Mahabharata

Anushasana Parva, Adhyaya 92

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 92, Verse 1

तथा विधौ प्रवृत्ते तु सर्व एव महर्षयः

पितृयज्ञानकुर्वन्त विधिदृष्टेन कर्मणा

Mahabharata

Anushasana Parva, Adhyaya 92, Verse 2

ऋषयो धर्मनित्यास्तु कृत्वा निवपनान्युत

तर्पणं चाप्यकुर्वन्त तीर्थाम्भोभिर्यतव्रताः

Mahabharata

Anushasana Parva, Adhyaya 92, Verse 3

निवापैर्दीयमानैश्च चातुर्वर्ण्येन भारत

तर्पिताः पितरो देवास्ते नान्नं जरयन्ति वै

Mahabharata

Anushasana Parva, Adhyaya 92, Verse 4

अजीर्णेनाभिहन्यन्ते ते देवाः पितृभिः सह

सोममेवाभ्यपद्यन्त निवापान्नाभिपीडिताः

Mahabharata

Anushasana Parva, Adhyaya 92, Verse 5

तेऽब्रुवन्सोममासाद्य पितरोऽजीर्णपीडिताः

निवापान्नेन पीड्यामः श्रेयो नोऽत्र विधीयताम्

Mahabharata

Anushasana Parva, Adhyaya 92, Verse 6

तान्सोमः प्रत्युवाचाथ श्रेयश्चेदीप्सितं सुराः

स्वयंभूसदनं यात स वः श्रेयो विधास्यति

Mahabharata

Anushasana Parva, Adhyaya 92, Verse 7

ते सोमवचनाद्देवाः पितृभिः सह भारत

मेरुशृङ्गे समासीनं पितामहमुपागमन्

Mahabharata

Anushasana Parva, Adhyaya 92, Verse 8

निवापान्नेन भगवन्भृशं पीड्यामहे वयम्

प्रसादं कुरु नो देव श्रेयो नः संविधीयताम्

Mahabharata

Anushasana Parva, Adhyaya 92, Verse 9

इति तेषां वचः श्रुत्वा स्वयंभूरिदमब्रवीत्

एष मे पार्श्वतो वह्निर्युष्मच्छ्रेयो विधास्यति

Mahabharata

Anushasana Parva, Adhyaya 92, Verse 10

सहितास्तात भोक्ष्यामो निवापे समुपस्थिते

जरयिष्यथ चाप्यन्नं मया सार्धं न संशयः

Mahabharata

Anushasana Parva, Adhyaya 92, Verse 11

एतच्छ्रुत्वा तु पितरस्ततस्ते विज्वराभवन्

एतस्मात्कारणाच्चाग्नेः प्राक्तनं दीयते नृप

Mahabharata

Anushasana Parva, Adhyaya 92, Verse 12

निवप्ते चाग्निपूर्वे वै निवापे पुरुषर्षभ

न ब्रह्मराक्षसास्तं वै निवापं धर्षयन्त्युत

रक्षांसि चापवर्तन्ते स्थिते देवे विभावसौ

Mahabharata

Anushasana Parva, Adhyaya 92, Verse 13

पूर्वं पिण्डं पितुर्दद्यात्ततो दद्यात्पितामहे

प्रपितामहाय च तत एष श्राद्धविधिः स्मृतः

Mahabharata

Anushasana Parva, Adhyaya 92, Verse 14

ब्रूयाच्छ्राद्धे च सावित्रीं पिण्डे पिण्डे समाहितः

सोमायेति च वक्तव्यं तथा पितृमतेति च

Mahabharata

Anushasana Parva, Adhyaya 92, Verse 15

रजस्वला च या नारी व्यङ्गिता कर्णयोश्च या

निवापे नोपतिष्ठेत संग्राह्या नान्यवंशजाः

Mahabharata

Anushasana Parva, Adhyaya 92, Verse 16

जलं प्रतरमाणश्च कीर्तयेत पितामहान्

नदीमासाद्य कुर्वीत पितॄणां पिण्डतर्पणम्

Mahabharata

Anushasana Parva, Adhyaya 92, Verse 17

पूर्वं स्ववंशजानां तु कृत्वाद्भिस्तर्पणं पुनः

सुहृत्संबन्धिवर्गाणां ततो दद्याज्जलाञ्जलिम्

Mahabharata

Anushasana Parva, Adhyaya 92, Verse 18

कल्माषगोयुगेनाथ युक्तेन तरतो जलम्

पितरोऽभिलषन्ते वै नावं चाप्यधिरोहतः

सदा नावि जलं तज्ज्ञाः प्रयच्छन्ति समाहिताः

Mahabharata

Anushasana Parva, Adhyaya 92, Verse 19

मासार्धे कृष्णपक्षस्य कुर्यान्निवपनानि वै

पुष्टिरायुस्तथा वीर्यं श्रीश्चैव पितृवर्तिनः

Mahabharata

Anushasana Parva, Adhyaya 92, Verse 20

पितामहः पुलस्त्यश्च वसिष्ठः पुलहस्तथा

अङ्गिराश्च क्रतुश्चैव कश्यपश्च महानृषिः

एते कुरुकुलश्रेष्ठ महायोगेश्वराः स्मृताः

Mahabharata

Anushasana Parva, Adhyaya 92, Verse 21

एते च पितरो राजन्नेष श्राद्धविधिः परः

प्रेतास्तु पिण्डसंबन्धान्मुच्यन्ते तेन कर्मणा

Mahabharata

Anushasana Parva, Adhyaya 92, Verse 22

इत्येषा पुरुषश्रेष्ठ श्राद्धोत्पत्तिर्यथागमम्

ख्यापिता पूर्वनिर्दिष्टा दानं वक्ष्याम्यतः परम्