Mahabharata

Anushasana Parva, Adhyaya 99

Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 99, Verse 1

आरामाणां तडागानां यत्फलं कुरुनन्दन

तदहं श्रोतुमिच्छामि त्वत्तोऽद्य भरतर्षभ

Mahabharata

Anushasana Parva, Adhyaya 99, Verse 2

सुप्रदर्शा वनवती चित्रधातुविभूषिता

उपेता सर्वबीजैश्च श्रेष्ठा भूमिरिहोच्यते

Mahabharata

Anushasana Parva, Adhyaya 99, Verse 3

तस्याः क्षेत्रविशेषं च तडागानां निवेशनम्

औदकानि च सर्वाणि प्रवक्ष्याम्यनुपूर्वशः

Mahabharata

Anushasana Parva, Adhyaya 99, Verse 4

तडागानां च वक्ष्यामि कृतानां चापि ये गुणाः

त्रिषु लोकेषु सर्वत्र पूजितो यस्तडागवान्

Mahabharata

Anushasana Parva, Adhyaya 99, Verse 5

अथ वा मित्रसदनं मैत्रं मित्रविवर्धनम्

कीर्तिसंजननं श्रेष्ठं तडागानां निवेशनम्

Mahabharata

Anushasana Parva, Adhyaya 99, Verse 6

धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः

तडागं सुकृतं देशे क्षेत्रमेव महाश्रयम्

Mahabharata

Anushasana Parva, Adhyaya 99, Verse 7

चतुर्विधानां भूतानां तडागमुपलक्षयेत्

तडागानि च सर्वाणि दिशन्ति श्रियमुत्तमाम्

Mahabharata

Anushasana Parva, Adhyaya 99, Verse 8

देवा मनुष्या गन्धर्वाः पितरोरगराक्षसाः

स्थावराणि च भूतानि संश्रयन्ति जलाशयम्

Mahabharata

Anushasana Parva, Adhyaya 99, Verse 9

तस्मात्तांस्ते प्रवक्ष्यामि तडागे ये गुणाः स्मृताः

या च तत्र फलावाप्तिरृषिभिः समुदाहृता

Mahabharata

Anushasana Parva, Adhyaya 99, Verse 10

वर्षमात्रे तडागे तु सलिलं यस्य तिष्ठति

अग्निहोत्रफलं तस्य फलमाहुर्मनीषिणः

Mahabharata

Anushasana Parva, Adhyaya 99, Verse 11

शरत्काले तु सलिलं तडागे यस्य तिष्ठति

गोसहस्रस्य स प्रेत्य लभते फलमुत्तमम्

Mahabharata

Anushasana Parva, Adhyaya 99, Verse 12

हेमन्तकाले सलिलं तडागे यस्य तिष्ठति

स वै बहुसुवर्णस्य यज्ञस्य लभते फलम्

Mahabharata

Anushasana Parva, Adhyaya 99, Verse 13

यस्य वै शैशिरे काले तडागे सलिलं भवेत्

अग्निष्टोमस्य यज्ञस्य फलमाहुर्मनीषिणः

Mahabharata

Anushasana Parva, Adhyaya 99, Verse 14

तडागं सुकृतं यस्य वसन्ते तु महाश्रयम्

अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते

Mahabharata

Anushasana Parva, Adhyaya 99, Verse 15

निदाघकाले पानीयं तडागे यस्य तिष्ठति

वाजपेयसमं तस्य फलं वै मुनयो विदुः

Mahabharata

Anushasana Parva, Adhyaya 99, Verse 16

स कुलं तारयेत्सर्वं यस्य खाते जलाशये

गावः पिबन्ति पानीयं साधवश्च नराः सदा

Mahabharata

Anushasana Parva, Adhyaya 99, Verse 17

तडागे यस्य गावस्तु पिबन्ति तृषिता जलम्

मृगपक्षिमनुष्याश्च सोऽश्वमेधफलं लभेत्

Mahabharata

Anushasana Parva, Adhyaya 99, Verse 18

यत्पिबन्ति जलं तत्र स्नायन्ते विश्रमन्ति च

तडागदस्य तत्सर्वं प्रेत्यानन्त्याय कल्पते

Mahabharata

Anushasana Parva, Adhyaya 99, Verse 19

दुर्लभं सलिलं तात विशेषेण परत्र वै

पानीयस्य प्रदानेन प्रीतिर्भवति शाश्वती

Mahabharata

Anushasana Parva, Adhyaya 99, Verse 20

तिलान्ददत पानीयं दीपान्ददत जाग्रत

ज्ञातिभिः सह मोदध्वमेतत्प्रेतेषु दुर्लभम्

Mahabharata

Anushasana Parva, Adhyaya 99, Verse 21

सर्वदानैर्गुरुतरं सर्वदानैर्विशिष्यते

पानीयं नरशार्दूल तस्माद्दातव्यमेव हि

Mahabharata

Anushasana Parva, Adhyaya 99, Verse 22

एवमेतत्तडागेषु कीर्तितं फलमुत्तमम्

अत ऊर्ध्वं प्रवक्ष्यामि वृक्षाणामपि रोपणे

Mahabharata

Anushasana Parva, Adhyaya 99, Verse 23

स्थावराणां च भूतानां जातयः षट्प्रकीर्तिताः

वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः

Mahabharata

Anushasana Parva, Adhyaya 99, Verse 24

एता जात्यस्तु वृक्षाणां तेषां रोपे गुणास्त्विमे

कीर्तिश्च मानुषे लोके प्रेत्य चैव फलं शुभम्

Mahabharata

Anushasana Parva, Adhyaya 99, Verse 25

लभते नाम लोके च पितृभिश्च महीयते

देवलोकगतस्यापि नाम तस्य न नश्यति

Mahabharata

Anushasana Parva, Adhyaya 99, Verse 26

अतीतानागते चोभे पितृवंशं च भारत

तारयेद्वृक्षरोपी च तस्माद्वृक्षान्प्ररोपयेत्

Mahabharata

Anushasana Parva, Adhyaya 99, Verse 27

तस्य पुत्रा भवन्त्येते पादपा नात्र संशयः

परलोकगतः स्वर्गं लोकांश्चाप्नोति सोऽव्ययान्

Mahabharata

Anushasana Parva, Adhyaya 99, Verse 28

पुष्पैः सुरगणान्वृक्षाः फलैश्चापि तथा पितॄन्

छायया चातिथींस्तात पूजयन्ति महीरुहाः

Mahabharata

Anushasana Parva, Adhyaya 99, Verse 29

किंनरोरगरक्षांसि देवगन्धर्वमानवाः

तथा ऋषिगणाश्चैव संश्रयन्ति महीरुहान्

Mahabharata

Anushasana Parva, Adhyaya 99, Verse 30

पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान्

वृक्षदं पुत्रवद्वृक्षास्तारयन्ति परत्र च