Anushasana Parva, Adhyaya 93, Verse 1
द्विजातयो व्रतोपेता हविस्ते यदि भुञ्जते
अन्नं ब्राह्मणकामाय कथमेतत्पितामह
Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.
द्विजातयो व्रतोपेता हविस्ते यदि भुञ्जते
अन्नं ब्राह्मणकामाय कथमेतत्पितामह
अवेदोक्तव्रताश्चैव भुञ्जानाः कार्यकारिणः
वेदोक्तेषु तु भुञ्जाना व्रतलुप्ता युधिष्ठिर
यदिदं तप इत्याहुरुपवासं पृथग्जनाः
तपः स्यादेतदिह वै तपोऽन्यद्वापि किं भवेत्
मासार्धमासौ नोपवसेद्यत्तपो मन्यते जनः
आत्मतन्त्रोपघाती यो न तपस्वी न धर्मवित्
त्यागस्यापि च संपत्तिः शिष्यते तप उत्तमम्
सदोपवासी च भवेद्ब्रह्मचारी तथैव च
मुनिश्च स्यात्सदा विप्रो देवांश्चैव सदा यजेत्
कुटुम्बिको धर्मकामः सदास्वप्नश्च भारत
अमृताशी सदा च स्यात्पवित्री च सदा भवेत्
ऋतवादी सदा च स्यान्नियतश्च सदा भवेत्
विघसाशी सदा च स्यात्सदा चैवातिथिप्रियः
अमांसाशी सदा च स्यात्पवित्री च सदा भवेत्
कथं सदोपवासी स्याद्ब्रह्मचारी च पार्थिव
विघसाशी कथं च स्यात्कथं चैवातिथिप्रियः
अन्तरा सायमाशं च प्रातराशं तथैव च
सदोपवासी भवति यो न भुङ्क्तेऽन्तरा पुनः
भार्यां गच्छन्ब्रह्मचारी सदा भवति चैव ह
ऋतवादी सदा च स्याद्दानशीलश्च मानवः
अभक्षयन्वृथा मांसममांसाशी भवत्युत
दानं ददत्पवित्री स्यादस्वप्नश्च दिवास्वपन्
भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु नरः सदा
अमृतं केवलं भुङ्क्ते इति विद्धि युधिष्ठिर
अभुक्तवत्सु नाश्नाति ब्राह्मणेषु तु यो नरः
अभोजनेन तेनास्य जितः स्वर्गो भवत्युत
देवेभ्यश्च पितृभ्यश्च भृत्येभ्योऽतिथिभिः सह
अवशिष्टानि यो भुङ्क्ते तमाहुर्विघसाशिनम्
तेषां लोका ह्यपर्यन्ताः सदने ब्रह्मणः स्मृताः
उपस्थिता ह्यप्सरोभिर्गन्धर्वैश्च जनाधिप
देवतातिथिभिः सार्धं पितृभिश्चोपभुञ्जते
रमन्ते पुत्रपौत्रैश्च तेषां गतिरनुत्तमा