Mahabharata

Anushasana Parva, Adhyaya 100

Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 100, Verse 1

गार्हस्थ्यं धर्ममखिलं प्रब्रूहि भरतर्षभ

ऋद्धिमाप्नोति किं कृत्वा मनुष्य इह पार्थिव

Mahabharata

Anushasana Parva, Adhyaya 100, Verse 2

अत्र ते वर्तयिष्यामि पुरावृत्तं जनाधिप

वासुदेवस्य संवादं पृथिव्याश्चैव भारत

Mahabharata

Anushasana Parva, Adhyaya 100, Verse 3

संस्तूय पृथिवीं देवीं वासुदेवः प्रतापवान्

पप्रच्छ भरतश्रेष्ठ यदेतत्पृच्छसेऽद्य माम्

Mahabharata

Anushasana Parva, Adhyaya 100, Verse 4

गार्हस्थ्यं धर्ममाश्रित्य मया वा मद्विधेन वा

किमवश्यं धरे कार्यं किं वा कृत्वा सुखी भवेत्

Mahabharata

Anushasana Parva, Adhyaya 100, Verse 5

ऋषयः पितरो देवा मनुष्याश्चैव माधव

इज्याश्चैवार्चनीयाश्च यथा चैवं निबोध मे

Mahabharata

Anushasana Parva, Adhyaya 100, Verse 6

सदा यज्ञेन देवांश्च आतिथ्येन च मानवान्

छन्दतश्च यथानित्यमर्हान्युञ्जीत नित्यशः

तेन ह्यृषिगणाः प्रीता भवन्ति मधुसूदन

Mahabharata

Anushasana Parva, Adhyaya 100, Verse 7

नित्यमग्निं परिचरेदभुक्त्वा बलिकर्म च

कुर्यात्तथैव देवा वै प्रीयन्ते मधुसूदन

Mahabharata

Anushasana Parva, Adhyaya 100, Verse 8

कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा

पयोमूलफलैर्वापि पितॄणां प्रीतिमाहरन्

Mahabharata

Anushasana Parva, Adhyaya 100, Verse 9

सिद्धान्नाद्वैश्वदेवं वै कुर्यादग्नौ यथाविधि

अग्नीषोमं वैश्वदेवं धान्वन्तर्यमनन्तरम्

Mahabharata

Anushasana Parva, Adhyaya 100, Verse 10

प्रजानां पतये चैव पृथग्घोमो विधीयते

तथैव चानुपूर्व्येण बलिकर्म प्रयोजयेत्

Mahabharata

Anushasana Parva, Adhyaya 100, Verse 11

दक्षिणायां यमायेह प्रतीच्यां वरुणाय च

सोमाय चाप्युदीच्यां वै वास्तुमध्ये द्विजातये

Mahabharata

Anushasana Parva, Adhyaya 100, Verse 12

धन्वन्तरेः प्रागुदीच्यां प्राच्यां शक्राय माधव

मनोर्वै इति च प्राहुर्बलिं द्वारे गृहस्य वै

मरुद्भ्यो देवताभ्यश्च बलिमन्तर्गृहे हरेत्

Mahabharata

Anushasana Parva, Adhyaya 100, Verse 13

तथैव विश्वेदेवेभ्यो बलिमाकाशतो हरेत्

निशाचरेभ्यो भूतेभ्यो बलिं नक्तं तथा हरेत्

Mahabharata

Anushasana Parva, Adhyaya 100, Verse 14

एवं कृत्वा बलिं सम्यग्दद्याद्भिक्षां द्विजातये

अलाभे ब्राह्मणस्याग्नावग्रमुत्क्षिप्य निक्षिपेत्

Mahabharata

Anushasana Parva, Adhyaya 100, Verse 15

यदा श्राद्धं पितृभ्यश्च दातुमिच्छेत मानवः

तदा पश्चात्प्रकुर्वीत निवृत्ते श्राद्धकर्मणि

Mahabharata

Anushasana Parva, Adhyaya 100, Verse 16

पितॄन्संतर्पयित्वा तु बलिं कुर्याद्विधानतः

वैश्वदेवं ततः कुर्यात्पश्चाद्ब्राह्मणवाचनम्

Mahabharata

Anushasana Parva, Adhyaya 100, Verse 17

ततोऽन्नेनावशेषेण भोजयेदतिथीनपि

अर्चापूर्वं महाराज ततः प्रीणाति मानुषान्

Mahabharata

Anushasana Parva, Adhyaya 100, Verse 18

अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते

Mahabharata

Anushasana Parva, Adhyaya 100, Verse 19

आचार्यस्य पितुश्चैव सख्युराप्तस्य चातिथेः

इदमस्ति गृहे मह्यमिति नित्यं निवेदयेत्

Mahabharata

Anushasana Parva, Adhyaya 100, Verse 20

ते यद्वदेयुस्तत्कुर्यादिति धर्मो विधीयते

गृहस्थः पुरुषः कृष्ण शिष्टाशी च सदा भवेत्

Mahabharata

Anushasana Parva, Adhyaya 100, Verse 21

राजर्त्विजं स्नातकं च गुरुं श्वशुरमेव च

अर्चयेन्मधुपर्केण परिसंवत्सरोषितान्

Mahabharata

Anushasana Parva, Adhyaya 100, Verse 22

श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि

वैश्वदेवं हि नामैतत्सायंप्रातर्विधीयते

Mahabharata

Anushasana Parva, Adhyaya 100, Verse 23

एतांस्तु धर्मान्गार्हस्थान्यः कुर्यादनसूयकः

स इहर्द्धिं परां प्राप्य प्रेत्य नाके महीयते

Mahabharata

Anushasana Parva, Adhyaya 100, Verse 24

इति भूमेर्वचः श्रुत्वा वासुदेवः प्रतापवान्

तथा चकार सततं त्वमप्येवं समाचर

Mahabharata

Anushasana Parva, Adhyaya 100, Verse 25

एवं गृहस्थधर्मं त्वं चेतयानो नराधिप

इहलोके यशः प्राप्य प्रेत्य स्वर्गमवाप्स्यसि