Mahabharata

Anushasana Parva, Adhyaya 83

Containing 57 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 83, Verse 1

उक्तं पितामहेनेदं गवां दानमनुत्तमम्

विशेषेण नरेन्द्राणामिति धर्ममवेक्षताम्

Mahabharata

Anushasana Parva, Adhyaya 83, Verse 2

राज्यं हि सततं दुःखमाश्रमाश्च सुदुर्विदाः

परिवारेण वै दुःखं दुर्धरं चाकृतात्मभिः

भूयिष्ठं च नरेन्द्राणां विद्यते न शुभा गतिः

Mahabharata

Anushasana Parva, Adhyaya 83, Verse 3

पूयन्ते तेऽत्र नियतं प्रयच्छन्तो वसुंधराम्

पूर्वं च कथिता धर्मास्त्वया मे कुरुनन्दन

Mahabharata

Anushasana Parva, Adhyaya 83, Verse 4

एवमेव गवामुक्तं प्रदानं ते नृगेण ह

ऋषिणा नाचिकेतेन पूर्वमेव निदर्शितम्

Mahabharata

Anushasana Parva, Adhyaya 83, Verse 5

वेदोपनिषदे चैव सर्वकर्मसु दक्षिणा

सर्वक्रतुषु चोद्दिष्टं भूमिर्गावोऽथ काञ्चनम्

Mahabharata

Anushasana Parva, Adhyaya 83, Verse 6

तत्र श्रुतिस्तु परमा सुवर्णं दक्षिणेति वै

एतदिच्छाम्यहं श्रोतुं पितामह यथातथम्

Mahabharata

Anushasana Parva, Adhyaya 83, Verse 7

किं सुवर्णं कथं जातं कस्मिन्काले किमात्मकम्

किं दानं किं फलं चैव कस्माच्च परमुच्यते

Mahabharata

Anushasana Parva, Adhyaya 83, Verse 8

कस्माद्दानं सुवर्णस्य पूजयन्ति मनीषिणः

कस्माच्च दक्षिणार्थं तद्यज्ञकर्मसु शस्यते

Mahabharata

Anushasana Parva, Adhyaya 83, Verse 9

कस्माच्च पावनं श्रेष्ठं भूमेर्गोभ्यश्च काञ्चनम्

परमं दक्षिणार्थे च तद्ब्रवीहि पितामह

Mahabharata

Anushasana Parva, Adhyaya 83, Verse 10

शृणु राजन्नवहितो बहुकारणविस्तरम्

जातरूपसमुत्पत्तिमनुभूतं च यन्मया

Mahabharata

Anushasana Parva, Adhyaya 83, Verse 11

पिता मम महातेजाः शंतनुर्निधनं गतः

तस्य दित्सुरहं श्राद्धं गङ्गाद्वारमुपागमम्

Mahabharata

Anushasana Parva, Adhyaya 83, Verse 12

तत्रागम्य पितुः पुत्र श्राद्धकर्म समारभम्

माता मे जाह्नवी चैव साहाय्यमकरोत्तदा

Mahabharata

Anushasana Parva, Adhyaya 83, Verse 13

ततोऽग्रतस्तपःसिद्धानुपवेश्य बहूनृषीन्

तोयप्रदानात्प्रभृति कार्याण्यहमथारभम्

Mahabharata

Anushasana Parva, Adhyaya 83, Verse 14

तत्समाप्य यथोद्दिष्टं पूर्वकर्म समाहितः

दातुं निर्वपणं सम्यग्यथावदहमारभम्

Mahabharata

Anushasana Parva, Adhyaya 83, Verse 15

ततस्तं दर्भविन्यासं भित्त्वा सुरुचिराङ्गदः

प्रलम्बाभरणो बाहुरुदतिष्ठद्विशां पते

Mahabharata

Anushasana Parva, Adhyaya 83, Verse 16

तमुत्थितमहं दृष्ट्वा परं विस्मयमागमम्

प्रतिग्रहीता साक्षान्मे पितेति भरतर्षभ

Mahabharata

Anushasana Parva, Adhyaya 83, Verse 17

ततो मे पुनरेवासीत्संज्ञा संचिन्त्य शास्त्रतः

नायं वेदेषु विहितो विधिर्हस्त इति प्रभो

पिण्डो देयो नरेणेह ततो मतिरभून्मम

Mahabharata

Anushasana Parva, Adhyaya 83, Verse 18

साक्षान्नेह मनुष्यस्य पितरोऽन्तर्हिताः क्वचित्

गृह्णन्ति विहितं त्वेवं पिण्डो देयः कुशेष्विति

Mahabharata

Anushasana Parva, Adhyaya 83, Verse 19

ततोऽहं तदनादृत्य पितुर्हस्तनिदर्शनम्

शास्त्रप्रमाणात्सूक्ष्मं तु विधिं पार्थिव संस्मरन्

Mahabharata

Anushasana Parva, Adhyaya 83, Verse 20

ततो दर्भेषु तत्सर्वमददं भरतर्षभ

शास्त्रमार्गानुसारेण तद्विद्धि मनुजर्षभ

Mahabharata

Anushasana Parva, Adhyaya 83, Verse 21

ततः सोऽन्तर्हितो बाहुः पितुर्मम नराधिप

ततो मां दर्शयामासुः स्वप्नान्ते पितरस्तदा

Mahabharata

Anushasana Parva, Adhyaya 83, Verse 22

प्रीयमाणास्तु मामूचुः प्रीताः स्म भरतर्षभ

विज्ञानेन तवानेन यन्न मुह्यसि धर्मतः

Mahabharata

Anushasana Parva, Adhyaya 83, Verse 23

त्वया हि कुर्वता शास्त्रं प्रमाणमिह पार्थिव

आत्मा धर्मः श्रुतं वेदाः पितरश्च महर्षिभिः

Mahabharata

Anushasana Parva, Adhyaya 83, Verse 24

साक्षात्पितामहो ब्रह्मा गुरवोऽथ प्रजापतिः

प्रमाणमुपनीता वै स्थितिश्च न विचालिता

Mahabharata

Anushasana Parva, Adhyaya 83, Verse 25

तदिदं सम्यगारब्धं त्वयाद्य भरतर्षभ

किं तु भूमेर्गवां चार्थे सुवर्णं दीयतामिति

Mahabharata

Anushasana Parva, Adhyaya 83, Verse 26

एवं वयं च धर्मश्च सर्वे चास्मत्पितामहाः

पाविता वै भविष्यन्ति पावनं परमं हि तत्

Mahabharata

Anushasana Parva, Adhyaya 83, Verse 27

दश पूर्वान्दश परांस्तथा संतारयन्ति ते

सुवर्णं ये प्रयच्छन्ति एवं मे पितरोऽब्रुवन्

Mahabharata

Anushasana Parva, Adhyaya 83, Verse 28

ततोऽहं विस्मितो राजन्प्रतिबुद्धो विशां पते

सुवर्णदानेऽकरवं मतिं भरतसत्तम

Mahabharata

Anushasana Parva, Adhyaya 83, Verse 29

इतिहासमिमं चापि शृणु राजन्पुरातनम्

जामदग्न्यं प्रति विभो धन्यमायुष्यमेव च

Mahabharata

Anushasana Parva, Adhyaya 83, Verse 30

जामदग्न्येन रामेण तीव्ररोषान्वितेन वै

त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा