Mahabharata

Anushasana Parva, Adhyaya 81

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 81, Verse 1

मया गवां पुरीषं वै श्रिया जुष्टमिति श्रुतम्

एतदिच्छाम्यहं श्रोतुं संशयोऽत्र हि मे महान्

Mahabharata

Anushasana Parva, Adhyaya 81, Verse 2

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

गोभिर्नृपेह संवादं श्रिया भरतसत्तम

Mahabharata

Anushasana Parva, Adhyaya 81, Verse 3

श्रीः कृत्वेह वपुः कान्तं गोमध्यं प्रविवेश ह

गावोऽथ विस्मितास्तस्या दृष्ट्वा रूपस्य संपदम्

Mahabharata

Anushasana Parva, Adhyaya 81, Verse 4

कासि देवि कुतो वा त्वं रूपेणाप्रतिमा भुवि

विस्मिताः स्म महाभागे तव रूपस्य संपदा

Mahabharata

Anushasana Parva, Adhyaya 81, Verse 5

इच्छामस्त्वां वयं ज्ञातुं का त्वं क्व च गमिष्यसि

तत्त्वेन च सुवर्णाभे सर्वमेतद्ब्रवीहि नः

Mahabharata

Anushasana Parva, Adhyaya 81, Verse 6

लोककान्तास्मि भद्रं वः श्रीर्नाम्नेह परिश्रुता

मया दैत्याः परित्यक्ता विनष्टाः शाश्वतीः समाः

Mahabharata

Anushasana Parva, Adhyaya 81, Verse 7

इन्द्रो विवस्वान्सोमश्च विष्णुरापोऽग्निरेव च

मयाभिपन्ना ऋध्यन्ते ऋषयो देवतास्तथा

Mahabharata

Anushasana Parva, Adhyaya 81, Verse 8

यांश्च द्विषाम्यहं गावस्ते विनश्यन्ति सर्वशः

धर्मार्थकामहीनाश्च ते भवन्त्यसुखान्विताः

Mahabharata

Anushasana Parva, Adhyaya 81, Verse 9

एवंप्रभावां मां गावो विजानीत सुखप्रदाम्

इच्छामि चापि युष्मासु वस्तुं सर्वासु नित्यदा

आगता प्रार्थयानाहं श्रीजुष्टा भवतानघाः

Mahabharata

Anushasana Parva, Adhyaya 81, Verse 10

अध्रुवां चञ्चलां च त्वां सामान्यां बहुभिः सह

न त्वामिच्छामि भद्रं ते गम्यतां यत्र रोचते

Mahabharata

Anushasana Parva, Adhyaya 81, Verse 11

वपुष्मन्त्यो वयं सर्वाः किमस्माकं त्वयाद्य वै

यत्रेष्टं गम्यतां तत्र कृतकार्या वयं त्वया

Mahabharata

Anushasana Parva, Adhyaya 81, Verse 12

किमेतद्वः क्षमं गावो यन्मां नेहाभ्यनन्दथ

न मां संप्रति गृह्णीथ कस्माद्वै दुर्लभां सतीम्

Mahabharata

Anushasana Parva, Adhyaya 81, Verse 13

सत्यश्च लोकवादोऽयं लोके चरति सुव्रताः

स्वयं प्राप्ते परिभवो भवतीति विनिश्चयः

Mahabharata

Anushasana Parva, Adhyaya 81, Verse 14

महदुग्रं तपः कृत्वा मां निषेवन्ति मानवाः

देवदानवगन्धर्वाः पिशाचोरगराक्षसाः

Mahabharata

Anushasana Parva, Adhyaya 81, Verse 15

क्षममेतद्धि वो गावः प्रतिगृह्णीत मामिह

नावमन्या ह्यहं सौम्यास्त्रैलोक्ये सचराचरे

Mahabharata

Anushasana Parva, Adhyaya 81, Verse 16

नावमन्यामहे देवि न त्वां परिभवामहे

अध्रुवा चलचित्तासि ततस्त्वां वर्जयामहे

Mahabharata

Anushasana Parva, Adhyaya 81, Verse 17

बहुनात्र किमुक्तेन गम्यतां यत्र वाञ्छसि

वपुष्मत्यो वयं सर्वाः किमस्माकं त्वयानघे

Mahabharata

Anushasana Parva, Adhyaya 81, Verse 18

अवज्ञाता भविष्यामि सर्वलोकेषु मानदाः

प्रत्याख्यानेन युष्माभिः प्रसादः क्रियतामिति

Mahabharata

Anushasana Parva, Adhyaya 81, Verse 19

महाभागा भवत्यो वै शरण्याः शरणागताम्

परित्रायन्तु मां नित्यं भजमानामनिन्दिताम्

माननां त्वहमिच्छामि भवत्यः सततं शुभाः

Mahabharata

Anushasana Parva, Adhyaya 81, Verse 20

अप्येकाङ्गे तु वो वस्तुमिच्छामि च सुकुत्सिते

न वोऽस्ति कुत्सितं किंचिदङ्गेष्वालक्ष्यतेऽनघाः

Mahabharata

Anushasana Parva, Adhyaya 81, Verse 21

पुण्याः पवित्राः सुभगा ममादेशं प्रयच्छत

वसेयं यत्र चाङ्गेऽहं तन्मे व्याख्यातुमर्हथ

Mahabharata

Anushasana Parva, Adhyaya 81, Verse 22

एवमुक्तास्तु ता गावः शुभाः करुणवत्सलाः

संमन्त्र्य सहिताः सर्वाः श्रियमूचुर्नराधिप

Mahabharata

Anushasana Parva, Adhyaya 81, Verse 23

अवश्यं मानना कार्या तवास्माभिर्यशस्विनि

शकृन्मूत्रे निवस नः पुण्यमेतद्धि नः शुभे

Mahabharata

Anushasana Parva, Adhyaya 81, Verse 24

दिष्ट्या प्रसादो युष्माभिः कृतो मेऽनुग्रहात्मकः

एवं भवतु भद्रं वः पूजितास्मि सुखप्रदाः

Mahabharata

Anushasana Parva, Adhyaya 81, Verse 25

एवं कृत्वा तु समयं श्रीर्गोभिः सह भारत

पश्यन्तीनां ततस्तासां तत्रैवान्तरधीयत

Mahabharata

Anushasana Parva, Adhyaya 81, Verse 26

एतद्गोशकृतः पुत्र माहात्म्यं तेऽनुवर्णितम्

माहात्म्यं च गवां भूयः श्रूयतां गदतो मम