृतराष्ट्राकृतज्ञ

मित्रं सतां सप्तपदं वदन्ति; मित्रद्रोहो नैव राजन्स्पृशेत्त्वाम्

Mahabharata

Anushasana Parva, Adhyaya 105, Verse 9

इध्मोदकप्रदातारं शून्यपालकमाश्रमे

विनीतमाचार्यकुले सुयुक्तं गुरुकर्मणि

Mahabharata

Anushasana Parva, Adhyaya 105, Verse 10

शिष्टं दान्तं कृतज्ञं च प्रियं च सततं मम

न मे विक्रोशतो राजन्हर्तुमर्हसि कुञ्जरम्

Mahabharata

Anushasana Parva, Adhyaya 105, Verse 11

गवां सहस्रं भवते ददामि; दासीशतं निष्कशतानि पञ्च

अन्यच्च वित्तं विविधं महर्षे; किं ब्राह्मणस्येह गजेन कृत्यम्

Mahabharata

Anushasana Parva, Adhyaya 105, Verse 12

त्वामेव गावोऽभि भवन्तु राज;न्दास्यः सनिष्का विविधं च रत्नम्

अन्यच्च वित्तं विविधं नरेन्द्र; किं ब्राह्मणस्येह धनेन कृत्यम्

Mahabharata

Anushasana Parva, Adhyaya 105, Verse 13

ब्राह्मणानां हस्तिभिर्नास्ति कृत्यं; राजन्यानां नागकुलानि विप्र

स्वं वाहनं नयतो नास्त्यधर्मो; नागश्रेष्ठाद्गौतमास्मान्निवर्त

Mahabharata

Anushasana Parva, Adhyaya 105, Verse 14

यत्र प्रेतो नन्दति पुण्यकर्मा; यत्र प्रेतः शोचति पापकर्मा

वैवस्वतस्य सदने महात्मन;स्तत्र त्वाहं हस्तिनं यातयिष्ये

Mahabharata

Anushasana Parva, Adhyaya 105, Verse 15

ये निष्क्रिया नास्तिकाः श्रद्दधानाः; पापात्मान इन्द्रियार्थे निविष्टाः

यमस्य ते यातनां प्राप्नुवन्ति; परं गन्ता धृतराष्ट्रो न तत्र

Mahabharata

Anushasana Parva, Adhyaya 105, Verse 16

वैवस्वती संयमनी जनानां; यत्रानृतं नोच्यते यत्र सत्यम्

यत्राबला बलिनं यातयन्ति; तत्र त्वाहं हस्तिनं यातयिष्ये

Mahabharata

Anushasana Parva, Adhyaya 105, Verse 17

ज्येष्ठां स्वसारं पितरं मातरं च; गुरुं यथा मानयन्तश्चरन्ति

तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र

Mahabharata

Anushasana Parva, Adhyaya 105, Verse 18

मन्दाकिनी वैश्रवणस्य राज्ञो; महाभोगा भोगिजनप्रवेश्या

गन्धर्वयक्षैरप्सरोभिश्च जुष्टा; तत्र त्वाहं हस्तिनं यातयिष्ये

Mahabharata

Anushasana Parva, Adhyaya 105, Verse 19

अतिथिव्रताः सुव्रता ये जना वै; प्रतिश्रयं ददति ब्राह्मणेभ्यः

शिष्टाशिनः संविभज्याश्रितांश्च; मन्दाकिनीं तेऽपि विभूषयन्ति

Mahabharata

Anushasana Parva, Adhyaya 105, Verse 20

मेरोरग्रे यद्वनं भाति रम्यं; सुपुष्पितं किंनरगीतजुष्टम्

सुदर्शना यत्र जम्बूर्विशाला; तत्र त्वाहं हस्तिनं यातयिष्ये

Mahabharata

Anushasana Parva, Adhyaya 105, Verse 21

ये ब्राह्मणा मृदवः सत्यशीला; बहुश्रुताः सर्वभूताभिरामाः

येऽधीयन्ते सेतिहासं पुराणं; मध्वाहुत्या जुह्वति च द्विजेभ्यः

Mahabharata

Anushasana Parva, Adhyaya 105, Verse 22

तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र

यद्विद्यते विदितं स्थानमस्ति; तद्ब्रूहि त्वं त्वरितो ह्येष यामि

Mahabharata

Anushasana Parva, Adhyaya 105, Verse 23

सुपुष्पितं किंनरराजजुष्टं; प्रियं वनं नन्दनं नारदस्य

गन्धर्वाणामप्सरसां च सद्म; तत्र त्वाहं हस्तिनं यातयिष्ये

Mahabharata

Anushasana Parva, Adhyaya 105, Verse 24

ये नृत्तगीतकुशला जनाः सदा; ह्ययाचमानाः सहिताश्चरन्ति

तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र

Mahabharata

Anushasana Parva, Adhyaya 105, Verse 25

यत्रोत्तराः कुरवो भान्ति रम्या; देवैः सार्धं मोदमाना नरेन्द्र

यत्राग्नियौनाश्च वसन्ति विप्रा; ह्ययोनयः पर्वतयोनयश्च

Mahabharata

Anushasana Parva, Adhyaya 105, Verse 26

यत्र शक्रो वर्षति सर्वकामा;न्यत्र स्त्रियः कामचाराश्चरन्ति

यत्र चेर्ष्या नास्ति नारीनराणां; तत्र त्वाहं हस्तिनं यातयिष्ये

Mahabharata

Anushasana Parva, Adhyaya 105, Verse 27

ये सर्वभूतेषु निवृत्तकामा; अमांसादा न्यस्तदण्डाश्चरन्ति

न हिंसन्ति स्थावरं जङ्गमं च; भूतानां ये सर्वभूतात्मभूताः

Mahabharata

Anushasana Parva, Adhyaya 105, Verse 28

निराशिषो निर्ममा वीतरागा; लाभालाभे तुल्यनिन्दाप्रशंसाः

तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र

Mahabharata

Anushasana Parva, Adhyaya 105, Verse 29

ततः परं भान्ति लोकाः सनातनाः; सुपुण्यगन्धा निर्मला वीतशोकाः

सोमस्य राज्ञः सदने महात्मन;स्तत्र त्वाहं हस्तिनं यातयिष्ये

Mahabharata

Anushasana Parva, Adhyaya 105, Verse 30

ये दानशीला न प्रतिगृह्णते सदा; न चाप्यर्थानाददते परेभ्यः

येषामदेयमर्हते नास्ति किंचि;त्सर्वातिथ्याः सुप्रसादा जनाश्च