Mahabharata

Anushasana Parva, Adhyaya 88

Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 88, Verse 1

किं स्विद्दत्तं पितृभ्यो वै भवत्यक्षयमीश्वर

किं हविश्चिररात्राय किमानन्त्याय कल्पते

Mahabharata

Anushasana Parva, Adhyaya 88, Verse 2

हवींषि श्राद्धकल्पे तु यानि श्राद्धविदो विदुः

तानि मे शृणु काम्यानि फलं चैषां युधिष्ठिर

Mahabharata

Anushasana Parva, Adhyaya 88, Verse 3

तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलैस्तथा

दत्तेन मासं प्रीयन्ते श्राद्धेन पितरो नृप

Mahabharata

Anushasana Parva, Adhyaya 88, Verse 4

वर्धमानतिलं श्राद्धमक्षयं मनुरब्रवीत्

सर्वेष्वेव तु भोज्येषु तिलाः प्राधान्यतः स्मृताः

Mahabharata

Anushasana Parva, Adhyaya 88, Verse 5

द्वौ मासौ तु भवेत्तृप्तिर्मत्स्यैः पितृगणस्य ह

त्रीन्मासानाविकेनाहुश्चातुर्मास्यं शशेन तु

Mahabharata

Anushasana Parva, Adhyaya 88, Verse 6

आजेन मासान्प्रीयन्ते पञ्चैव पितरो नृप

वाराहेण तु षण्मासान्सप्त वै शाकुनेन तु

Mahabharata

Anushasana Parva, Adhyaya 88, Verse 7

मासानष्टौ पार्षतेन रौरवेण नवैव तु

गवयस्य तु मांसेन तृप्तिः स्याद्दशमासिकी

Mahabharata

Anushasana Parva, Adhyaya 88, Verse 8

मासानेकादश प्रीतिः पितॄणां माहिषेण तु

गव्येन दत्ते श्राद्धे तु संवत्सरमिहोच्यते

Mahabharata

Anushasana Parva, Adhyaya 88, Verse 9

यथा गव्यं तथा युक्तं पायसं सर्पिषा सह

वाध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी

Mahabharata

Anushasana Parva, Adhyaya 88, Verse 10

आनन्त्याय भवेद्दत्तं खड्गमांसं पितृक्षये

कालशाकं च लौहं चाप्यानन्त्यं छाग उच्यते

Mahabharata

Anushasana Parva, Adhyaya 88, Verse 11

गाथाश्चाप्यत्र गायन्ति पितृगीता युधिष्ठिर

सनत्कुमारो भगवान्पुरा मय्यभ्यभाषत

Mahabharata

Anushasana Parva, Adhyaya 88, Verse 12

अपि नः स कुले जायाद्यो नो दद्यात्त्रयोदशीम्

मघासु सर्पिषा युक्तं पायसं दक्षिणायने

Mahabharata

Anushasana Parva, Adhyaya 88, Verse 13

आजेन वापि लौहेन मघास्वेव यतव्रतः

हस्तिच्छायासु विधिवत्कर्णव्यजनवीजितम्

Mahabharata

Anushasana Parva, Adhyaya 88, Verse 14

एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्

यत्रासौ प्रथितो लोकेष्वक्षय्यकरणो वटः

Mahabharata

Anushasana Parva, Adhyaya 88, Verse 15

आपो मूलं फलं मांसमन्नं वापि पितृक्षये

यत्किंचिन्मधुसंमिश्रं तदानन्त्याय कल्पते