Mahabharata

Anushasana Parva, Adhyaya 79

Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 79, Verse 1

घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः

घृतनद्यो घृतावर्तास्ता मे सन्तु सदा गृहे

Mahabharata

Anushasana Parva, Adhyaya 79, Verse 2

घृतं मे हृदये नित्यं घृतं नाभ्यां प्रतिष्ठितम्

घृतं सर्वेषु गात्रेषु घृतं मे मनसि स्थितम्

Mahabharata

Anushasana Parva, Adhyaya 79, Verse 3

गावो ममाग्रतो नित्यं गावः पृष्ठत एव च

गावो मे सर्वतश्चैव गवां मध्ये वसाम्यहम्

Mahabharata

Anushasana Parva, Adhyaya 79, Verse 4

इत्याचम्य जपेत्सायं प्रातश्च पुरुषः सदा

यदह्ना कुरुते पापं तस्मात्स परिमुच्यते

Mahabharata

Anushasana Parva, Adhyaya 79, Verse 5

प्रासादा यत्र सौवर्णा वसोर्धारा च यत्र सा

गन्धर्वाप्सरसो यत्र तत्र यान्ति सहस्रदाः

Mahabharata

Anushasana Parva, Adhyaya 79, Verse 6

नवनीतपङ्काः क्षीरोदा दधिशैवलसंकुलाः

वहन्ति यत्र नद्यो वै तत्र यान्ति सहस्रदाः

Mahabharata

Anushasana Parva, Adhyaya 79, Verse 7

गवां शतसहस्रं तु यः प्रयच्छेद्यथाविधि

परामृद्धिमवाप्याथ स गोलोके महीयते

Mahabharata

Anushasana Parva, Adhyaya 79, Verse 8

दश चोभयतः प्रेत्य मातापित्रोः पितामहान्

दधाति सुकृताँल्लोकान्पुनाति च कुलं नरः

Mahabharata

Anushasana Parva, Adhyaya 79, Verse 9

धेन्वाः प्रमाणेन समप्रमाणां; धेनुं तिलानामपि च प्रदाय

पानीयदाता च यमस्य लोके; न यातनां कांचिदुपैति तत्र

Mahabharata

Anushasana Parva, Adhyaya 79, Verse 10

पवित्रमग्र्यं जगतः प्रतिष्ठा; दिवौकसां मातरोऽथाप्रमेयाः

अन्वालभेद्दक्षिणतो व्रजेच्च; दद्याच्च पात्रे प्रसमीक्ष्य कालम्

Mahabharata

Anushasana Parva, Adhyaya 79, Verse 11

धेनुं सवत्सां कपिलां भूरिशृङ्गां; कांस्योपदोहां वसनोत्तरीयाम्

प्रदाय तां गाहति दुर्विगाह्यां; याम्यां सभां वीतभयो मनुष्यः

Mahabharata

Anushasana Parva, Adhyaya 79, Verse 12

सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः

गावो मामुपतिष्ठन्तामिति नित्यं प्रकीर्तयेत्

Mahabharata

Anushasana Parva, Adhyaya 79, Verse 13

नातः पुण्यतरं दानं नातः पुण्यतरं फलम्

नातो विशिष्टं लोकेषु भूतं भवितुमर्हति

Mahabharata

Anushasana Parva, Adhyaya 79, Verse 14

त्वचा लोम्नाथ शृङ्गैश्च वालैः क्षीरेण मेदसा

यज्ञं वहन्ति संभूय किमस्त्यभ्यधिकं ततः

Mahabharata

Anushasana Parva, Adhyaya 79, Verse 15

यया सर्वमिदं व्याप्तं जगत्स्थावरजङ्गमम्

तां धेनुं शिरसा वन्दे भूतभव्यस्य मातरम्

Mahabharata

Anushasana Parva, Adhyaya 79, Verse 16

गुणवचनसमुच्चयैकदेशो; नृवर मयैष गवां प्रकीर्तितस्ते

न हि परमिह दानमस्ति गोभ्यो; भवन्ति न चापि परायणं तथान्यत्

Mahabharata

Anushasana Parva, Adhyaya 79, Verse 17

परमिदमिति भूमिपो विचिन्त्य; प्रवरमृषेर्वचनं ततो महात्मा

व्यसृजत नियतात्मवान्द्विजेभ्यः; सुबहु च गोधनमाप्तवांश्च लोकान्