Mahabharata

Anushasana Parva, Adhyaya 101

Containing 65 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 101, Verse 1

आलोकदानं नामैतत्कीदृशं भरतर्षभ

कथमेतत्समुत्पन्नं फलं चात्र ब्रवीहि मे

Mahabharata

Anushasana Parva, Adhyaya 101, Verse 2

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

मनोः प्रजापतेर्वादं सुवर्णस्य च भारत

Mahabharata

Anushasana Parva, Adhyaya 101, Verse 3

तपस्वी कश्चिदभवत्सुवर्णो नाम नामतः

वर्णतो हेमवर्णः स सुवर्ण इति पप्रथे

Mahabharata

Anushasana Parva, Adhyaya 101, Verse 4

कुलशीलगुणोपेतः स्वाध्याये च परं गतः

बहून्स्ववंशप्रभवान्समतीतः स्वकैर्गुणैः

Mahabharata

Anushasana Parva, Adhyaya 101, Verse 5

स कदाचिन्मनुं विप्रो ददर्शोपससर्प च

कुशलप्रश्नमन्योन्यं तौ च तत्र प्रचक्रतुः

Mahabharata

Anushasana Parva, Adhyaya 101, Verse 6

ततस्तौ सिद्धसंकल्पौ मेरौ काञ्चनपर्वते

रमणीये शिलापृष्ठे सहितौ संन्यषीदताम्

Mahabharata

Anushasana Parva, Adhyaya 101, Verse 7

तत्र तौ कथयामास्तां कथा नानाविधाश्रयाः

ब्रह्मर्षिदेवदैत्यानां पुराणानां महात्मनाम्

Mahabharata

Anushasana Parva, Adhyaya 101, Verse 8

सुवर्णस्त्वब्रवीद्वाक्यं मनुं स्वायंभुवं प्रभुम्

हितार्थं सर्वभूतानां प्रश्नं मे वक्तुमर्हसि

Mahabharata

Anushasana Parva, Adhyaya 101, Verse 9

सुमनोभिर्यदिज्यन्ते दैवतानि प्रजेश्वर

किमेतत्कथमुत्पन्नं फलयोगं च शंस मे

Mahabharata

Anushasana Parva, Adhyaya 101, Verse 10

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

शुक्रस्य च बलेश्चैव संवादं वै समागमे

Mahabharata

Anushasana Parva, Adhyaya 101, Verse 11

बलेर्वैरोचनस्येह त्रैलोक्यमनुशासतः

समीपमाजगामाशु शुक्रो भृगुकुलोद्वहः

Mahabharata

Anushasana Parva, Adhyaya 101, Verse 12

तमर्घ्यादिभिरभ्यर्च्य भार्गवं सोऽसुराधिपः

निषसादासने पश्चाद्विधिवद्भूरिदक्षिणः

Mahabharata

Anushasana Parva, Adhyaya 101, Verse 13

कथेयमभवत्तत्र या त्वया परिकीर्तिता

सुमनोधूपदीपानां संप्रदाने फलं प्रति

Mahabharata

Anushasana Parva, Adhyaya 101, Verse 14

ततः पप्रच्छ दैत्येन्द्रः कवीन्द्रं प्रश्नमुत्तमम्

सुमनोधूपदीपानां किं फलं ब्रह्मवित्तम

प्रदानस्य द्विजश्रेष्ठ तद्भवान्वक्तुमर्हति

Mahabharata

Anushasana Parva, Adhyaya 101, Verse 15

तपः पूर्वं समुत्पन्नं धर्मस्तस्मादनन्तरम्

एतस्मिन्नन्तरे चैव वीरुदोषध्य एव च

Mahabharata

Anushasana Parva, Adhyaya 101, Verse 16

सोमस्यात्मा च बहुधा संभूतः पृथिवीतले

अमृतं च विषं चैव याश्चान्यास्तुल्यजातयः

Mahabharata

Anushasana Parva, Adhyaya 101, Verse 17

अमृतं मनसः प्रीतिं सद्यः पुष्टिं ददाति च

मनो ग्लपयते तीव्रं विषं गन्धेन सर्वशः

Mahabharata

Anushasana Parva, Adhyaya 101, Verse 18

अमृतं मङ्गलं विद्धि महद्विषममङ्गलम्

ओषध्यो ह्यमृतं सर्वं विषं तेजोऽग्निसंभवम्

Mahabharata

Anushasana Parva, Adhyaya 101, Verse 19

मनो ह्लादयते यस्माच्छ्रियं चापि दधाति ह

तस्मात्सुमनसः प्रोक्ता नरैः सुकृतकर्मभिः

Mahabharata

Anushasana Parva, Adhyaya 101, Verse 20

देवताभ्यः सुमनसो यो ददाति नरः शुचिः

तस्मात्सुमनसः प्रोक्ता यस्मात्तुष्यन्ति देवताः

Mahabharata

Anushasana Parva, Adhyaya 101, Verse 21

यं यमुद्दिश्य दीयेरन्देवं सुमनसः प्रभो

मङ्गलार्थं स तेनास्य प्रीतो भवति दैत्यप

Mahabharata

Anushasana Parva, Adhyaya 101, Verse 22

ज्ञेयास्तूग्राश्च सौम्याश्च तेजस्विन्यश्च ताः पृथक्

ओषध्यो बहुवीर्याश्च बहुरूपास्तथैव च

Mahabharata

Anushasana Parva, Adhyaya 101, Verse 23

यज्ञियानां च वृक्षाणामयज्ञियान्निबोध मे

आसुराणि च माल्यानि दैवतेभ्यो हितानि च

Mahabharata

Anushasana Parva, Adhyaya 101, Verse 24

राक्षसानां सुराणां च यक्षाणां च तथा प्रियाः

पितॄणां मानुषाणां च कान्ता यास्त्वनुपूर्वशः

Mahabharata

Anushasana Parva, Adhyaya 101, Verse 25

वन्या ग्राम्याश्चेह तथा कृष्टोप्ताः पर्वताश्रयाः

अकण्टकाः कण्टकिन्यो गन्धरूपरसान्विताः

Mahabharata

Anushasana Parva, Adhyaya 101, Verse 26

द्विविधो हि स्मृतो गन्ध इष्टोऽनिष्टश्च पुष्पजः

इष्टगन्धानि देवानां पुष्पाणीति विभावयेत्

Mahabharata

Anushasana Parva, Adhyaya 101, Verse 27

अकण्टकानां वृक्षाणां श्वेतप्रायाश्च वर्णतः

तेषां पुष्पाणि देवानामिष्टानि सततं प्रभो

Mahabharata

Anushasana Parva, Adhyaya 101, Verse 28

जलजानि च माल्यानि पद्मादीनि च यानि च

गन्धर्वनागयक्षेभ्यस्तानि दद्याद्विचक्षणः

Mahabharata

Anushasana Parva, Adhyaya 101, Verse 29

ओषध्यो रक्तपुष्पाश्च कटुकाः कण्टकान्विताः

शत्रूणामभिचारार्थमथर्वसु निदर्शिताः

Mahabharata

Anushasana Parva, Adhyaya 101, Verse 30

तीक्ष्णवीर्यास्तु भूतानां दुरालम्भाः सकण्टकाः

रक्तभूयिष्ठवर्णाश्च कृष्णाश्चैवोपहारयेत्