Mahabharata

Anushasana Parva, Adhyaya 98

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 98, Verse 1

एवं तदा प्रयाचन्तं भास्करं मुनिसत्तमः

जमदग्निर्महातेजाः किं कार्यं प्रत्यपद्यत

Mahabharata

Anushasana Parva, Adhyaya 98, Verse 2

तथा प्रयाचमानस्य मुनिरग्निसमप्रभः

जमदग्निः शमं नैव जगाम कुरुनन्दन

Mahabharata

Anushasana Parva, Adhyaya 98, Verse 3

ततः सूर्यो मधुरया वाचा तमिदमब्रवीत्

कृताञ्जलिर्विप्ररूपी प्रणम्येदं विशां पते

Mahabharata

Anushasana Parva, Adhyaya 98, Verse 4

चलं निमित्तं विप्रर्षे सदा सूर्यस्य गच्छतः

कथं चलं वेत्स्यसि त्वं सदा यान्तं दिवाकरम्

Mahabharata

Anushasana Parva, Adhyaya 98, Verse 5

स्थिरं वापि चलं वापि जाने त्वां ज्ञानचक्षुषा

अवश्यं विनयाधानं कार्यमद्य मया तव

Mahabharata

Anushasana Parva, Adhyaya 98, Verse 6

अपराह्णे निमेषार्धं तिष्ठसि त्वं दिवाकर

तत्र वेत्स्यामि सूर्य त्वां न मेऽत्रास्ति विचारणा

Mahabharata

Anushasana Parva, Adhyaya 98, Verse 7

असंशयं मां विप्रर्षे वेत्स्यसे धन्विनां वर

अपकारिणं तु मां विद्धि भगवञ्शरणागतम्

Mahabharata

Anushasana Parva, Adhyaya 98, Verse 8

ततः प्रहस्य भगवाञ्जमदग्निरुवाच तम्

न भीः सूर्य त्वया कार्या प्रणिपातगतो ह्यसि

Mahabharata

Anushasana Parva, Adhyaya 98, Verse 9

ब्राह्मणेष्वार्जवं यच्च स्थैर्यं च धरणीतले

सौम्यतां चैव सोमस्य गाम्भीर्यं वरुणस्य च

Mahabharata

Anushasana Parva, Adhyaya 98, Verse 10

दीप्तिमग्नेः प्रभां मेरोः प्रतापं तपनस्य च

एतान्यतिक्रमेद्यो वै स हन्याच्छरणागतम्

Mahabharata

Anushasana Parva, Adhyaya 98, Verse 11

भवेत्स गुरुतल्पी च ब्रह्महा च तथा भवेत्

सुरापानं च कुर्यात्स यो हन्याच्छरणागतम्

Mahabharata

Anushasana Parva, Adhyaya 98, Verse 12

एतस्य त्वपनीतस्य समाधिं तात चिन्तय

यथा सुखगमः पन्था भवेत्त्वद्रश्मितापितः

Mahabharata

Anushasana Parva, Adhyaya 98, Verse 13

एतावदुक्त्वा स तदा तूष्णीमासीद्भृगूद्वहः

अथ सूर्यो ददौ तस्मै छत्रोपानहमाशु वै

Mahabharata

Anushasana Parva, Adhyaya 98, Verse 14

महर्षे शिरसस्त्राणं छत्रं मद्रश्मिवारणम्

प्रतिगृह्णीष्व पद्भ्यां च त्राणार्थं चर्मपादुके

Mahabharata

Anushasana Parva, Adhyaya 98, Verse 15

अद्यप्रभृति चैवैतल्लोके संप्रचरिष्यति

पुण्यदानेषु सर्वेषु परमक्षय्यमेव च

Mahabharata

Anushasana Parva, Adhyaya 98, Verse 16

उपानच्छत्रमेतद्वै सूर्येणेह प्रवर्तितम्

पुण्यमेतदभिख्यातं त्रिषु लोकेषु भारत

Mahabharata

Anushasana Parva, Adhyaya 98, Verse 17

तस्मात्प्रयच्छ विप्रेभ्यश्छत्रोपानहमुत्तमम्

धर्मस्ते सुमहान्भावी न मेऽत्रास्ति विचारणा

Mahabharata

Anushasana Parva, Adhyaya 98, Verse 18

छत्रं हि भरतश्रेष्ठ यः प्रदद्याद्द्विजातये

शुभ्रं शतशलाकं वै स प्रेत्य सुखमेधते

Mahabharata

Anushasana Parva, Adhyaya 98, Verse 19

स शक्रलोके वसति पूज्यमानो द्विजातिभिः

अप्सरोभिश्च सततं देवैश्च भरतर्षभ

Mahabharata

Anushasana Parva, Adhyaya 98, Verse 20

दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ

स्नातकाय महाबाहो संशिताय द्विजातये

Mahabharata

Anushasana Parva, Adhyaya 98, Verse 21

सोऽपि लोकानवाप्नोति दैवतैरभिपूजितान्

गोलोके स मुदा युक्तो वसति प्रेत्य भारत

Mahabharata

Anushasana Parva, Adhyaya 98, Verse 22

एतत्ते भरतश्रेष्ठ मया कार्त्स्न्येन कीर्तितम्

छत्रोपानहदानस्य फलं भरतसत्तम