Mahabharata

Anushasana Parva, Adhyaya 97

Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 97, Verse 1

यदिदं श्राद्धधर्मेषु दीयते भरतर्षभ

छत्रं चोपानहौ चैव केनैतत्संप्रवर्तितम्

कथं चैतत्समुत्पन्नं किमर्थं च प्रदीयते

Mahabharata

Anushasana Parva, Adhyaya 97, Verse 2

न केवलं श्राद्धधर्मे पुण्यकेष्वपि दीयते

एतद्विस्तरतो राजञ्श्रोतुमिच्छामि तत्त्वतः

Mahabharata

Anushasana Parva, Adhyaya 97, Verse 3

शृणु राजन्नवहितश्छत्रोपानहविस्तरम्

यथैतत्प्रथितं लोके येन चैतत्प्रवर्तितम्

Mahabharata

Anushasana Parva, Adhyaya 97, Verse 4

यथा चाक्षय्यतां प्राप्तं पुण्यतां च यथा गतम्

सर्वमेतदशेषेण प्रवक्ष्यामि जनाधिप

Mahabharata

Anushasana Parva, Adhyaya 97, Verse 5

इतिहासं पुरावृत्तमिमं शृणु नराधिप

जमदग्नेश्च संवादं सूर्यस्य च महात्मनः

Mahabharata

Anushasana Parva, Adhyaya 97, Verse 6

पुरा स भगवान्साक्षाद्धनुषाक्रीडत प्रभो

संधाय संधाय शरांश्चिक्षेप किल भार्गवः

Mahabharata

Anushasana Parva, Adhyaya 97, Verse 7

तान्क्षिप्तान्रेणुका सर्वांस्तस्येषून्दीप्ततेजसः

आनाय्य सा तदा तस्मै प्रादादसकृदच्युत

Mahabharata

Anushasana Parva, Adhyaya 97, Verse 8

अथ तेन स शब्देन ज्यातलस्य शरस्य च

प्रहृष्टः संप्रचिक्षेप सा च प्रत्याजहार तान्

Mahabharata

Anushasana Parva, Adhyaya 97, Verse 9

ततो मध्याह्नमारूढे ज्येष्ठामूले दिवाकरे

स सायकान्द्विजो विद्ध्वा रेणुकामिदमब्रवीत्

Mahabharata

Anushasana Parva, Adhyaya 97, Verse 10

गच्छानय विशालाक्षि शरानेतान्धनुश्च्युतान्

यावदेतान्पुनः सुभ्रु क्षिपामीति जनाधिप

Mahabharata

Anushasana Parva, Adhyaya 97, Verse 11

सा गच्छत्यन्तरा छायां वृक्षमाश्रित्य भामिनी

तस्थौ तस्या हि संतप्तं शिरः पादौ तथैव च

Mahabharata

Anushasana Parva, Adhyaya 97, Verse 12

स्थिता सा तु मुहूर्तं वै भर्तुः शापभयाच्छुभा

ययावानयितुं भूयः सायकानसितेक्षणा

प्रत्याजगाम च शरांस्तानादाय यशस्विनी

Mahabharata

Anushasana Parva, Adhyaya 97, Verse 13

सा प्रस्विन्ना सुचार्वङ्गी पद्भ्यां दुःखं नियच्छती

उपाजगाम भर्तारं भयाद्भर्तुः प्रवेपती

Mahabharata

Anushasana Parva, Adhyaya 97, Verse 14

स तामृषिस्ततः क्रुद्धो वाक्यमाह शुभाननाम्

रेणुके किं चिरेण त्वमागतेति पुनः पुनः

Mahabharata

Anushasana Parva, Adhyaya 97, Verse 15

शिरस्तावत्प्रदीप्तं मे पादौ चैव तपोधन

सूर्यतेजोनिरुद्धाहं वृक्षच्छायामुपाश्रिता

Mahabharata

Anushasana Parva, Adhyaya 97, Verse 16

एतस्मात्कारणाद्ब्रह्मंश्चिरमेतत्कृतं मया

एतज्ज्ञात्वा मम विभो मा क्रुधस्त्वं तपोधन

Mahabharata

Anushasana Parva, Adhyaya 97, Verse 17

अद्यैनं दीप्तकिरणं रेणुके तव दुःखदम्

शरैर्निपातयिष्यामि सूर्यमस्त्राग्नितेजसा

Mahabharata

Anushasana Parva, Adhyaya 97, Verse 18

स विस्फार्य धनुर्दिव्यं गृहीत्वा च बहूञ्शरान्

अतिष्ठत्सूर्यमभितो यतो याति ततोमुखः

Mahabharata

Anushasana Parva, Adhyaya 97, Verse 19

अथ तं प्रहरिष्यन्तं सूर्योऽभ्येत्य वचोऽब्रवीत्

द्विजरूपेण कौन्तेय किं ते सूर्योऽपराध्यते

Mahabharata

Anushasana Parva, Adhyaya 97, Verse 20

आदत्ते रश्मिभिः सूर्यो दिवि विद्वंस्ततस्ततः

रसं स तं वै वर्षासु प्रवर्षति दिवाकरः

Mahabharata

Anushasana Parva, Adhyaya 97, Verse 21

ततोऽन्नं जायते विप्र मनुष्याणां सुखावहम्

अन्नं प्राणा इति यथा वेदेषु परिपठ्यते

Mahabharata

Anushasana Parva, Adhyaya 97, Verse 22

अथाभ्रेषु निगूढश्च रश्मिभिः परिवारितः

सप्त द्वीपानिमान्ब्रह्मन्वर्षेणाभिप्रवर्षति

Mahabharata

Anushasana Parva, Adhyaya 97, Verse 23

ततस्तदौषधीनां च वीरुधां पत्रपुष्पजम्

सर्वं वर्षाभिनिर्वृत्तमन्नं संभवति प्रभो

Mahabharata

Anushasana Parva, Adhyaya 97, Verse 24

जातकर्माणि सर्वाणि व्रतोपनयनानि च

गोदानानि विवाहाश्च तथा यज्ञसमृद्धयः

Mahabharata

Anushasana Parva, Adhyaya 97, Verse 25

सत्राणि दानानि तथा संयोगा वित्तसंचयाः

अन्नतः संप्रवर्तन्ते यथा त्वं वेत्थ भार्गव

Mahabharata

Anushasana Parva, Adhyaya 97, Verse 26

रमणीयानि यावन्ति यावदारम्भकाणि च

सर्वमन्नात्प्रभवति विदितं कीर्तयामि ते

Mahabharata

Anushasana Parva, Adhyaya 97, Verse 27

सर्वं हि वेत्थ विप्र त्वं यदेतत्कीर्तितं मया

प्रसादये त्वा विप्रर्षे किं ते सूर्यो निपात्यते