Mahabharata

Anushasana Parva, Adhyaya 82

Containing 47 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 82, Verse 1

ये च गाः संप्रयच्छन्ति हुतशिष्टाशिनश्च ये

तेषां सत्राणि यज्ञाश्च नित्यमेव युधिष्ठिर

Mahabharata

Anushasana Parva, Adhyaya 82, Verse 2

ऋते दधिघृतेनेह न यज्ञः संप्रवर्तते

तेन यज्ञस्य यज्ञत्वमतोमूलं च लक्ष्यते

Mahabharata

Anushasana Parva, Adhyaya 82, Verse 3

दानानामपि सर्वेषां गवां दानं प्रशस्यते

गावः श्रेष्ठाः पवित्राश्च पावनं ह्येतदुत्तमम्

Mahabharata

Anushasana Parva, Adhyaya 82, Verse 4

पुष्ट्यर्थमेताः सेवेत शान्त्यर्थमपि चैव ह

पयो दधि घृतं यासां सर्वपापप्रमोचनम्

Mahabharata

Anushasana Parva, Adhyaya 82, Verse 5

गावस्तेजः परं प्रोक्तमिह लोके परत्र च

न गोभ्यः परमं किंचित्पवित्रं पुरुषर्षभ

Mahabharata

Anushasana Parva, Adhyaya 82, Verse 6

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

पितामहस्य संवादमिन्द्रस्य च युधिष्ठिर

Mahabharata

Anushasana Parva, Adhyaya 82, Verse 7

पराभूतेषु दैत्येषु शक्रे त्रिभुवनेश्वरे

प्रजाः समुदिताः सर्वाः सत्यधर्मपरायणाः

Mahabharata

Anushasana Parva, Adhyaya 82, Verse 8

अथर्षयः सगन्धर्वाः किंनरोरगराक्षसाः

देवासुरसुपर्णाश्च प्रजानां पतयस्तथा

पर्युपासन्त कौरव्य कदाचिद्वै पितामहम्

Mahabharata

Anushasana Parva, Adhyaya 82, Verse 9

नारदः पर्वतश्चैव विश्वावसुहहाहुहू

दिव्यतानेषु गायन्तः पर्युपासन्त तं प्रभुम्

Mahabharata

Anushasana Parva, Adhyaya 82, Verse 10

तत्र दिव्यानि पुष्पाणि प्रावहत्पवनस्तथा

आजह्रुरृतवश्चापि सुगन्धीनि पृथक्पृथक्

Mahabharata

Anushasana Parva, Adhyaya 82, Verse 11

तस्मिन्देवसमावाये सर्वभूतसमागमे

दिव्यवादित्रसंघुष्टे दिव्यस्त्रीचारणावृते

इन्द्रः पप्रच्छ देवेशमभिवाद्य प्रणम्य च

Mahabharata

Anushasana Parva, Adhyaya 82, Verse 12

देवानां भगवन्कस्माल्लोकेशानां पितामह

उपरिष्टाद्गवां लोक एतदिच्छामि वेदितुम्

Mahabharata

Anushasana Parva, Adhyaya 82, Verse 13

किं तपो ब्रह्मचर्यं वा गोभिः कृतमिहेश्वर

देवानामुपरिष्टाद्यद्वसन्त्यरजसः सुखम्

Mahabharata

Anushasana Parva, Adhyaya 82, Verse 14

ततः प्रोवाच तं ब्रह्मा शक्रं बलनिसूदनम्

अवज्ञातास्त्वया नित्यं गावो बलनिसूदन

Mahabharata

Anushasana Parva, Adhyaya 82, Verse 15

तेन त्वमासां माहात्म्यं न वेत्थ शृणु तत्प्रभो

गवां प्रभावं परमं माहात्म्यं च सुरर्षभ

Mahabharata

Anushasana Parva, Adhyaya 82, Verse 16

यज्ञाङ्गं कथिता गावो यज्ञ एव च वासव

एताभिश्चाप्यृते यज्ञो न प्रवर्तेत्कथंचन

Mahabharata

Anushasana Parva, Adhyaya 82, Verse 17

धारयन्ति प्रजाश्चैव पयसा हविषा तथा

एतासां तनयाश्चापि कृषियोगमुपासते

Mahabharata

Anushasana Parva, Adhyaya 82, Verse 18

जनयन्ति च धान्यानि बीजानि विविधानि च

ततो यज्ञाः प्रवर्तन्ते हव्यं कव्यं च सर्वशः

Mahabharata

Anushasana Parva, Adhyaya 82, Verse 19

पयो दधि घृतं चैव पुण्याश्चैताः सुराधिप

वहन्ति विविधान्भारान्क्षुत्तृष्णापरिपीडिताः

Mahabharata

Anushasana Parva, Adhyaya 82, Verse 20

मुनींश्च धारयन्तीह प्रजाश्चैवापि कर्मणा

वासवाकूटवाहिन्यः कर्मणा सुकृतेन च

उपरिष्टात्ततोऽस्माकं वसन्त्येताः सदैव हि

Mahabharata

Anushasana Parva, Adhyaya 82, Verse 21

एतत्ते कारणं शक्र निवासकृतमद्य वै

गवां देवोपरिष्टाद्धि समाख्यातं शतक्रतो

Mahabharata

Anushasana Parva, Adhyaya 82, Verse 22

एता हि वरदत्ताश्च वरदाश्चैव वासव

सौरभ्यः पुण्यकर्मिण्यः पावनाः शुभलक्षणाः

Mahabharata

Anushasana Parva, Adhyaya 82, Verse 23

यदर्थं गा गताश्चैव सौरभ्यः सुरसत्तम

तच्च मे शृणु कार्त्स्न्येन वदतो बलसूदन

Mahabharata

Anushasana Parva, Adhyaya 82, Verse 24

पुरा देवयुगे तात दैत्येन्द्रेषु महात्मसु

त्रीँल्लोकाननुशासत्सु विष्णौ गर्भत्वमागते

Mahabharata

Anushasana Parva, Adhyaya 82, Verse 25

अदित्यास्तप्यमानायास्तपो घोरं सुदुश्चरम्

पुत्रार्थममरश्रेष्ठ पादेनैकेन नित्यदा

Mahabharata

Anushasana Parva, Adhyaya 82, Verse 26

तां तु दृष्ट्वा महादेवीं तप्यमानां महत्तपः

दक्षस्य दुहिता देवी सुरभिर्नाम नामतः

Mahabharata

Anushasana Parva, Adhyaya 82, Verse 27

अतप्यत तपो घोरं हृष्टा धर्मपरायणा

कैलासशिखरे रम्ये देवगन्धर्वसेविते

Mahabharata

Anushasana Parva, Adhyaya 82, Verse 28

व्यतिष्ठदेकपादेन परमं योगमास्थिता

दश वर्षसहस्राणि दश वर्षशतानि च

Mahabharata

Anushasana Parva, Adhyaya 82, Verse 29

संतप्तास्तपसा तस्या देवाः सर्षिमहोरगाः

तत्र गत्वा मया सार्धं पर्युपासन्त तां शुभाम्

Mahabharata

Anushasana Parva, Adhyaya 82, Verse 30

अथाहमब्रुवं तत्र देवीं तां तपसान्विताम्

किमर्थं तप्यते देवि तपो घोरमनिन्दिते